View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

1.48 बालकांड - अष्टचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ अष्टचत्वारिंशस्सर्गः ।

पृष्ट्वा तु कुशलं तत्र परस्परसमागमे ।
कथांते सुमतिर्वाक्यं व्याजहार महामुनिम् ॥ 1 ॥

इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ ।
गजसिंहगती वीरौ शार्दूलवृषभोपमौ ॥ 2 ॥

पद्मपत्रविशालाक्षौ खड्गतूणी धनुर्धरौ ।
अश्विनाविव रूपेण समुपस्थितयौवनौ ॥ 3 ॥

यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ ।
कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ॥ 4 ॥

भूषयंताविमं देशं चंद्रसूर्याविवांबरम् ।
परस्परस्य सदृशौ प्रमाणेंगितचेष्टितैः ॥ 5 ॥

किमर्थं च मुनिश्रेष्ठ संप्राप्तौ दुर्गमे पथि ।
वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥ 6 ॥

तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत् ।
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ॥ 7 ॥

विश्वामित्रवचश्श्रुत्वा राजा परमहर्षितः ।
अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ ॥ 8 ॥

पूजयामास विधिवत्सत्कारार्हौ महाबलौ ।
ततः परमसत्कारं सुमतेः प्राप्य राघवौ ॥ 9 ॥

उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः ।
तान् दृष्ट्वा मुनयस्सर्वे जनकस्य पुरीं शुभाम् ॥ 10 ॥

साधु साध्विति शंसंतो मिथिलां समपूजयन् ।
मिथिलोपवने शून्यमाश्रमं दृश्य राघवः ॥ 11 ॥

पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुंगवम् ।
श्रीमदाश्रमसंकाशं किन्न्विदं मुनिवर्जितम् ॥ 12 ॥

ज्ञातुमिच्छामि भगवन् कस्यायं पूर्वमाश्रमः ।
तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः ॥ 13 ॥

प्रत्युवाच महातेजा विश्वामित्रो महामुनिः ।
हंत ते कथयिष्यामि श्रुणु तत्त्वेन राघव ॥ 14 ॥

यस्येदमाश्रमपदं शप्तं कोपान्महात्मना ।
गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः ॥ 15 ॥

आश्रमो दिव्यसंकाशस्सुरैरपि सुपूजितः ।
स चेह तप आतिष्ठदहल्यासहितः पुरा ॥ 16 ॥

वर्षपूगाननेकांश्च राजपुत्र महायशः ।
तस्यांतरं विदित्वा तु सहस्राक्षश्शचीपतिः ॥ 17 ॥

मुनिवेषधरोऽहल्यामिदं वचनमब्रवीत् ।
ऋतुकालं प्रतीक्षंते नार्थिनस्सुसमाहिते ॥ 18 ॥

संगमं त्वहमिच्छामि त्वया सह सुमध्यमे ।
मुनिवेषं सहस्राक्षं विज्ञाय रघुनंदन ॥ 19 ॥

मतिं चकार दुर्मेधा देवराजकुतूहलात् ।
अथाब्रवीत् नरश्रेष्ठ कृतार्थेनांतरात्मना ॥ 20 ॥

कृतार्थाऽस्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो ।
आत्मानं मां च देवेश सर्वदा रक्ष गौतमात् ॥ 21 ॥

इंद्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत् ।
सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथाऽगतम् ॥ 22 ॥

एवं संगम्य तु तया निश्चक्रामोटजात्ततः ।
स संभ्रमात्त्वरन् राम शंकितो गौतमं प्रति ॥ 23 ॥

गौतमं तं ददर्शाथ प्रविशंतं महामुनिम् ।
देवदानवदुर्धर्षं तपोबलसमन्वितम् ॥ 24 ॥

तीर्थेंदकपरिक्लिन्नं दीप्यमानमिवानलम् ।
गृहीतसमिधं तत्र सकुशं मुनिपुंगवम् ॥ 25 ॥

दृष्ट्वा सुरपतिस्त्रस्तो विवर्णवदनोऽभवत् ।
अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः ॥ 26 ॥

दुर्वृत्तं वृत्तसंपन्नो रोषाद्वचनमब्रवीत् ।
मम रूपं समास्थाय कृतवानसि दुर्मते ॥ 27 ॥

अकर्तव्यमिदं तस्माद्विफलस्त्वं भविष्यसि ।
गौतमेनैवमुक्तस्य सरोषेण महात्मना ॥ 28 ॥

पेततुर्वृषणै भूमौ सहस्राक्षस्य तत्क्षणात् ।
तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान् ॥ 29 ॥

इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि ।
वायुभक्षा निराहारा तप्यंती भस्मशायिनी ॥ 30 ॥

अदृश्या सर्वभूतानां आश्रमेऽस्मिन्निवत्स्यसि ।
यदा चैतद्वनं घोरं रामो दशरथात्मजः ॥ 31 ॥

आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि ।
तस्यातिथ्येन दुर्वुत्ते लोभमोहविवर्जिता ॥ 32 ॥

मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि ।
एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम् ॥ 33 ॥

इममाश्रममुत्सृज्य सिद्धचारणसेविते ।
हिमवच्छिखरे पुण्ये तपस्तेपे महातपाः ॥ 34 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे अष्टचत्वारिंशस्सर्गः ॥




Browse Related Categories: