श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ सप्तषष्टितमस्सर्गः ।
पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् ।
सारग्राही महासारं प्रतिजग्राह राघवः ॥ 1 ॥
सन्निगृह्य महाबाहुः प्रवृत्तं कोपमात्मनः ।
अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ॥ 2 ॥
किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण ।
केनोपायेन गच्छेयं सीतामिति विचिंतय ॥ 3 ॥
तं तथा परितापार्तं लक्ष्मणो राममब्रवीत् ।
इदमेव जनस्थानं त्वमन्वेषितुमर्हसि ॥ 4 ॥
राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम् ।
संतीह गिरिदुर्गाणि निर्दराः कंदराणि च ॥ 5 ॥
गुहाश्च विविधा घोरा नानामृगगणाकुलाः ।
आवासाः किन्नराणां च गंधर्वभवनानि च ॥ 6 ॥
तानि युक्तो मया सार्धं त्वमन्वेषितुमर्हसि ।
त्वद्विधा बुद्धिसंपन्ना महात्मानो नरर्षभ ॥ 7 ॥
आपत्सु न प्रकंपंते वायुवेगैरिवाचलाः ।
इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः ॥ 8 ॥
क्रुद्धो रामश्शरं घोरं संधाय धनुषि क्षुरम् ।
ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ॥ 9 ॥
ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् ।
तं दृष्ट्वा गिरिशृंगाभं रामो लक्ष्मणमब्रवीत् ॥ 10 ॥
अनेन सीता वैदेही भक्षिता नात्र संशयः ।
गृध्ररूपमिदं रक्षो व्यक्तं भवति कानने ॥ 11 ॥
भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् ।
एनं वधिष्ये दीप्तास्यैर्घोरैर्बाणैरजिह्मगैः ॥ 12 ॥
इत्युक्त्वाभ्यपतद्गृध्रं संधाय धनुषि क्षुरम् ।
क्रुद्धो रामस्समुद्रांतां कंपयन्निव मेदिनीम् ॥ 13 ॥
तं दीनं दीनया वाचा सफेनं रुधिरं वमन् ।
अभ्यभाषत पक्षी तु रामं दशरथात्मजम् ॥ 14 ॥
यामोषधिमिवायुष्मन्नन्वेषसि महावने ।
सा देवी मम च प्राणा रावणेनोभयं हृतम् ॥ 15 ॥
त्वया विरहिता देवी लक्ष्मणेन च राघव ।
ह्रियमाणा मया दृष्टा रावणेन बलीयसा ॥ 16 ॥
सीतामभ्यवपन्नोऽहं रावणश्च रणे मया ।
विध्वंसितरथश्चात्र पातितो धरणीतले ॥ 17 ॥
एतदस्य धनुर्भग्नमेतदस्य शरावरम् ।
अयमस्य रथो राम भग्नसांग्रामिको मया ॥ 18 ॥
अयं तु सारथिस्तस्य मत्पक्षनिहतो युधि ।
परिश्रांतस्य मे पक्षौ छित्त्वा खड्गेन रावणः ॥ 19 ॥
सीतामादाय वैदेहीमुत्पपात विहायसम् ।
रक्षसा निहतं पूर्वं न मां हंतुं त्वमर्हसि ॥ 20 ॥
रामस्तस्य तु विज्ञाय बाष्पपूर्णमुखस्तदा ।
द्विगुणीकृततापार्तस्सीतासक्तां प्रियां कथाम् ॥ 21 ॥
गृध्रराजं परिष्वज्य परित्यज्य महद्धनुः ।
निपपातावशो भूमौ रुरोद सहलक्ष्मणः ॥ 22 ॥
एकमेकायने दुर्गे निश्श्वसंतं कथंचन ।
समीक्ष्य दुःखिततरो रामस्सौमित्रिमब्रवीत् ॥ 23 ॥
राज्यं भ्रष्टं वने वासस्सीता नष्टा हतो द्विजः ।
ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम् ॥ 24 ॥
संपूर्णमपि चेदद्य प्रविशेयं महोदधिम् ।
सोऽपि नूनं ममालक्ष्म्या विशुष्येत्सरितांपतिः ॥ 25 ॥
नास्त्यभाग्यतरो लोके मत्तोऽस्मिन्सचराचरे ।
येनेयं महती प्राप्ता मया व्यसनवागुरा ॥ 26 ॥
अयं पितृवयस्यो मे गृध्रराजो जरान्वितः ।
शेते विनिहतो भूमौ मम भाग्यविपर्ययात् ॥ 27 ॥
इत्येवमुक्त्वा बहुशो राघवस्सहलक्ष्मणः ।
जटायुषं च पस्पर्श पितृस्नेहं विदर्शयन् ॥ 28 ॥
निकृत्तपक्षं रुधिरावसिक्तं स गृध्रराजं परिरभ्य रामः ।
क्व मैथिली प्राणसमा ममेति विमुच्य वाचं निपपात भूमौ ॥ 29 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे सप्तषष्टितमस्सर्गः ॥