श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ अष्टमस्सर्गः ।
ततोनीलांबुदनिभः प्रहस्तोनामराक्षसः ।
अब्रवीत्प्रांजलिर्वाक्यंशूरस्सेनापतिस्तदा ॥ 1 ॥
देवदानवगंधर्वाःपिशाचपतगोरगाः ।
नत्वांधर्षयितुंशक्याःकिंपुनर्वानरारणे ॥ 2 ॥
सर्वेप्रमत्ताविश्वस्तावंचितास्स्महनूमता ।
नहिमेजीवतोगच्छेज्जीवन् सवनगोचरः ॥ 3 ॥
सर्वांसागरपर्यंतांसशैलवनकाननाम् ।
करोम्यवानरांभूमिमाज्ञापयतुमांभवान् ॥ 4 ॥
रक्षांचैवविधास्यामिवानराद्रजनीचर ।
नागमिष्यतितेदुःखंकिंचिदात्मापराधजम् ॥ 5 ॥
अब्रवीच्चसुसंकृद्धोदुर्मुखोनामराक्षसः ।
इदंनक्षमणीयंहिसर्वेषांनःप्रधर्षणम् ॥ 6 ॥
अयंपरिभवोभूयःपुरस्यांतःपुरस्यच ।
श्रीमतोराक्षसेंद्रस्यवानरेणप्रधर्षणम् ॥ 7 ॥
अस्मिन् मुहूर्तेगत्वैकोनिवर्तिष्यामिवानरान् ।
प्रविष्टान् सागरंभीममंबरंवारसातलम् ॥ 8 ॥
ततोऽब्रवीत्सुसंकृद्धोवज्रदंष्ट्रोमहाबलः ।
प्रगृह्यपरिघंघोरंमांसशोणितरूषितम् ॥ 9 ॥
किंवोहनुमताकार्यंकृपणेनतपस्विना ।
रामेतिष्ठतिदुर्धर्षेससुग्रीवेऽपिसलक्ष्मणे ॥ 10 ॥
अद्यरामंससुग्रीवंपरिघेणसलक्ष्मणम् ।
आगमिष्यामिहत्वैकोविक्षोभ्यहरिवाहिनीम् ॥ 11 ॥
इदंममापरंवाक्यंशृणुराजन् यदीच्छसि ।
उपायकुशलोह्येवजयेच्छत्रूनतंद्रितः ॥ 12 ॥
कामरूपधराश्शूरास्सुभीमाभीमदर्शनाः ।
राक्षसावैसहस्राणिराक्षसाधिपनिश्चिताः ॥ 13 ॥
काकुत्स्थमुपसंगम्यबिभ्रतोमानुषंवपुः ।
सर्वेह्यसंभ्रमाभूत्वाब्रुवंतुरघुसत्तमम् ॥ 14 ॥
प्रेषिताभरतेनैवभ्रात्रातवयवीयसा ।
सहिसेनांसमुत्थाप्यक्षिप्रमेवोपयास्यति ॥ 15 ॥
ततोवयमितस्तूर्णंशूलशक्तिगदाधराः ।
चापबाणासिहस्ताश्चत्वरितास्तत्रयामहे ॥ 16 ॥
आकाशेगणशस्थ्सित्वाहत्वातांहरिवाहिनीम् ।
अश्मशस्त्रमहावृष्ट्याप्रापयामयमक्षयम् ॥ 17 ॥
एवंचेदुपसर्पेतामनयंरामलक्ष्मणौ ।
अवश्यमपनीतेनजहतामेवजीवितम् ॥ 18 ॥
कौंभकर्णिस्ततोवीरोनिकुंभोनामवीर्यवान् ।
अब्रवीत्परमक्रुद्धोरावणंलोकरावणम् ॥ 19 ॥
सर्वेभवंतस्तिष्ठंतुमहाराजेनसंगताः ।
अहमेकोहनिष्यामिराघवंसहलक्ष्मणम् ॥ 20 ॥
सुग्रीवंचहनूमंतंसर्वांनेवचवानरान् ।
ततोवज्रहनुर्नामराक्षसःपर्वतोपमः ॥ 21 ॥
क्रुद्धः परिलिहन्सृक्कांजिह्वयावाक्यमब्रवीत् ।
स्वैरंकुर्वंतुकर्माणिभवंतोविगतज्वराः ॥ 22 ॥
एकोऽहंभक्षयिष्यामितांसर्वांहरियूथपान् ।
स्वस्थाःक्रीडंतुनिश्चिंताःपिबंतुमधुवारुणीम् ॥ 23 ॥
अहमेकोवधिष्यामिसुग्रीवंसहलक्ष्मणम् ।
सांगदंचहनूमंतंरामंचरणकुंजरम् ॥ 24 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे अष्टमस्सर्गः ॥