View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

5.66 सुंदरकांड - षट्षष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ षट्षष्टितमस्सर्गः ।

एवमुक्तो हनुमता रामो दशरथात्मजः ।
तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ॥ 1 ॥

तं तु दृष्ट्वा मणिश्रेष्ठं राघव श्शोककर्शितः ।
नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥ 2 ॥

यथैव धेनु स्स्रवति स्नेहाद्वत्सस्य वत्सला ।
तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ॥ 3 ॥

मणिरत्नमिदं दत्तं वैदेह्याश्श्वशुरेण मे ।
वधूकाले यथाबद्धमधिकं मूर्ध्नि शोभते ॥ 4 ॥

अयं हि जलसंभूतो मणिस्सज्जनपूजितः ।
यज्ञे परमतुष्टेन दत्तश्शक्रेण धीमता ॥ 5 ॥

इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् ।
अद्यास्म्यवगतस्सौम्य वैदेहस्य तथा विभोः ॥ 6 ॥

अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः ।
अस्याद्य दर्शने नाहं प्राप्तां तामिव चिंतये ॥ 7 ॥

किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः ।
पिपासुमिव तोयेन सिंचंती वाक्यवारिणा ॥ 8 ॥

इतस्तु किं दुःखतरं यदिमं वारिसंभवम् ।
मणिं पश्यामि सौमित्रे वैदेहीमागतां विना ॥ 9 ॥

चिरं जीवति वैदेही यदि मासं धरिष्यति ।
क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम् ॥ 10 ॥

नय मामपि तं देशं यत्र दृष्टा मम प्रिया ।
न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ॥ 11 ॥

कथं सा मम सुश्रोणी भीरुभीरु स्सती सदा ।
भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ॥ 12 ॥

शारद स्तिमिरोन्मुक्तो नूनं चंद्रं इवांबुधैः ।
आवृतं वदनं तस्या न विराजति राक्षसैः ॥ 13 ॥

किमाह सीता हनुमंस्तत्त्वतः कथयाद्य मे ।
एतेन खलु जीविष्ये भेषजेनातुरो यथा ॥ 14 ॥

मधुरा मधुरालापा किमाह मम भामिनी ।
मद्विहीना वरारोहा हनुमन् कथयस्व मे ॥ 15 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे षट्षष्टितमस्सर्गः ॥




Browse Related Categories: