श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ षट्षष्टितमस्सर्गः ।
एवमुक्तो हनुमता रामो दशरथात्मजः ।
तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ॥ 1 ॥
तं तु दृष्ट्वा मणिश्रेष्ठं राघव श्शोककर्शितः ।
नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥ 2 ॥
यथैव धेनु स्स्रवति स्नेहाद्वत्सस्य वत्सला ।
तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ॥ 3 ॥
मणिरत्नमिदं दत्तं वैदेह्याश्श्वशुरेण मे ।
वधूकाले यथाबद्धमधिकं मूर्ध्नि शोभते ॥ 4 ॥
अयं हि जलसंभूतो मणिस्सज्जनपूजितः ।
यज्ञे परमतुष्टेन दत्तश्शक्रेण धीमता ॥ 5 ॥
इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् ।
अद्यास्म्यवगतस्सौम्य वैदेहस्य तथा विभोः ॥ 6 ॥
अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः ।
अस्याद्य दर्शने नाहं प्राप्तां तामिव चिंतये ॥ 7 ॥
किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः ।
पिपासुमिव तोयेन सिंचंती वाक्यवारिणा ॥ 8 ॥
इतस्तु किं दुःखतरं यदिमं वारिसंभवम् ।
मणिं पश्यामि सौमित्रे वैदेहीमागतां विना ॥ 9 ॥
चिरं जीवति वैदेही यदि मासं धरिष्यति ।
क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम् ॥ 10 ॥
नय मामपि तं देशं यत्र दृष्टा मम प्रिया ।
न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ॥ 11 ॥
कथं सा मम सुश्रोणी भीरुभीरु स्सती सदा ।
भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ॥ 12 ॥
शारद स्तिमिरोन्मुक्तो नूनं चंद्रं इवांबुधैः ।
आवृतं वदनं तस्या न विराजति राक्षसैः ॥ 13 ॥
किमाह सीता हनुमंस्तत्त्वतः कथयाद्य मे ।
एतेन खलु जीविष्ये भेषजेनातुरो यथा ॥ 14 ॥
मधुरा मधुरालापा किमाह मम भामिनी ।
मद्विहीना वरारोहा हनुमन् कथयस्व मे ॥ 15 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे षट्षष्टितमस्सर्गः ॥