View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.91 युद्धकांड - एकनवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकनवतितमस्सर्गः ।

स हताश्वोमहातेजाभूमौतिष्ठन्निशाचरः ।
इंद्रजित्परमक्रुद्धस्सजज्वालतेजसा ॥ 1 ॥

तौधवनिनौजिघांसंतवन्योन्यमिषुभिर्भृशम् ।
विजयेनाभिनिष्क्रांतौवनेगजवृषाविव ॥ 2 ॥

निबर्हयंतश्चान्योन्यंतेराक्ष्वनौकसः ।
भर्तारं न जहुर्युद्धेसंपतंतस्ततस्ततः ॥ 3 ॥

ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः ।
स्तुवानोहर्षमाणश्चैदंवचनमब्रवीत् ॥ 4 ॥

तमसाबहुलेनेमास्सम्सक्तांसर्वतोदिशः ।
नेहविज्ञायतेस्वोवापरोवारक्षसोत्तमाः ॥ 5 ॥

धृष्टंभवंतोयुध्यंतुहरीणांमोहनायवै ।
अहंतुरथमास्थायआगमिष्यामिसंयुगे ॥ 6 ॥

तथाभवंतःकुर्वंतुयथेमेहिवनौकसः ।
न युध्येयुर्दुरात्मानःप्रविष्टेनगरंमयि ॥ 7 ॥

इत्युक्त्वारावणसुतोवंचयित्वावनौकसः ।
प्रविवेशपुरींलंकांरथहेतोरमित्रहा ॥ 8 ॥

स रथंभूषयित्वाथरुचिरंहेमभूषितम् ।
प्रासासिशरसंयुक्तंयुक्तंपरमवाजिभिः ॥ 9 ॥

अधिष्ठितंहयज्ञेनसूतेनाप्तोपदेशिना ।
आरुरोहमहातेजारावणिःसमतिंजियः ॥ 10 ॥

स राक्षसगणैर्मुख्यैर्वृतोमंदोदरीसुतः ।
निर्ययौनगरावदीरःकृतांतबलचोदितः ॥ 11 ॥

सोऽभिनिष्क्रम्यनगरादिंद्रजित्परवीरहा ।
अभ्ययाज्ञवनैरश्वैर्लक्ष्मणंसविभीषणम् ॥ 12 ॥

ततोरथस्थमालोक्यसौमत्रीरावणात्मजम् ।
वानराश्चमहावीर्याराक्षसश्चविभीषणः ॥ 13 ॥

विस्मयंपरमंजग्मुर्लाघवात्तस्यधीमतः ।
रावणिश्चापिसंक्रुद्धोरणेवानरयूथपान् ॥ 14 ॥

पातयामासबाणौघैःशतशोऽथसहस्रशः ।
मंडलीकृतधनूरावणिःसमतिंजयः ॥ 15 ॥

हरीनभ्यहनत्कृद्धःपरंलाघवमास्थितः ।
तेवध्यमानाहरयोनाराचैर्भीमविक्रमैः ॥ 16 ॥

सौमित्रिंशरणंप्राप्ताःप्रजापतिमिवप्रजाः ।
ततःसमरकोपेनज्वलितोरघुनंदनः ॥ 17 ॥

चिच्छेदकार्मुकंतस्यदर्शयन् पाणिलाघवम् ।
सोन्यऽत्कार्मुकं मादायसज्जंचक्रेत्वरन्निव ॥ 18 ॥

तदप्यस्यत्रिभिर्बाणैर्लक्ष्मणोनिरकृंतत ।
अथैवंछिन्नधन्वानमाशीविषविषोपमैः ॥ 19 ॥

विव्याधोरसिसौमित्रीरावणिंपंचभिःशरैः ।
तेतस्यकायंनिर्भिद्यमहाकार्मुकनिस्सृताः ॥ 20 ॥

निपेतुर्धरणींबाणारक्ताइवमहोरगाः ।
भिन्नवर्मारुधिरंवमन्वक्त्रेणरावणिः ॥ 21 ॥

जग्राहकार्मुकश्रेष्ठंदृढज्यंबलवत्तरम् ।
सःलक्ष्मणंसमुद्धिश्यपरंलाघवमाश्रितः ॥ 22 ॥

ववर्षशरवर्षाणिवर्षाणीवपुरंदरः ।
मुक्तमिंद्रजितातत्तुशरवर्षमरिंदमः ॥ 23 ॥

अवारयदसंभ्रांतोलक्ष्मणःसुदुरासदम् ।
संदर्शयामासतदारावणिंरघुनंदनः ॥ 24 ॥

असंब्रांतोमहातेजेस्तदद्भुतमिवाभवत् ।
तस्तान् राक्षसान् सर्वांस्त्रिभिरेकैकमाहवे ॥ 25 ॥

अविध्यत्परमक्रुद्धश्शीघ्रास्त्रंसंप्रदर्शयन् ।
राक्षसेंद्रसुतंचापिबाणौघैस्समताडयत् ॥ 26 ॥

सोऽतिविद्धोबलवताशत्रुणाशत्रुघातिना ।
असक्तंप्रेषयामासलक्ष्मणायबहून् शरान् ॥ 27 ॥

तानप्राप्तान् शितैर्भाणैश्चिच्छेदपरवीरहा ।
सारथेरस्य च रणेरथिवोरघुसत्तमः ॥ 28 ॥

शिरोजहारधर्मात्माभल्लेनानतपर्वणा ।
सूतास्तेहयास्तत्ररथमूहुरविक्लबाः ॥ 29 ॥

मंडलान्यभिधावंतस्तदद्भुतमिवाभवत् ।
अमर्षवशमापन्नःसौमित्रिर्दृढविक्रमः ॥ 30 ॥

प्रत्यविद्ध्यद्धयांस्तस्यशरैर्वित्रासयन् रणे ।
अमर्षमाणस्तत्कर्मरावणस्यसुतोबली ॥ 31 ॥

विव्याथदशभिर्बाणैस्सौमित्रिंतममर्षणम् ।
तेतस्यवज्रप्रतिमाःशरास्सर्पविषोपमाः ॥ 32 ॥

विलयंजग्मुरागत्यकवचंकांचनप्रभम् ।
अभ्येद्यकवचंमत्वालक्ष्मणंरावणात्मजः ॥ 33 ॥

ललाटेलक्ष्मणंबाणैस्सुपुंखैस्त्रिभिरिंद्रजित् ।
अविध्यत्परमक्रुद्धःशीघ्रमस्त्रंप्रदर्शयन् ॥ 34 ॥

तैःपृषत्कैर्ललाटस्थैश्शुशुभेरघुनंदनः ।
रणाग्रेसमरश्लाघीत्रिशृंगैवपर्वतः ॥ 35 ॥

स तथाह्यर्दितोबाणैराक्षसेनतदामृधे ।
तमाशुप्रतिविव्याधलक्ष्मणःपंचभिःशरैः ॥ 36 ॥

विकृष्वेंद्रजितोयुद्धेवदनेशुभकुंडले ।
लक्ष्मणेंद्रजितौवीरौमहाबलशरासनौ ॥ 37 ॥

अन्योन्यंजघ्नतुर्बाणैर्विशिखैर्मीविक्रमौ ।
ततःशोणितदिग्धांगौलक्ष्मणेंदजितावुभौ ॥ 38 ॥

रणेतौराजतुर्वीरौपुष्पिताविवकिंशुकौ ।
तौपरस्परमभ्येत्यसर्वगात्रेषुधवनिनौ ॥ 39 ॥

घोरैर्विव्यधतुर्भाणैःकृतभावावुभौजये ।
ततःसमरकोपेनसम्वृतोरावणात्मजः ॥ 40 ॥

विभीषणंत्रिभिर्बाणैर्विव्याथवदनेशुभे ।
अयोमुखैस्त्रिभिर्विद्ध्वाराक्षसेंद्रंविभीषणम् ॥ 41 ॥

एकैकेनाभिविव्याथतान्सर्वान् हरियूथपान् ।
तस्मैदृढतरंक्रुद्धोजघानगदयाहयान् ॥ 42 ॥

विभीषणोमहातेजारावणेस्सदुरात्मनः ।
पहताश्वादवाप्लुत्यरथान्निहतसारथेः ॥ 43 ॥

रथशक्तिंमहातेजाःपितृव्यायमुमोच ह ।
तामापततनींसंप्रेक्ष्यसुमित्रानंदवर्धनः ॥ 44 ॥

चिच्छेदनिशितैर्बाणैर्धशथापातयद्भुवि ।
तस्मैदृढतनुःक्रुद्धोहताश्वायविभीषणः ॥ 45 ॥

वज्रस्पर्शसमान् पंचससर्जोरसिसायकान् ।
तेतस्यकायंभित्वातुरुक्मपुंखानिमित्तगाः ॥ 46 ॥

बभूवुर्लोहितादिग्धारक्ताइवमहोरगाः ।
सःपितृव्यस्यसंक्रुद्धःइंद्रजिच्छरमाददे ॥ 47 ॥

उत्तमंरक्षसांमध्येयमदत्तंमहाबलम् ।
तंसमीक्ष्यमहातेजामहेषुंतेनसंहितम् ॥ 48 ॥

लक्ष्मणोऽप्याददेबाणमद्यभदीमपराक्रमः ।
कुबेरेणस्वयंस्वप्नेयद्दत्तममितात्मना ॥ 49 ॥

दुर्जयंदुर्विषह्यं च सेंद्रैरपिसुरासुरैः ।
तयोस्तुधनुषीश्रेष्ठेबाहुभिःपरिघोपमैः ॥ 50 ॥

विकृष्यमाणेबलवत् क्रौंचविवचुकूजतुः ।
ताभ्यांतुधनुषिश्रेष्ठेसंसितौसायकोत्तमौ ॥ 51 ॥

विकृष्यमाणेवीराभ्यांभृशंजज्वलतुःश्रिया ।
तौभासयंतावाकाशंधनुर्भ्यांविशिखौच्युतौ ॥ 52 ॥

मुखेनमुखमाहत्यसन्निपेततुरोजसा ।
सन्निपातस्तयोश्चासीच्छरयोर्घोररूपयोः ॥ 53 ॥

सधूमविस्फुलिंगश्चतज्जोऽनगिर्दारुणोऽभवत् ।
तौमहाग्रहसंकाशावन्योन्यंसन्निपत्य च ॥ 54 ॥

संग्रामेशतधायातौमेदिन्यांचैवपेततुः ।
शरौप्रतिहतौदृष्टवातावुभौरणमूर्धनि ॥ 55 ॥

व्रीडितौजातरोषौ च लक्ष्मणेंद्रजितौतदा ।
सुसंरर्ब्धस्तुसौमित्रिरस्त्रंवारुमाददे ॥ 56 ॥

रौद्रंमहेंद्रजिद्युद्धेऽप्यसृजद्युद्धनिष्ठितः ।
तेनतद्विहतंशस्त्रंवारुणंपरमाद्भुतम् ॥ 57 ॥

ततःक्रुद्धोमहातेजाइंद्रजित्समितिंजयः ।
आग्नेयंसंदधेदीप्तं स लोकंसंक्षिपन्निव ॥ 58 ॥

सौरेणास्त्रणतवदीरोलक्ष्मणःपर्यवारयत् ।
अस्त्रंनिवारितंदृष्टवारावणिःक्रोथमूर्छितः ॥ 59 ॥

आददेनिशितंबाणमासुरंशत्रुदारुणम् ।
तस्माच्चापाद्विनिष्पेतुर्भास्वराःकूटमुद्गराः ॥ 60 ॥

शूलानि च मुशुंड्यश्चगदाःखंगाः परश्वथाः ।
तद्दृष्टवालक्ष्मणःसंख्येघोरमस्त्रंसुदारुणम् ॥ 61 ॥

अवार्यंसर्वभूतानांसर्वशस्त्रविदारणम् ।
महेश्वरेणद्युतिमांस्तदस्त्रंप्रत्यवारयत् ॥ 62 ॥

तयोःसमुतुलंयुद्धंसंबभूवारोमहर्षणम् ।
गगनस्थानिभूतानिलक्ष्मणंपर्यवारयन् ॥ 63 ॥

भैरवाभिरुतेभीमेयुद्धेवानरक्षसाम् ।
भूतैर्बहुभिराकाशंविस्मितैरावृतंबभौ ॥ 64 ॥

ऋषयःपितरोदेवागंधर्वगरुडोरगाः ।
शतक्रतुंपुरस्कृत्यररक्षुर्लक्ष्मणंरणे ॥ 65 ॥

अथान्यंमार्गणश्रेष्ठंसंदधेराघवानुजः ।
हुताशनसमस्पर्शंरावणात्मजदारणम् ॥ 66 ॥

सुपत्रमनुवृत्तांगंसुपर्वाणंसुसंस्थितम् ।
सुवर्णविकृतंवीरश्शरीरांतकरंशरम् ॥ 67 ॥

दुरावारंदुर्विषहंराक्षसानांभयावहम् ।
आशीविषविषप्रख्यंदेवसंघैःसमर्चितम् ॥ 68 ॥

येनशक्रोमहातेजादानवानजत्प्रभुः ।
पुरादेवासुरेयुद्धेवीर्यवान् हरिवाहनः ॥ 69 ॥

तदैंद्रमस्त्रंसौमित्रिःसम्युगेष्वपराजितम् ।
शरश्रेष्ठंधनुः श्रेष्ठेविकर्षन्निदमिब्रवीत् ॥ 70 ॥

लक्ष्मीवान् लक्ष्मणोवाक्यमर्थसाधकमात्मनः ।
धर्मात्मासत्यसंधश्चरामोदाशरथिर्यति ॥ 71 ॥

पौरुषेचाप्रतिद्वंद्वःशरैनंजसिरावणिम् ।
इत्युक्त्वाबाणमाकर्णंविकृष्यतमजिह्मगम् ॥ 72 ॥

लक्ष्मणःसमरेवीरःससर्जेंद्रजितंप्रति ।
ऐंद्रास्त्रेणसमायुज्यलक्ष्मणःपरवीरहा ॥ 73 ॥

ततशिरःसशिरस्त्राणंश्रीमज्ज्वलितकुंडलम् ।
प्रमथ्येंद्रजितःकायात्पातयामासभूतले ॥ 74 ॥

तद्राक्षसतनूजस्यभिन्नस्कंधंशिरोमहत् ।
तपनीयनिभंभूमौददृशेरुधिरोक्षितम् ॥ 75 ॥

हतः स निपपाताथधरण्यांरावणात्मजः ।
कवचीसशिरस्त्राणोविद्धस्थशरासनः ॥ 76 ॥

चुक्रुशुस्तेततःसर्वेवानराःसविभीषणाः ।
हृष्यंतोनिहतेतस्मिन् देवावृत्रवधेयथा ॥ 77 ॥

अथांतरिक्षेभूतानामृषीणां च महात्मनाम् ।
जज्ञेऽथजयसन्नादोगंधर्वाप्सरसामपि ॥ 78 ॥

पतितंतमभिज्ञायराक्षसीसामहाचमूः ।
वध्यमानादिशोभेजेहरिभिर्जितकाशिभिः ॥ 79 ॥

वानरैर्वध्यमानास्तेशस्त्रानुत्सृज्यराक्षसाः ।
लंकामभिमुखास्सस्रुर्भ्रष्टसंज्ञाःप्रधाविताः ॥ 80 ॥

दुद्रुवुर्भहुधाभीताराक्षसाश्शतशोदिशः ।
त्यक्त्वाप्रहरणान्सर्वेपट्टसासिपरश्वधान् ॥ 81 ॥

केचिल्लंकांपरित्रस्ताःविष्टावानरार्दिताः ।
समुद्रेपतिताःकेचित्केचित्पर्वतमाश्रिताः ॥ 82 ॥

हतमिंद्रजितंदृष्टवाशयानं च रणक्षितौ ।
राक्षसानांसहस्रेषु न कश्चित्प्रत्यदृश्यत ॥ 83 ॥

यथास्तंगतआदित्येनावतिष्ठंतिरश्मयः ।
तथातस्मिन्निपतितेराक्षसास्तेगतादिशः ॥ 84 ॥

शांतरश्मिरिवादित्योनिर्वाणैवपावकः ।
बभूव स महाबाहुर्व्यपास्तगतजीवितः ॥ 85 ॥

प्रशांतपीडाबहुलोविनष्टारिःप्रहर्षवान् ।
बभूवलोकःपतितेराक्षसेंद्रसुतोतदा ॥ 86 ॥

हर्षं च शक्रोभगवान् सहसर्वैर्महर्षिभिः ।
जगामनिहतेतस्मिन्राक्षसेपापकर्मणि ॥ 87 ॥

आकाशेचापिदेवानांशुश्रुवेदुंदुभिस्वनः ।
नृत्यद्भिरप्सरोभिश्चगंधर्वैश्चमहात्मभिः ॥ 88 ॥

ववर्षुःपुष्पवर्षाणितदद्भुतमिवाभवत् ।
प्रशशंसुर्हतेतस्मिन्राक्षसेक्रूरकर्मणि ॥ 89 ॥

शुद्धाआपोनभश्चैवजहृषुर्देवदानवाः ।
आजग्मुःपतितेतस्मिन्सर्वलोकभयावहे ॥ 90 ॥

ऊचुश्चसहितास्तुष्टादेवगंधर्वदानवाः ।
विज्वराश्शांतकलुषाब्राह्मणाविचरंत्विति ॥ 91 ॥

ततोऽभ्यनंदन्सम्हृष्टास्समरेहरियूथपाः ।
तमप्रतिबलंदृष्टवाहतंनैरृतपुंगवम् ॥ 92 ॥

विभीषणोहनूमांश्चजांबवांश्चर्क्षयूथपः ।
विजयेनाभिनंदंतसुष्टुवुश्चापिलक्ष्मणम् ॥ 93 ॥

क्ष्वेलंतश्चप्लवंतश्चगर्जंतश्चप्लवंगमाः ।
लब्दलक्षारघुसुतंपरिवार्योपतस्थिरे ॥ 94 ॥

लांगूलानिप्रविध्यंतस्स्फोटयंतश्चवानराः ।
लक्ष्मणोजयतीत्येवंवाक्यंविश्रावयंस्तदा ॥ 95 ॥

अन्योन्यं च समालशिष्यहरयोहृष्टमानसाः ।
चक्रुरुच्चावगुणाराघवाश्रयसजाः कथाः ॥ 96 ॥

तदसुकरमथाभिवीक्ष्यहृष्टाःप्रियसुहृदोयुधिलक्ष्मणस्यकर्म ।
परममुपलभन्मनःप्रहर्षंविनिहतमिंद्ररिपुंनिशम्यदेवाः ॥ 97 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकनवतितमस्सर्गः ॥




Browse Related Categories: