View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.93 युद्धकांड - त्रिनवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ त्रिनवतितमस्सर्गः ।

ततःपौलस्त्यसचिवाश्रुत्वाचेंद्रजितोवधम् ।
आचचक्षुरभिज्ञायदशग्रीवायसव्यथाः ॥ 1 ॥

युद्धेहतोमहाराजलक्ष्मणेनतवात्मजः ।
विभीषणसहायेनमिषतांनोमहाद्युतिः ॥ 2 ॥

शूरंशूरेणसम्गम्यसम्युगेष्वपराजितः ।
लक्ष्मणेनहतश्शूरःपुत्रस्तेमहेंद्रजित् ॥ 3 ॥

गतस्सपरमान्लोकान्शरैस्संताप्यलक्ष्मणम् ।
स तंप्रतिभयंश्रुत्वावधंपुत्रस्यदारुणम् ॥ 4 ॥

घोरमिंद्रजितःसंख्येकश्मलंप्राविशन्महत् ।
उपलभ्यचिरात्संज्ञां राजाराक्षसपुंगव ॥ 5 ॥

पुत्रशोकाकुलोदीनोविललापाकुलेंद्रियः ।
हाराक्षसचमूमुख्यममवत्समहाबल ॥ 6 ॥

जित्वेंद्रंकथमद्यत्वंलक्ष्मणस्यवशंगतः ।
ननुत्वमिषुभिःक्रुद्धोभिंद्याःकालांतकावपि ॥ 7 ॥

मंदरस्यापिशृंगाणिकिंपुनर्लक्ष्मणंयुधि ।
अद्यवैनस्वतोराजाभूयोबहुमतोमम ॥ 8 ॥

येनाद्यत्वंमहाबाहो संयुक्तःकालधर्मणा ।
एषपंथाःसुयोधानांसर्वामरगणेष्वपि ॥ 9 ॥

यःकृतेहन्यतेभर्तुस्सपुमान्स्वर्गमृच्छति ।
अद्यदेवगणास्सर्वेलोकपालामहर्षयः ॥ 10 ॥

हतमिंद्रजितंदृष्टवासुखंस्वप्स्यंतिनिर्भयाः ।
अद्यलोकास्त्रयः कृत्स्नापृथिवी च सकानना ॥ 11 ॥

एकेनेंद्रजिताहीनाशून्येवप्रतिभातिमे ।
अद्यनैरृतकन्यानांश्रोष्याम्यंतःपुरेरवम् ॥ 12 ॥

करेणुसंघस्ययथानिनादंगिरिगह्वरे ।
यौवराज्यं च लंकां च रक्षांसि च परंतप ॥ 13 ॥

मातरंमां च भार्याश्चक्वगतोऽसिविहायनः ।
ममनामत्वयावीरगतस्ययमसादनम् ॥ 14 ॥

प्रेतकार्याणिकार्याणिविपरीतेहिवर्तसे ।
स त्वंजीवतिसुग्रीवेलक्ष्मणेन च राघवे ॥ 15 ॥

ममशल्यमनुद्धृत्यक्वगतोऽसिविहायनः ।
एवमादिविलापार्तंरावणंराक्षसाधिपम् ॥ 16 ॥

आविवेशमहान् कोपःपुत्रव्यसनसंभवः ।
प्रकृत्याकोपनंह्येनंपुत्रस्यपुनराधयः ॥ 17 ॥

दीप्तंसंदीपयामासुर्घर्मेऽर्कमिवरश्मयः ।
ललाटेभ्रुकुटीभिश्चसंगताभिर्व्यरोचत ॥ 18 ॥

युगांतेसहनक्रैस्तुमहोर्मिभिरिवोदधिः ।
कोपाद्विजृंभमाणस्यवक्त्राद्व्यक्तमिवज्वलन् ॥ 19 ॥

उत्पपातसधूमानगिर्वृत्रस्यवदनादिव ।
स पुत्रवधसंतप्तश्शूरःक्रोधवशंगतः ॥ 20 ॥

समीक्ष्यरावणोबुद्ध्यावैदेह्यारोचयद्वधम् ।
तस्यप्रकृत्यारक्ते च रक्तेक्रोथानगिनापि च ॥ 21 ॥

रावणस्यमहाघोरेदीप्तेनेत्रेबभूवतुः ।
घोरंप्रकृत्यारूपंतत्तस्यक्रोधाग्निमूर्छितम् ॥ 22 ॥

बभूवरूपंक्रुद्धस्यरुद्रस्येवदुरासदम् ।
तस्यक्रुद्धस्यनेत्राभ्यांप्रापतन्नाश्रृबिंदवः ॥ 23 ॥

दीपाभ्यामिवदीप्ताभ्यांसार्चिषस्स्नेहबिंदवः ।
दंतावनिदशतस्तस्यश्रूयतेदशनस्वनः ॥ 24 ॥

यंत्रस्यावेष्ट्यमाणस्य महतो दानवैरिव ।
कालानगिरिवसंक्रुद्धोयांयांदिशमवैक्षत ॥ 25 ॥

तस्यांतस्यांभयत्रस्ताराक्षसास्सन्विलियलिरे ।
तमंतकमिवक्रुद्धंचराचरचिखादिषुम् ॥ 26 ॥

वीक्षमाणंदिशस्सर्वाराक्षसानोपचक्रमुः ।
ततःपरमसंक्रुद्धोरावणोराक्षसाधिपः ॥ 27 ॥

अब्रवीद्रक्षसांमध्येसंस्तंभयिषुराहवे ।
मयावर्षसहस्राणिचरित्वापरमंतपः ॥ 28 ॥

तेषुतेष्ववकाशेषुस्वयंभूःपरितोषितः ।
तस्यैवतपसोव्युष्ट्याप्रसादाच्छस्वयंभुवः ॥ 29 ॥

नासुरेभ्यो न देवेभ्योभयंममकदाचन ।
कवचंब्रह्मदत्तंमेयदादित्यसमप्रभम् ॥ 30 ॥

देवासुरविमर्धेषु न भिन्नंवज्रमुष्टिभिः ।
तेनमामद्यसम्युक्तंरथस्थमिहसम्युगे ॥ 31 ॥

प्रतीयात्कोऽद्यमामाजौसाक्षादपिपुरंदरः ।
त्तदातिप्रसन्नेनसशरंकार्मुकंमहत् ॥ 32 ॥

देवासुरविमर्धेषुममदत्तंस्वयंभुवा ।
अद्यतूर्यशतैर्भीमंधनुरुत्थाप्यतांमम ॥ 33 ॥

रामलक्ष्मणयोरेववधायपरमाहवे ।
स पुत्रवधसंतप्तःक्रूरःक्रोधवशंगतः ॥ 34 ॥

समीक्ष्यरावणोबुद्ध्यासीतांहंतुंव्यवस्यत ।
प्रत्यवेक्ष्यताम्राक्षस्सुघोरोघोरदर्शनः ॥ 35 ॥

दीनोदीनस्वरान्सर्वांस्तानुवाचनिशाचरान् ।
माययाममवत्सेनवंचनार्थंवनौकसाम् ॥ 36 ॥

किंचिदेवहतंतत्रसीतेयमितिदर्शितम् ।
तदिदंतथ्यमेवाहंकरिष्येप्रियमात्मनः ॥ 37 ॥

वैदेहींनाशयिष्यामिक्षत्रबंधुमनुव्रताम् ।
इत्येवमुक्त्वासचिवान्खंगमाशुपरामृशत् ॥ 38 ॥

उत्प्लुत्यगुणसंपन्नंविमलांबरवर्चसम् ।
निष्पपात स वेगेनसभार्यःसचिवैर्वृतः ॥ 39 ॥

रावणःपुत्रशोकेनभृशमाकुलचेतनः ।
संक्रुद्धःखडगमादायसहसायत्रमैथिली ॥ 40 ॥

व्रजंतंराक्षसंप्रेक्ष्यसिंहनादंविचक्रुशुः ।
ऊचुश्चान्योन्यमालिंग्यसंक्रुद्धंप्रेक्ष्यराक्षसम् ॥ 41 ॥

अद्यैनंतावुभौदृष्टवाभ्रातरौप्रव्यधिष्यतः ।
लोकपालाहिचत्वारःक्रुद्धेनानेनतर्जिताः ॥ 42 ॥

बहवःशत्रवश्चान्येसम्युगेष्वभिपातिताः ।
त्रिषुलोकेषुरत्नानिभुङक्तेचाहृत्यरावणः ॥ 43 ॥

विक्रमे च बलेचैवनास्त्यस्यसदृशोभुवि ।
तेषांसंजल्पमानामशोकवनिकांगताम् ॥ 44 ॥

अभिदुद्राववैदेहींरावणःक्रोधमूर्छितः ।
वार्यमाणःसुसंक्रुद्धःसुहृद्भिर्हितबुद्धिभिः ॥ 45 ॥

अभ्यधावतसंक्रुद्धःखेग्रहोरोहिणीमिव ।
मैथिलीरक्ष्यमाणातुराक्षसीरनिंदिता ॥ 46 ॥

ददर्शराक्षसंक्रुद्धंनिस्त्रिंशवरधारिणम् ।
तंनिशाम्यसविस्त्रिंशंव्यथिताजनकात्मजा ॥ 47 ॥

निवार्यमाणंबहुशःसुहृद्भिरनिवर्तिनम् ।
सीतादुःखसमाविष्टाविलपंतीदमब्रवीत् ॥ 48 ॥

यथायंमामभिक्रुद्धःसमभिद्रवतिस्वयम् ।
वधिष्यतिसनाथांमामनाथामिवदुर्मतिः ॥ 49 ॥

बहुशश्चोदयामासभर्तारंमामनुव्रताम् ।
भार्याभवरमस्वेतिप्रत्याख्यातोध्रुवंमया ॥ 50 ॥

सोऽयंमामनुपस्थानेव्यक्तंनैराश्यमागतः ।
क्रोधमोहसमाविष्टोनिहंतुंमांसमुद्यतः ॥ 51 ॥

अथवातौनरव्याघ्रौभ्रातरौरामलक्ष्मणौ ।
मन्निमित्तमनार्येणसमरेऽद्यनिपातितौ ॥ 52 ॥

भैरवोहिमहान्नादोराक्षसानांश्रुतोमया ।
बहूनामिहहृष्टानांतथाविक्रोशतांप्रियम् ॥ 53 ॥

अहोधिङ्मन्निमित्तोऽयंविनाशोराजपुत्रयोः ।
अथवापुत्रशोकेनाहत्यारामलक्ष्मणौ ॥ 54 ॥

विधमिष्यतिमांरौद्रोराक्षसःपापनिश्चयः ।
हनूमतस्तुतद्वाक्यं न कृतंक्षुद्रयामया ॥ 55 ॥

यद्यहंतस्यपृष्ठेवतदायासमनिर्जिता ।
नाद्यैवमनुशोचेयंभर्तुरंकगतासती ॥ 56 ॥

मन्येतुहृदयंतस्याःकौसल्यायाःफलिष्यति ।
एकपुत्रायदापुत्रंविनष्टंश्रोष्यतेयुधि ॥ 57 ॥

साहिजन्म च बाल्यं च यौवनं च महात्मनः ।
धर्मकार्याणिरूपं च रुदतीसंस्मरिष्यति ॥ 58 ॥

निराशानिहतेपुत्रेदत्त्वाश्राद्धमचेतना ।
अग्निमावेक्ष्यतेनूनमापोवापिप्रवेक्ष्यति ॥ 59 ॥

धिगस्तुकुब्जामसतींमंथरांपापनिश्चयाम् ।
यन्निमित्तमिमंशोकंकौसल्याप्रतिपत्स्यते ॥ 60 ॥

इत्येवंमैथिलींदृष्टवाविलपंतींतपस्विनीम् ।
रोहिणीमिवचंद्रेणविनाग्रहवशंगताम् ॥ 61 ॥

एतस्मिन्नंतरेतस्यामात्यःशीलवान् शुचिः ।
सुपार्श्वोनाममेधावीरावणंरक्षसेश्वरम् ॥ 62 ॥

निवार्यमाणःसचिवैरिदंवचनमब्रवीत् ।
कथंनामदशग्रीव साक्षद्वैश्रवणानुज ॥ 63 ॥

हंतुमिच्छसिवैदेहींक्रोधाद्धर्ममपास्य च ।
वेदविद्याव्रतस्नातःस्वकर्मनिरतस्तथा ॥ 64 ॥

स्त्रियःकस्माद्वधंवीरमन्यसेराक्षसेश्वर ।
मैथिलींरूपसंपन्नांप्रत्यवेक्षस्वपार्थिव ॥ 65 ॥

तस्मिन्नेवसहास्माभिराहेवक्रोधमुत्सृज ।
अभ्युत्थानंत्वमद्यैवकृष्णपक्षचतुर्धशीम् ॥ 66 ॥

कृत्वानिर्याह्यमावास्यांविजयायबलैर्वृतः ।
शूरःधीमान् रथीखडगीरथप्रवमास्थितः ॥ 67 ॥

हत्वादाशरथिंरामंभवान् प्राप्स्यसिमैथिलीम् ।
स तद्दुरात्मासुहृदानिवेदितंवचःसुधर्म्यंप्रतिगृह्यरावणः ।
गृहंजगामथततश्चवीर्यवान् पुनःसभां च प्रययौसुहृद्वृतः ॥ 68 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे त्रिनवतितमस्सर्गः ॥




Browse Related Categories: