View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

3.31 अरण्यकांड - एकत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ एकत्रिंशस्सर्गः ।

त्वरमाणस्ततो गत्वा जनस्थानादकंपनः ।
प्रविश्य लंकां वेगेन रावणं वाक्यमब्रवीत् ॥ 1 ॥

जनस्थानस्थिता राजन्राक्षसा बहवो हताः ।
खरश्च निहतस्संख्ये कथंचिदहमागतः ॥ 2 ॥

एवमुक्तो दशग्रीवः क्रुद्ध स्संरक्तलोचनः ।
अकंपनमुवाचेदं निर्दहन्निव चक्षुषा ॥ 3 ॥

केन रम्यं जनस्थानं हतं मम परासुना ।
को हि सर्वेषु लोकेषु गतिं चाधिगमिष्यति ॥ 4 ॥

न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम् ।
प्राप्तुं वैश्रवणेनापि न यमेन न विष्णुना ॥ 5 ॥

कालस्य चाप्यहं कालो दहेयमपि पावकम् ।
मृत्युं मरणधर्मेण संयोजयितुमुत्सहे ॥ 6 ॥

दहेयमपि संकृद्धस्तेजसाऽदित्यपावकौ ।
वातस्य तरसा वेगं निहंतुमहमुत्सहे ॥ 7 ॥

तथा क्रुद्धं दशग्रीवं कृतांजलिरकंपनः ।
भयात्संदिग्धया वाचा रावणं याचतेऽभयम् ॥ 8 ॥

दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः ।
स विस्रब्धोऽब्रवीद्वाक्यमसंदिग्धमकंपनः ॥ 9 ॥

पुत्रो दशरथस्यास्ति सिंहसंहननो युवा ।
रामो नाम वृषस्कंधो वृत्तायतमहाभुजः ॥ 10 ॥

वीरः पृथुयशाश्श्रीमानतुल्यबलविक्रमः ।
हतं तेन जनस्थानं खरश्च सह दूषणः ॥ 11 ॥

अकंपनवच श्रुत्वा रावणो राक्षसाधिपः ।
नागेंद्र इव निश्वस्य वचनं चेदमब्रवीत् ॥ 12 ॥

स सुरेंद्रेण संयुक्तो रामस्सर्वामरैस्सह ।
उपयातो जनस्थानं ब्रूहि कच्चिदकंपन ॥ 13 ॥

रावणस्य पुनर्वाक्यं निशम्य तदकंपनः ।
आचचक्षे बलं तस्य विक्रमं च महात्मनः ॥ 14 ॥

रामो नाम महातेजा श्रेष्ठस्सर्वधनुष्मताम् ।
दिव्यास्त्रगुणसंपन्नः पुरंदरसमो युधि ॥ 15 ॥

तस्यानुरूपो बलवान्रक्ताक्षो दंदुभिस्वनः ।
कनीयान्लक्ष्मणो नाम भ्राता शशिनिभाननः ॥ 16 ॥

स तेन सह संयुक्तः पावकेनानिलो यथा ।
श्रीमान्राजवरस्तेन जनस्थानं निपातितम् ॥ 17 ॥

नैव देवा महात्मानो नात्र कार्या विचारणा ।
शरा रामेण तूत्सृष्टा रुक्मपुंखाः पतत्रिणः ॥ 18 ॥

सर्पाः पंचानना भूत्वा भक्षयंति स्म राक्षसान् ।
येन येन च गच्छंति राक्षसा भयकर्शिताः ॥ 19 ॥

तेन तेन स्म पश्यंति राममेवाग्रतः स्थितम् ।
इत्थं विनाशितं तेन जनस्थानं तवानघ ॥ 20 ॥

अकंपनवचश्रुत्वा रावणो वाक्यमब्रवीत् ।
जनस्थानं गमिष्यामि हंतुं रामं सलक्ष्मणम् ॥ 21 ॥

अथैवमुक्ते वचने प्रोवाचेदमकंपनः ।
शृणु राजन्यथावृत्तं रामस्य बलपौरुषम् ॥ 22 ॥

असाध्यः कुपितो रामो विक्रमेण महायशाः ।
आपगायास्सुपूर्णाया वेगं परिहरेच्छरैः ॥ 23 ॥

सतारग्रहनक्षत्रं नभश्चाप्यवसादयेत् ।
असौ रामस्तु सीदंतीं श्रीमानभ्युद्धरेन्महीम् ॥ 24 ॥

भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद्विभुः ।
वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः ॥ 25 ॥

संहृत्य वा पुनर्लोकान्विक्रमेण महायशाः ।
शक्तस्सपुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः ॥ 26 ॥

न हि रामो दशग्रीव शक्यो जेतुं त्वया युधि ।
रक्षसां वापि लोकेन स्वर्गः पापजनैरिव ॥ 27 ॥

न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि ।
अयं तस्य वधोपायस्तन्ममैकमनाश्शृणु ॥ 28 ॥

भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा ।
श्यामा समविभक्तांगी स्त्रीरत्नं रत्नभूषिता ॥ 29 ॥

नैव देवी न गंधर्वी नाप्सरा नापि दानवी ।
तुल्या सीमंतिनी तस्या मानुषीषु कुतो भवेत् ॥ 30 ॥

तस्यापहर भार्यांत्वं प्रमथ्य तु महावने ।
सीतया रहितः कामी रामो हास्यति जीवितम् ॥ 31 ॥

अरोचयत तद्वाक्यं रावणो राक्षसाधिपः ।
चिंतयित्वा महाबाहुरकंपनमुवाच ह ॥ 32 ॥

बाढं काल्यं गमिष्यामि ह्येकस्सारथिना सह ।
आनयिष्यामि वैदेहीमिमां हृष्टो महापुरीम् ॥ 33 ॥

अथैवमुक्त्वा प्रययौ खरयुक्तेन रावणः ।
रथेनादित्यवर्णेन दिशस्सर्वाः प्रकाशयन् ॥ 34 ॥

स रथो राक्षसेंद्रस्य नक्षत्रपथगो महान् ।
संचार्यमाणश्शुशुभे जलदे चंद्रमा इव ॥ 35 ॥

स मारीचाश्रमं प्राप्य ताटकेयमुपागमत् ।
मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः ॥ 36 ॥

तं स्वयं पूजयित्वा तु आसनेनोदकेन च ।
अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥ 37 ॥

कच्चित्सुकुशलं राजन्लोकानां राक्षसेश्वर ।
आशंके नाथ जाने त्वं यतस्तूर्णमिहागतः ॥ 38 ॥

एवमुक्तो महातेजा मारीचेन स रावणः ।
ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ॥ 39 ॥

आरक्षो मे हतस्तात रामेणाक्लिष्टकर्मणा ।
जनस्थानमवध्य तत्सर्वं युधि निपातितम् ॥ 40 ॥

तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे ।
राक्षसेंद्रवचश्श्रुत्वा मारीचो वाक्यमब्रवीत् ॥ 41 ॥

आख्याता केन सीता सा मित्ररूपेण शत्रुणा ।
त्वया राक्षसशार्दूल को न नंदति नंदितः ॥ 42 ॥

सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे ।
रक्षोलोकस्य सर्वस्य कश्शृंगं छेत्तुमिच्छति ॥ 43 ॥

प्रोत्साहयति कश्च त्वां स च शत्रुरसंशयः ।
अशीविषमुखाद्दंष्ट्रामुद्धर्तुं चेच्छति त्वया ॥ 44 ॥

कर्मणा केन केनासि कापथं प्रतिपादितः ।
सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि ॥ 45 ॥

विशुद्धवंशाभिजनाग्रहस्त स्तेजोमदस्संस्थितदोर्विषाणः ।
उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगंधहस्ती ॥ 46 ॥

असौ रणांतः स्थितिसंधिवालो विदग्धरक्षोमृगहा नृसिंहः ।
सुप्तस्त्वया बोधयितुं न युक्तः शरांगपूर्णो निशितासिदंष्ट्रः ॥ 47 ॥

चापापहारे भुजवेगपंके शरोर्मिमाले सुमहाहवौघे ।
न रामपातालमुखेऽतिघोरे प्रस्कंदितुं राक्षसराज युक्तम् ॥ 48 ॥

प्रसीद लंकेश्वर राक्षसेंद्र लंकां प्रसन्नो भव साधु गच्छ ।
त्वं स्वेषु दारेषु रमस्व नित्यं रामस्सभार्यो रमतां वनेषु ॥ 49 ॥

एवमुक्तो दशग्रीवो मारीचेन स रावणः ।
न्यवर्तत पुरीं लंकां विवेश च गृहोत्तमम् ॥ 50 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे एकत्रिंशस्सर्गः ॥




Browse Related Categories: