View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

2.68 अयोध्याकांड - अष्टषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ अष्टषष्टितमस्सर्गः ।

तेषां हि वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह ।
मित्रामात्यगणान्सर्वान्ब्राह्मणांस्तानिदं वचः ॥ 1 ॥

यदसौ मातुलकुले दत्तराज्यं परं सुखी ।
भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥ 2 ॥

तच्छीघ्रं जवना दूता गच्छंतु त्वरितैर्हयैः ।
आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम् ॥ 3 ॥

गच्छंत्विति तत स्सर्वे वसिष्ठं वाक्यमब्रुवन् ।
तेषां तद्वचनं श्रूत्वा वसिष्ठो वाक्यमब्रवीत् ॥ 4 ॥

एहि सिद्धार्थ विजय जयंताशोक नंदन ।
श्रूयतामिति कर्तव्यं सर्वानेव ब्रवीमि वः ॥ 5 ॥

पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवै र्हयैः ।
त्यक्तशोकैरिदं वाच्य श्शासनाद्भरतो मम ॥ 6 ॥

पुरोहित स्त्वां कुशलं प्राह सर्वे च मंत्रिणः ।
त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ॥ 7 ॥

मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् ।
भवंत श्शंसिषुर्गत्वा राघवाणामिमं क्षयम् ॥ 8 ॥

कौशेयानि च वस्त्राणि भूषणानि वराणि च ।
क्षिप्रमादय राज्ञश्च भरतस्य च गच्छत ॥ 9 ॥

दत्तपथ्यशना दूता जग्मुस्स्वं स्वं निवेशनम् ।
केकयां स्ते गमिष्यंतो हयानारुह्य संमतान् ॥ 10 ॥

ततः प्रास्थानिकं कृत्वा कार्यशेषमनंतरम् ।
वसिष्ठेनाभ्यनुज्ञाता दूता स्संत्वरिता ययुः ॥ 11 ॥

न्यंतेनापरतालस्य प्रलंबस्योत्तरं प्रति ।
निषेवमाणा स्ते जग्मुर्नदीं मध्येन मालिनीम् ॥ 12 ॥

ते हस्तिनापुरे गंगां तीर्त्वा प्रत्यङ्मुखा ययुः ।
पांचालदेशमासाद्य मध्येन कुरुजांगलम् ॥ 13 ॥

सरांसि च सुपूर्णानि नदीश्च विमलोदकाः ।
निरीक्षमाणा स्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥ 14 ॥

ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम् ।
उपातिजग्मुर्वेगेन शरदंडां जनाकुलाम् ॥ 15 ॥

निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम् ।
अभिगम्याभिवाद्यं तं कुलिंगां प्राविशन्पुरीम् ॥ 16 ॥

आभिकालं ततः प्राप्य ते बोधिभवनाच्च्युताम् ।
पितृपैतामहीं पुण्यां तेरुरिक्षुमतीं नदीम् ॥ 17 ॥

अवेक्ष्यांजलिपानांश्च ब्राह्मणान्वेदपारगान् ।
ययुर्मध्येन बाह्लीकान् सुदामानं च पर्वतम् ॥ 18 ॥

विष्णोः पदं प्रेक्षमाणा विपाशांचापि शाल्मलीम् ।
नदीर्वापी स्तटाकानि पल्वलानि सरांसि च ॥ 19 ॥

पश्यंतो विविधांश्चापि सिंहाव्याघ्रमृग द्विपान् ।
ययुः पथाऽतिमहता शासनं भर्तुरीप्सवः ॥ 20 ॥

ते श्रांतवाहना दूता विकृष्णेन पथा ततः ।
गिरिव्रजं पुरवरं शीघ्रमासेदुरंजसा ॥ 21 ॥

भर्तुः प्रियार्थं कुलरक्षणार्थं भर्तुश्च वंशस्य परिग्रहार्थम् ।
अहेडमाना स्त्वरया स्म दूता रात्र्यांतु ते तत्पुरमेव याताः ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे अष्टषष्टितमस्सर्गः ॥




Browse Related Categories: