View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

1.50 बालकांड - पंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ पंचाशस्सर्गः ।

ततः प्रागुत्तरां गत्वा रामस्सौमित्रिणा सह ।
विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ॥ 1 ॥

रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः ।
साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ॥ 2 ॥

बहूनीह सहस्राणि नानादेशनिवासिनाम् ।
ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् ॥ 3 ॥

ऋषिवाटाश्च दृश्यंते शकटीशतसंकुलाः ।
देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम् ॥ 4 ॥

रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः ।
निवेशमकरोद्देशे विविक्ते सलिलायुते ॥ 5 ॥

विश्वामित्रमनुप्राप्तं श्रुत्वा स नृपतिस्तदा ।
शतानंदं पुरस्कृत्य पुरोहितमनिंदितम् ॥ 6 ॥

प्रत्युज्जगाम सहसा विनयेन समन्वितः ।
ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम् ॥ 7 ॥

विश्वामित्राय धर्मेण ददुर्मंंत्रपुरस्कृतम् ।
प्रतिगृह्य च तां पूजां जनकस्य महात्मनः ॥ 8 ॥

पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम् ।
स तांश्चापि मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः ॥ 9 ॥

यथान्यायं ततस्सर्वैस्समागच्छत्प्रहृष्टवत् ।
अथ राजा मुनिश्रेष्ठं कृतांजलिरभाषत ॥ 10 ॥

आसने भगवानास्तां सहैभिर्मुनिपुंगवैः ।
जनकस्य वचश्श्रुत्वा निषसाद महामुनिः ॥ 11 ॥

पुरोधा ऋत्विजश्चैव राजा च सह मंत्रिभिः ।
आसनेषु यथान्यायमुपविष्टान् समंततः ॥ 12 ॥

दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत् ।
अद्य यज्ञसमृध्दिर्मे सफला दैवतैः कृता ॥ 13 ॥

अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया ।
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव ॥ 14 ॥

यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह ।
द्वादशाहं तु ब्रह्मर्षे शेषमाहुर्मनीषिणः ॥ 15 ॥

ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक ।
इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा ॥ 16 ॥

पुनस्तं परिपप्रच्छ प्रांजलिः प्रणतो नृपः ।
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ ॥ 17 ॥

गजसिंहगती वीरौ शार्दूलवृषभोपमौ ।
पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ ॥ 18 ॥

अश्विनाविव रूपेण समुपस्थितयौवनौ ।
यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ ॥ 19 ॥

कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ।
वरायुधधरौ वीरौ कस्य पुत्रौ महामुने ॥ 20 ॥

भूषयंताविमं देशं चंद्रसूर्याविवांबरम् ।
परस्परस्य सदृशौ प्रमाणेंगितचेष्टितैः ॥ 21 ॥

काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ।
तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः ॥ 22 ॥

न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ ।
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ॥ 23 ॥

तच्चागमनमव्यग्रं विशालायाश्च दर्शनम् ।
अहल्यादर्शनं चैव गौतमेन समागमम् ॥ 24 ॥

महाधनुषि जिज्ञासां कर्तुमागमनं तथा ।
एतत्सर्वं महातेजा जनकाय महात्मने ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे पंचाशस्सर्गः ॥




Browse Related Categories: