श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ अष्टपंचाशस्सर्गः ।
इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः ।
सबाष्पो वानरान्गृध्रः प्रत्युवाच महास्वनः ॥ 1 ॥
यवीयान्मम भ्राता जटायुर्नाम वानराः ।
यमाख्यात हतं युद्धे रावणेन बलीयसा ॥ 2 ॥
वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये ।
न हि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे ॥ 3 ॥
पुरा वृत्रवधे वृत्ते परस्परजयैषिणौ ।
आदित्यमुपयातौ स्वो ज्वलंतं रश्मिमालिनम् ॥ 4 ॥
आवृत्त्याऽकाशमार्गे तु जवेन स्म गतौ भृशम् ।
मध्यं प्राप्ते दिनकरे जटायुरवसीदति ॥ 5 ॥
तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् ।
पक्षाभ्यां छादयामास स्नेहात्परमविह्वलः ॥ 6 ॥
निर्दग्धपक्षः पतितो विंध्येऽहं वानरर्षभाः ।
अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये ॥ 7 ॥
जटायुषस्त्वेवमुक्तो भ्रात्रा संपातिना तदा ।
युवराजो महाप्राज्ञः प्रत्युवाचांगदस्ततः ॥ 8 ॥
जटायुषो यदि भ्राता श्रुतं ते गदितं मया ।
आख्या हि यदि जानासि निलयं तस्य रक्षसः ॥ 9 ॥
अदीर्घदर्शिनं तं वै रावणं राक्षसाधिपम् ।
अंतिके यदि वा दूरे यदि जानासि शंस नः ॥ 10 ॥
ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः ।
आत्मानुरूपं वचनं वानरान्संप्रहर्षयन् ॥ 11 ॥
निर्दग्धपक्षो गृध्रोऽहं हीनवीर्यः प्लवंगमाः ।
वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् ॥ 12 ॥
जानामि वारुणान्लोकान्विष्णोस्त्रै विक्रमानपि ।
महासुरविमर्दन्वा श्च ह्यमृतस्य च मंथनम् ॥ 13 ॥
रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया ।
जरया च हृतं तेजः प्राणाश्च शिथिला मम ॥ 14 ॥
तरुणी रूपसंपन्ना सर्वाभरणभूषिता ।
ह्रियमाणा मया दृष्टा रावणेन दुरात्मना ॥ 15 ॥
क्रोशंती राम रामेति लक्ष्मणेति च भामिनी ।
भूषणान्यपविध्यंती गात्राणि च विधुन्वती ॥ 16 ॥
सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् ।
असिते राक्षसे भाति यथा वा तटिदंबुदे ॥ 17 ॥
तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् ।
श्रूयतां मे कथयतो निलयं तस्य रक्षसः ॥ 18 ॥
पुत्रो विश्रवस स्साक्षाद्भ्राता वैश्रवणस्य च ।
अध्यास्ते नगरीं लंकां रावणो नाम राक्षसः ॥ 19 ॥
इतो द्वीपस्समुद्रस्य संपूर्णे शतयोजने ।
तस्मिन्लंकापुरी रम्या निर्मिता विश्वकर्मणा ॥ 20 ॥
जांबूनदमयैर्द्वारैश्चित्रैः कांचनवेदिकैः ।
प्रासादैर्हेमवर्णैश्च महद्भिः सुसमा कृता ॥ 21 ॥
प्राकारेणार्कवर्णेन महता च समान्विता ।
तस्यां वसति वैदेही दीना कौशेयवासिनी ॥ 22 ॥
रावणांतःपुरे रुद्धा राक्षसीभिस्सुरक्षिता ।
जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम् ॥ 23 ॥
लंकायामथ गुप्तायां सागरेण समंततः ।
संप्राप्य सागरस्यांतं संपूर्णं शतयोजनम् ॥ 24 ॥
आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम् ।
तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवंगमाः ॥ 25 ॥
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ।
आद्यः पंथाः कुलिंगानां ये चान्ये धान्यजीविनः ॥ 26 ॥
द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः ।
भासास्तृतीयं गच्छंति क्रौंचाश्च कुररैस्सह ॥ 27 ॥
श्येनाश्चतुर्थं गच्छंति गृध्रा गच्छंति पंचमम् ।
बलवीर्योपपन्नानां रूपयौवनशालिनाम् ॥ 28 ॥
षष्ठस्तु पंथा हंसानां वैनतेयगतिः परा ।
वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः ॥ 29 ॥
इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा ।
अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा ॥ 30 ॥
तस्मादाहारवीर्येण निसर्गेण च वानराः ।
आयोजनशतात्साग्राद्वयं पश्याम नित्यशः ॥ 31 ॥
अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः ।
विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् ॥ 32 ॥
गर्हितं तु कृतं कर्म येन स्म पशिताशिना ।
प्रतीकार्यं च मे तस्य वैरं भ्रातृकृतं भवेत् ॥ 33 ॥
उपायो दृश्यतां कश्चिल्लंघने लवणांभसः ।
अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ ॥ 34 ॥
समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम् ।
प्रदास्याम्युदकं भ्रातुस्स्वर्गतस्य महात्मनः ॥ 35 ॥
ततो नीत्वा तु तं देशं तीरं नदनदीपतेः ।
निर्दग्धपक्षं संपातिं वानरास्सुमहौजसः ॥ 36 ॥
पुनः प्रत्यानयित्वा च तं देशं पतगेश्वरम् ।
बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ॥ 37 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे अष्टपंचाशस्सर्गः ॥