श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ अष्टत्रिंशस्सर्गः ।
कदाचिदप्यहं वीर्यात्पर्यटन्पृथिवीमिमाम् ।
बलं नागसहस्रस्य धारयन्पर्वतोपमः ॥ 1 ॥
नीलजीमूतसंकाशस्तप्तकांचनकुंडलः ।
भयं लोकस्य जनयन्किरीटी परिघायुधः ॥ 2 ॥
व्यचरं दंडकारण्ये ऋषिमांसानि भक्षयन् ।
विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः ॥ 3 ॥
स्वयं गत्वा दशरथं नरेंद्रमिदमब्रवीत् ।
अद्य रक्षतु मां रामः पर्वकाले समाहितः ॥ 4 ॥
मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर ।
इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा ॥ 5 ॥
प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् ।
बालो द्वादशवर्षोऽयमकृतास्त्रश्च राघवः ॥ 6 ॥
कामं तु मम यत्सैन्यं मया सह गमिष्यति ।
बलेन चतुरंगेण स्वयमेत्य निशाचरान् ॥ 7 ॥
वधिष्यामि मुनिश्रेष्ठ शत्रूंस्ते मनसेप्सितान् ।
इत्येवमुक्तस्समुनी राजानमिदमब्रवीत् ॥ 8 ॥
रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः ।
देवतानामपि भवान् समरेष्वभिपालकः ॥ 9 ॥
आसीत्तव कृतं कर्म त्रिलोके विदितं नृप ।
काममस्तु महत्सैन्यं तिष्ठत्विह परंतप ॥ 10 ॥
बालोऽप्येष महातेजास्समर्थस्तस्य निग्रहे ।
गमिष्ये राममादाय स्वस्ति तेऽस्तु परंतप ॥ 11 ॥
एवमुक्त्वा तु स मुनिस्तमादाय नृपात्मजम् ।
जगाम परमप्रीतो विश्वामित्रस्स्वमाश्रमम् ॥ 12 ॥
तं तदा दंडकारण्ये यज्ञमुद्दिश्य दीक्षितम् ।
बभूवोपस्थितो रामश्चित्रं विष्फारयंधनुः ॥ 13 ॥
अजातव्यंजनश्रीमान्पद्मपत्रनिभेक्षणः ।
एकवस्त्रधरो धन्वी शिखी कनकमालया ॥ 14 ॥
शोभयन् दंडकारण्यं दीप्तेन स्वेन तेजसा ।
अदृश्यत ततो रामो बालचंद्र इवोदितः ॥ 15 ॥
ततोऽहं मेघसंकाशस्तप्तकांचनकुंडलः ।
बली दत्तवरोदर्पादाजगाम तदाश्रमम् ॥ 16 ॥
तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः ।
मां तु दृष्ट्वा धनुस्सज्यमसंभ्रांतश्चकार सः ॥ 17 ॥
अवजानन्नहं मोहाद्बालोऽयमिति राघवम् ।
विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः ॥ 18 ॥
तेन मुक्तस्ततो बाणः शितश्शत्रुनिबर्हणः ।
तेनाहं त्वाहतः क्षिप्तस्समुद्रे शतयोजने ॥ 19 ॥
नेच्छता तात मां हंतुं तदा वीरेण रक्षितः ।
रामस्य शरवेगेन निरस्तोऽहमचेतनः ॥ 20 ॥
पातितोऽहं तदा तेन गंभीरे सागरांभसि ।
प्राप्य संज्ञां चिरात्तात लंकां प्रतिगतः पुरीम् ॥ 21 ॥
एवमस्मि तदा मुक्तस्सहायास्तु निपातिताः ।
अकृतास्त्रेण बालेन रामेणाक्लिष्टकर्मणा ॥ 22 ॥
तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम् ।
करिष्यस्यापदं घोरां क्षिप्रं प्राप्स्यसि रावण ॥ 23 ॥
क्रीडारतिविधिज्ञानां समाजोत्सवशालिनाम् ।
रक्षसां चैव संतापमनर्थं चाहरिष्यसि ॥ 24 ॥
हर्म्यप्रासादसंबाधां नानारत्नविभूषिताम् ।
द्रक्ष्यसि त्वं पुरीं लंकां विनष्टां मैथिलीकृते ॥ 25 ॥
अकुर्वंतोऽपि पापानि शुचयः पापसंश्रयात् ।
परपापैर्विनश्यंति मत्स्या नागह्रदे यथा ॥ 26 ॥
दिव्यचंदनदिग्धांगांदिव्याभरणभूषितान् ।
द्रक्ष्यस्यभिहतान्भूमौ तव दोषात्तु राक्षसान् ॥ 27 ॥
हृतदारान् सदारांश्च दश विद्रवतो दिशः ।
हतशेषानशरणांद्रक्ष्यसि त्वं निशाचरान् ॥ 28 ॥
शरजालपरिक्षिप्तामग्निज्वालासमावृताम् ।
प्रदग्धभवनां लंकां द्रक्ष्यसि त्वं न संशयः ॥ 29 ॥
परदाराभिमर्शात्तु नान्यत्पापतरं महत् ।
प्रमदानां सहस्रं च तव राजन्परिग्रहः ॥ 30 ॥
भव स्वदारनिरतस्वकुलं रक्ष राक्षस ।
मानमृद्धिं च राज्यं च जीवितं चेष्टमात्मनः ॥ 31 ॥
कलत्राणि च सौम्यानि मित्रवर्गं तथैव च ।
यदीच्छसि चिरं भोक्तं मा कृथा रामविप्रियम् ॥ 32 ॥
निवार्यमाणस्सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि ।
गमिष्यसि क्षीणबलस्सबांधवो यमक्षयं रामशरात्तजीवितः ॥ 33 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे अष्टत्रिंशस्सर्गः ॥