श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ द्विपंचाशस्सर्गः ।
सा तु ताराधिपमुखी रावणेन समीक्ष्य तम् ।
गृध्रराजं विनिहतं विललाप सुदुःखिता ॥ 1 ॥
निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम् ।
अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते ॥ 2 ॥
नूनं राम न जानासि महद्व्यसनमात्मनः ।
धावंति नूनं काकुत्स्थं मदर्थं मृगपक्षिणः ॥ 3 ॥
अयं हि पापचारेण मां त्रातुमभिसंगतः ।
शेते विनिहतो भूमौ ममाभाग्याद्विहंगमः ॥ 4 ॥
त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वरांगना ।
सुसंत्रस्ता समाक्रंदच्छृण्वतां तु यथांतिके ॥ 5 ॥
तां क्लिष्टमाल्याभरणां विलपंतीमनाथवत् ।
अभ्यधावत् वैदेहीं रावणो राक्षसाधिपः ॥ 6 ॥
तां लतामिव वेष्टंतीमालिंगंतीं महाद्रुमान् ।
मुंच मुंचेति बहुशः प्रवदन्राक्षसाधिपः ॥ 7 ॥
क्रोशंतीं राम रामेति रामेण रहितां वने ।
जीवितांताय केशेषु जग्राहांतकसन्निभः ॥ 8 ॥
प्रधर्षितायां सीतायां बभूव सचराचरम् ।
जगत्सर्वममर्यादं तमसांधेन संवृतम् ॥ 9 ॥
न वाति मारुतस्तत्र निष्प्रभोऽभूद्दिवाकरः ।
दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा ॥ 10 ॥
कृतं कार्यमिति श्रीमान्व्याजहार पितामहः ।
प्रहृष्टा व्यथिताश्चासन्सर्वे ते परमर्षयः ॥ 11 ॥
दृष्ट्वा सीतां परामृष्टां दंडकारण्यवासिनः ।
रावणस्य विनाशं च प्राप्तं बुद्ध्वा यदृच्छया ॥ 12 ॥
स तु तां राम रामेति रुदंतीं लक्ष्मणेति च ।
जगामादाय चाकाशं रावणो राक्षसाधिपः ॥ 13 ॥
तप्ताभरणजुष्टांगी पीतकौशेयवासिनी ।
रराजराजपुत्री तुविद्युत्सौदामिनी यथा ॥ 14 ॥
उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः ।
अधिकं परिबभ्राज गिरिर्दीप्त इवाग्निना ॥ 15 ॥
तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च ।
पद्मपत्राणि वैदेह्या अभ्यकीर्यंत रावणम् ॥ 16 ॥
तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम् ।
बभौ चादित्यरागेण ताम्रमभ्रमिवातपे ॥ 17 ॥
तस्यास्तत्सुनसं वक्त्रमाकाशे रावणांकगम् ।
न रराज विना रामं विनालमिव पंकजम् ॥ 18 ॥
बभूव जलदं नीलं भित्त्वा चंद्र इवोदितः ।
सुललाटं सुकेशांतं पद्मगर्भाभमव्रणम् ॥ 19 ॥
शुक्लैस्सुविमलैर्दंतै प्रभावद्भिरलंकृतम् ।
तस्यास्तद्विमलं वक्त्रमाकाशे रावणांकगम् ॥ 20 ॥
रुदितं व्यपमृष्टास्रं चंद्रवत्प्रियदर्शनम् ।
सुनासं चारुताम्रोष्ठमाकाशे हाटकप्रभम् ॥ 21 ॥
राक्षसेन समाधूतं तस्यास्तद्वदनं शुभम् ।
शुशुभे न विना रामंदिवा चंद्र इवोदितः ॥ 22 ॥
सा हेमवर्णा नीलांगं मैथिली राक्षसाधिपम् ।
शुशुभे कांचनी कांची नीलं मणिमिवाश्रिता ॥ 23 ॥
सा पद्मगौरी हेमाभा रावणं जनकात्मजा ।
विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा ॥ 24 ॥
तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः ।
बभौ सचपलो नीलस्सघोष इव तोयदः ॥ 25 ॥
उत्तमांगाच्च्युता तस्याः पुष्पवृष्टिस्समंततः ।
सीताया ह्रिममाणायाः पपात धरणीतले ॥ 26 ॥
सा तु रावणवेगेन पुष्पवृष्टिः समंततः ।
समाधूता दशग्रीवं पुनरेवाभ्यवर्तत ॥ 27 ॥
अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् ।
नक्षत्रमाला विमला मेरुं नगमिवोन्नतम् ॥ 28 ॥
चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् ।
विद्युन्मंडलसंकाशं पपात मधुरस्वनम् ॥ 29 ॥
तरुप्रवालरक्ता सा नीलांगं राक्षसेश्वरम् ।
प्राशोभयत वैदेही गजं कक्ष्येव कांचनी ॥ 30 ॥
तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा ।
जहाराऽकाशमाविस्य सीतां वैश्रवणानुजः ॥ 31 ॥
तस्यास्तान्यग्निवर्णानि भूषणानि महीतले ।
सघोषाण्यवकीर्यंत क्षीणास्तारा इवांबरात् ॥ 32 ॥
तस्यास्स्तनांतराद्भ्रष्टो हारस्ताराधिपद्युतिः ।
वैदेह्या निपतन्भाति गंगेव गगनाच्च्युता ॥ 33 ॥
उत्पातवाताभिहता नानाद्विजगणायुताः ।
माभैरिति विधूताग्रा व्याजह्रुरिव पादपाः ॥ 34 ॥
नलिन्यो ध्वस्तकमलास्त्रस्तमीनजलेचराः ।
सखीमिव गतोच्छ्वासामन्वशोचंत मैथिलीम् ॥ 35 ॥
समंतादभिसंपत्य सिंहव्याघ्रमृगद्विजाः ।
अन्वधावंस्तदा रोषात्सीतां छायानुगामिनः ॥ 36 ॥
जलप्रपातास्रमुखाश्शृंगैरुच्छ्रितबाहुभिः ।
सीतायां ह्रियमाणायां विक्रोशंतीव पर्वताः ॥ 37 ॥
ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः ।
प्रतिध्वस्तप्रभश्श्रीमानासीत्पांडरमंडलः ॥ 38 ॥
नास्ति धर्मः कुतस्सत्यं नार्जवं नानृशंसता ।
यत्र रामस्य वैदेहीं भार्यां हरति रावणः ॥ 39 ॥
इति सर्वाणि भूतानि गणशः पर्यदेवयन् ।
वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः ॥ 40 ॥
उद्वीक्ष्योद्वीक्ष्य नयनैरस्रपाताविलेक्षणाः ।
सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः ॥ 41 ॥
विक्रोशंतीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम् ।
तां तु लक्ष्मण रामेति क्रोशंतीं मधुरस्वरम् ॥ 42 ॥
अवेक्षमाणां बहुशो वैदेहीं धरणीतलम् ।
स तामाकुलकेशांतां विप्रमृष्टविशेषकाम् ॥ 43 ॥
जहारात्म विनाशाय दशग्रीवो मनस्स्विनीम् ।
ततस्तु सा चारुदती शुचिस्मिता विनाकृता बंधुजनेन मैथिली ।
अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्त्राभयभारपीडिता ॥ 44 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे द्विपंचाशस्सर्गः ॥