View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

4.60 किष्किंधाकांड - षष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ षष्टितमस्सर्गः ।

ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः ।
उपविष्टा गिरौ रम्ये परिवार्य समंततः ॥ 1 ॥

तमंगदमुपासीनं तैस्सर्वैर्हरिभिर्वृतम् ।
जनितप्रत्ययो हर्षात्संपातिः पुनरब्रवीत् ॥ 2 ॥

कृत्वा निश्शब्दमेकाग्रा श्श्रुण्वंतु हरयो मम ।
तत्वं संकीर्तयिष्यामि यथा जानामि मैथिलीम् ॥ 3 ॥

अस्य विंध्यस्य शिखरे पतितोऽस्मि पुरावने ।
सूर्यतपपरीतांगो निर्दग्धस्सूर्यरश्मिभिः ॥ 4 ॥

लब्धसंज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव ।
वीक्षमाणो दिशस्सर्वा नाभिजानामि किंचन ॥ 5 ॥

ततस्तु सागरान् शैलान्नदीस्सर्वास्सरांसि च ।
वनानि च प्रदेशांश्च नीरीक्ष्य मतिरागता ॥ 6 ॥

हृष्टपक्षिगणाकीर्णः कंदरांतरकूटवान् ।
दक्षिणस्योदधेस्तीरे विंध्योऽयमिति निश्चितः ॥ 7 ॥

आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम् ।
ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाभवत् ॥ 8 ॥

अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना ।
वसतो मम धर्मज्ञा स्वर्गते तु निशाकरे ॥ 9 ॥

अवतीर्य तु विंध्याग्रात्कृच्छ्रेण विषमाच्छनैः ।
तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः ॥ 10 ॥

तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम् ।
जटायुषा मया चैव बहुशोऽभिगतो हि सः ॥ 11 ॥

तस्याश्रमपदाभ्याशे ववुर्वातास्सुगंधिनः ।
वृक्षो वापुष्पितः कश्चिदफलो वा न विद्यते ॥ 12 ॥

उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः ।
द्रष्टुकामः प्रतीक्षेऽहं भगवंतं निशाकरम् ॥ 13 ॥

अथापश्यमदूरस्थमृषिं ज्वलिततेजसम् ।
कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम् ॥ 14 ॥

तमृक्षास्सृमरा व्याघ्रास्सिंहा नागास्सरीसृपाः ।
परिवार्योपगच्छंति धातारं प्राणिनो यथा ॥ 15 ॥

ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः ।
प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् ॥ 16 ॥

ऋषिस्तु दृष्ट्वा मां प्रीतः प्रविष्टश्चाश्रमं पुनः ।
मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत ॥ 17 ॥

सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते ।
अग्निदग्धाविमौ पक्षौ व्रणाश्चापि शरीरके ॥ 18 ॥

गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे ।
गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ ॥ 19 ॥

ज्येष्ठो हि त्वं तु संपाते जटायुरनुजस्तव ।
मानुषं रूपमास्थाय गृह्णीतां चरणौ मम ॥ 20 ॥

किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् ।
दंडोऽयंच कृतः केन सर्वमाख्याहि पृच्छतः ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे षष्टितमस्सर्गः ॥




Browse Related Categories: