View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.127 युद्धकांड - सप्तविंशत्यधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ सप्तविंशत्यधिकशततमस्सर्गः ।

पूर्णेचतुर्दशेवर्षेपंचम्यांलक्ष्मणाग्रजः ।
भरद्वाजाश्रमंप्राप्यववंदेनियतोमुनिम् ॥ 1 ॥

सोऽपृच्छदभिवाद्यैनंभरद्वाजंतपोधनम् ।
शृणोषिकच्चिद्भगवन्सुभिक्षानायमंपुरे ॥ 2 ॥

कच्चित्सयुक्तोभरतोजीवंत्यपि च मातरः ।
एवमुक्तस्तुरामेणभरद्वाजोमहामुनिः ॥ 3 ॥

प्रत्युवाचरघुश्रेष्ठंस्मितपूर्वंप्रहृष्टवत् ।
पंकदिग्धस्तुभरतोजटिलस्त्वांप्रतीक्षते ॥ 4 ॥

पादुकतेपुरस्कृत्यसर्वं च कुशलंगृहे ।
त्वांपुराचीरवसनंप्रविशंतंमहावनम् ॥ 5 ॥

स्त्रीतृतीयंच्युतंराज्याद्धर्मकामं च केवलम् ।
पदातिंत्यक्तसर्वस्वंपितुर्वचनकारिणम् ॥ 6 ॥

सर्वभोगैःपरित्यक्तंस्वर्गच्युतमिवामरम् ।
दृष्टातुकरुणापूर्वंममासीत्समितिंजयः ॥ 7 ॥

कैकेयीवचनेयुक्तंवन्यमूलफलाशिनम् ।
सांप्रतंतुसमृद्धार्थंसमित्रगणबांधवम् ॥ 8 ॥

समीक्ष्यविजितारिं च समाभूप्रतीतिरुत्तमा ।
सर्वं च सुखदुःखंतेविदितंममराघव ।
यत्त्वयाविपुलंप्राप्तंजनस्थान्नवधादिकम् ॥ 9 ॥

ब्राह्मणार्थेनियुक्तस्यरक्षतःसर्वतापसान् ।
रावणेनहृताभार्याबभूवेयमनिता ॥ 10 ॥

मारीचदर्शनंचैवसीतोन्मधनमेव च ।
कबंधदर्शनंचैवसंपाभिगमनंतथा ॥ 11 ॥

सुग्रीवेण च तेसख्यंयथावालीहतस्त्वया ।
मार्गणंचैववैदेह्याःकर्मवातात्मजस्य च ॥ 12 ॥

विदितायां च सीतायांनलसेतुर्यथाकृतः ।
यथाचादीपितालंकाप्रहृष्टैर्हरियूथपैः ॥ 13 ॥

सपुत्रबांदवामात्यःसबलःसहावाहनः ।
यथा च निहतःसंख्येरावणोबलदर्पितः ॥ 14 ॥

यथा च निहतेतस्मिन् रावणेदेवकंटके ।
समागमश्चत्रिदशैर्यथादत्तश्चतेवरः ॥ 15 ॥

सर्वंममैतद्विदितंतपसाधर्मवत्सल ।
संपतंति च मेशिष्याःप्रवृत्ताख्याःपुरीमितः ॥ 16 ॥

अहमप्यद्यतेदद्मिवरंशस्त्रभृतांवर ।
अर्घ्यंप्रतिगृहाणेदमयोध्यांश्वोगमिष्यसि ॥ 17 ॥

तस्यतच्छिरसावाक्यंप्रतिगृह्यनृपात्मजः ।
बाढमित्येवसम्हृष्टःश्रीमान्वरमयाचत ॥ 18 ॥

अकालफलिनोवृक्षास्सर्वेचापिमधुस्रवाः ।
फलान्यमृतगंधीनिबहूनिविविधानि च ॥ 19 ॥

भवंतुमार्गेभगवन्नयोध्यांप्रतिगच्छतः ।
तथेति च प्रतिज्ञातेवचनात्समनंतरम् ॥ 20 ॥

अभवन्पादपास्तत्रस्वर्गपादपसन्निभाः ।
पुष्फलाःफलिनश्चासवनिपुष्पाःपुष्पशालिनः ॥ 21 ॥

शुष्कास्समग्रपत्रास्तेनगाश्चैवमधुस्रवाः ।
सर्वतोयोजनास्त्रिस्रोगच्छतामभवंस्तदा ॥ 22 ॥

ततःप्रहृष्टाःप्लवगर्षभास्तेबहूनिदिव्यानिफलानिचैव ।
कामादुपाश्नंतिसहस्रशस्तेमुदावनितास्स्वर्गजितोमुदेव ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे सप्तविंशत्यधिकशततमस्सर्गः ॥




Browse Related Categories: