View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

3.49 अरण्यकांड - एकोनपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ एकोनपंचाशस्सर्गः ।

सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवाम् ।
हस्ते हस्तं समाहत्य चकार सुमहद्वपुः ॥ 1 ॥

स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम् ।
नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥ 2 ॥

उद्वहेयं भुजाभ्यां तु मेदिनीमंबरे स्थितः ।
आपिबेयं समुद्रं च हन्यां मृत्युं रणे स्थितः ॥ 3 ॥

अर्कं तुंद्यां शरैः तीक्ष्णैर् विभिंद्यां हि महीतलम् ।
काम रूपिणं उन्मत्ते पश्य मां कामदं पतिम् ॥ 4 ॥

एवमुक्तवतस्तस्य सूर्यकल्पे शिखिप्रभे ।
क्रुद्धस्य हरिपर्यंते रक्ते नेत्रे बभूवतुः ॥ 5 ॥

सद्यस्सौम्यं परित्यज्य भिक्षुरूपं स रावणः ।
स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः ॥ 6 ॥

संरक्तनयनश्श्रीमांस्तप्तकांचनभूषणः ।
क्रोधेन महताविष्टो नीलजीमूतसन्निभः ॥ 7 ॥

दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः ।
स परिव्राजकच्छद्म महाकायो विहाय तत् ॥ 8 ॥

प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः ।
संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः ॥ 9 ॥

रक्तांबरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ।
स तामसितकेशांतां भास्करस्य प्रभामिव ॥ 10 ॥

वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत् ।
त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि ॥ 11 ॥

मामाश्रय वरारोहे तवाहं सदृशः पतिः ।
मां भजस्व चिराय त्वमहं श्लाघ्यः प्रियस्तव ॥ 12 ॥

नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम् ।
त्यज्यतां मानुषे भावो मयि भावः प्रणीयताम् ॥ 13 ॥

राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् ।
कैर्गुणैरनुरक्तासि मूढे पंडितमानिनि ॥ 14 ॥

यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम् ।
अस्मिन्व्यालानुचरिते वने वसति दुर्मतिः ॥ 15 ॥

इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् ।
अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः ॥ 16 ॥

जग्राह रावणस्सीतां बुधः खे रोहिणीमिव ।
वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः ॥ 17 ॥

ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ।
तं दृष्ट्वा मृत्युसंकाशं तीक्ष्णदंष्ट्रं महाभुजम् ॥ 18 ॥

प्राद्रवन्गिरिसंकाशं भयार्ता वनदेवताः ।
स च मायामयो दिव्यः खरयुक्तः खरस्वनः ॥ 19 ॥

प्रत्यदृश्यत हेमांगो रावणस्य महारथः ।
ततस्तां परुषैर्वाक्यैर्भर्त्सयन्स महास्वनः ॥ 20 ॥

अंकेनादाय वैदेहीं रथमारोपयत्तदा ।
सा गृहीता विचुक्रोश रावणेन यशस्स्विनी ॥ 21 ॥

रामेति सीता दुःखार्ता रामं दूरगतंवने ।
तामकामां स कामार्तः पन्नगेंद्रवधूमिव ॥ 22 ॥

विवेष्टमानामादाय उत्पपाताथ रावणः ।
ततस्सा राक्षसेंद्रेण ह्रियमाणा विहायसा ॥ 23 ॥

भृशं चुक्रोश मत्तेव भ्रांतचित्ता यथाऽऽतुरा ।
हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक ॥ 24 ॥

ह्रियमाणां न जानीषे रक्षसा माममर्षिणा ।
जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन् ॥ 25 ॥

ह्रियमाणामधर्मेण मां राघव न पश्यसि ।
ननु नामाविनीतानां विनेतासि परंतप ॥ 26 ॥

कथमेवंविधं पापं न त्वं शासि हि रावणम् ।
ननु सद्योऽविनीतस्य दृश्यते कर्मणःफलम् ॥ 27 ॥

कालोऽप्यंगीभवत्यत्र सस्यानामिव पक्तये ।
त्वं कर्म कृतवानेतत्कालोपहतचेतनः ॥ 28 ॥

जीवितांतकरं घोरं रामाद्व्यसनमाप्नुहि ।
हंतेदानीं सकामास्तु कैकेयी सह बांधवैः ॥ 29 ॥

ह्रिये यद्धर्मकामस्य धर्मपत्नी यशस्विनः ।
आमंत्रये जनस्थाने कर्णिकारान्सुपुष्पितान् ॥ 30 ॥

क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ।
माल्यवंतं शिखरिणं वंदे प्रस्रवणं गिरिम् ॥ 31 ॥

क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ।
हंसकारंडवाकीर्णां वंदे गोदावरीं नदीम् ॥ 32 ॥

क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ।
दैवतानि च यान्यस्मिन्वने विविधपादपे ॥ 33 ॥

नमस्करोम्यहं तेभ्योभर्तुश्शंसत मां हृताम् ।
यानि कानि चिदप्यत्र सत्त्वानि निवसंत्युत ॥ 34 ॥

सर्वाणि शरणं यामि मृगपक्षिगणानपि ।
ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् ॥ 35 ॥

विवशाऽपहृता सीता रावणेनेति शंसत ।
विदित्वा मां महाबाहुरमुत्रापि महाबलः ॥ 36 ॥

आनेष्यति पराक्रम्य वैवस्वतहृतामपि ।
सा तदा करुणा वाचो विलपंती सुदुःखिता ॥ 37 ॥

वनस्पतिगतं गृध्रं ददर्शाऽयतलोचना ।
सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशं गता ॥ 38 ॥

समाक्रंदद्भयपरा दुःखोपहतया गिरा ।
जटायो पश्य मामद्य ह्रियमाणामनाथवत् ॥ 39 ॥

अनेन राक्षसेंद्रेण करुणं पापकर्मणा ।
नैष वारयितुं शक्यस्तव क्रूरो निशाचरः ॥ 40 ॥

सत्त्वांजितकाशी च सायुधश्चैव दुर्मतिः ।
रामाय तु यथातत्त्वं जटायो हरणं मम ॥ 41 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे एकोनपंचाशस्सर्गः ॥




Browse Related Categories: