श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ षट्पंचाशस्सर्गः ।
सा तथोक्ता तु वैदेही निर्भया शोककर्शिता ।
तृणमंतरतः कृत्वा रावणं प्रत्यभाषत ॥ 1 ॥
राजा दशरथो नाम धर्मसेतुरिवाचलः ।
सत्यसंधः परिज्ञातो यस्य पुत्रस्सराघवः ॥ 2 ॥
रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः ।
दीर्घबाहुर्विशालाक्षो दैवतं हि पतिर्मम ॥ 3 ॥
इक्ष्वाकूणां कुले जातस्सिंहस्कंधो महाद्युतिः ।
लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान्हरिष्यति ॥ 4 ॥
प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात् ।
शयिता त्वं हतस्संख्ये जनस्थाने यथा खरः ॥ 5 ॥
य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः ।
राघवे निर्विषास्सर्वे सुपर्णे पन्नगा यथा ॥ 6 ॥
तस्य ज्याविप्रमुक्तास्ते शराः कांचनभूषणाः ।
शरीरं विधमिष्यंति गंगाकूलमिवोर्मयः ॥ 7 ॥
असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण ।
उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे ॥ 8 ॥
स ते जीवितशेषस्य राघवोऽंतकरो बली ।
पशोर्यूपगतस्येव जीवितं तव दुर्लभम् ॥ 9 ॥
यदि पश्येत्स रामस्त्वां रोषदीप्तेन चक्षुषा ।
रक्षस्त्वमद्य निर्धग्धो गच्छेस्सद्यः पराभवम् ॥ 10 ॥
यश्चंद्रं नभसो भूमौ पातयेन्नाशयेत वा ।
सागरं शोषयेद्वापि स सीतां मोचयेदिह ॥ 11 ॥
गतायुस्त्वं गतश्रीको गतसत्त्व गतेंद्रियः ।
लंका वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति ॥ 12 ॥
न ते पापमिदं कर्म शुखोदर्कं भविष्यति ।
याऽहं नीता विनाभावं पतिपार्श्वात्त्वया वने ॥ 13 ॥
स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः ।
निर्भयो वीर्यमाश्रित्य शून्ये वसति दंडके ॥ 14 ॥
स ते दर्पं बलं वीर्यमुत्सेकं च तथाविधम् ।
अपनेष्यति गात्रेभ्यश्शरवर्षेण संयुगे ॥ 15 ॥
यदा विनाशो भूतानां दृश्यते कालचोदितः ।
तदा कार्ये प्रमाद्यंति नराः कालवशं गताः ॥ 16 ॥
मां प्रधृष्य स ते कालः प्राप्तोऽयं राक्षसाधम ।
आत्मनो राक्षसानां च वधायांतःपुरस्य च ॥ 17 ॥
न शक्या यज्ञमध्यस्था वेदी सृग्भांडमंडिता ।
द्विजातिमंत्रपूता च चंडालेनावमर्दितुम् ॥ 18 ॥
तथाऽहं धर्मनित्यस्य धर्मपत्नी पतिव्रता ।
त्वया स्पृष्टुं न शक्यास्मि राक्षसाधम पापिना ॥ 19 ॥
क्रीडंती राजहंसेन पद्मषंडेषु नित्यदा ।
हंसी सा तृणषंडस्थं कथं पश्येत मद्गुकम् ॥ 20 ॥
इदं शरीरं निस्संज्ञं बंध वा खातयस्व वा ।
नेदं शरीरं रक्षयं मे जीवितं वापि राक्षस ॥ 21 ॥
न तु शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः ।
एवमुक्त्वा तु वैदेही क्रोधात्सुपरुषं वचः ॥ 22 ॥
रावणं मैथिली तत्र पुनर्नोवाच किंचन ।
सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् ॥ 23 ॥
प्रत्युवाच ततस्सीतां भयसंदर्शनं वचः ।
शृणु मैथिलि मद्वाक्यं मासांद्वादश भामिनि ॥ 24 ॥
कालेनानेन नाभ्येषि यदि मां चारुहासिनि ।
ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यंति लेशशः ॥ 25 ॥
इत्युक्त्वा परुषं वाक्यं रावणश्शत्रुरावणः ।
राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत् ॥ 26 ॥
शीघ्रमेव हि राक्षस्यो विकृता घोरदर्शनाः ।
दर्पमस्या विनेष्यध्वं मांसशोणितभोजनाः ॥ 27 ॥
वचनादेव तास्तस्य सुघोरा राक्षसीगणाः ।
कृतप्रांजलयो भूत्वा मैथिलीं पर्यवारयन् ॥ 28 ॥
स ताः प्रोवाच राजा तु रावणो घोरदर्शनः ।
प्रचाल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम् ॥ 29 ॥
अशोकवनिकामध्ये मैथिली नीयतामियम् ।
तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता ॥ 30 ॥
तत्रैनां तर्जनैर्घोरैः पुनस्सांत्वैश्च मैथिलीम् ।
आनयध्वं वशं सर्वा वन्यां गजवधूमिव ॥ 31 ॥
इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः ।
अशोकवनिकां जग्मुर्मैथिलीं परिगृह्य तु ॥ 32 ॥
सर्वकालफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् ।
सर्वकालमदैश्चापि द्विजैस्समुपसेविताम् ॥ 33 ॥
सा तु शोकपरीतांगी मैथिली जनकात्मजा ।
राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा ॥ 34 ॥
शोकेन महता ग्रस्ता मैथिली जनकात्मजा ।
न शर्म लभते भीरुः पाशबद्धा मृगी यथा ॥ 35 ॥
न विंदते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता ।
पतिं स्मरंती दयितं च देवतं विचेतनाऽभूद्भयशोकपीडिता ॥ 36 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे षट्पंचाशस्सर्गः ॥