श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ चतुर्दशस्सर्गः ।
स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् ।
अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ॥ 1 ॥
स तु संहृष्टसर्वांगः प्राकारस्थो महाकपिः ।
पुष्पिताग्रान्वसंतादौ ददर्श विविधान् द्रुमान् ॥ 2 ॥
सालानशोकान् भव्यांश्च चंपकांश्च सुपुष्पितान् ।
उद्दालकान्नागवृक्षांश्चूतान्कपिमुखानपि ॥ 3 ॥
अथाम्रवणसंछन्नां लताशतसमावृताम् ।
ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥ 4 ॥
स प्रविश्य विचित्रां तां विहगैरभिनादिताम् ।
राजतैः कांचनैश्चैव पादपैः सर्वतो वृताम् ॥ 5 ॥
विहगैर्मृगसंघैश्च विचित्रां चित्रकाननाम् ।
उदितादित्यसंकाशां ददर्श हनुमान् कपिः ॥ 6 ॥
वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः ।
कोकिलैर्भृंगराजैश्च मत्तैर्नित्यनिषेविताम् ॥ 7 ॥
प्रहृष्टमनुजे काले मृगपक्षिसमाकुले ।
मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम् ॥ 8 ॥
मार्गमाणो वरारोहां राजपुत्रीमनिंदिताम् ।
सुखप्रसुप्तान्विहगान् बोधयामास वानरः ॥ 9 ॥
उत्पतद्भिर्द्विजगणैः पक्षैः सालास्समाहताः ।
अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥ 10 ॥
पुष्पावकीर्णश्शुशुभे हनुमान् मारुतात्मजः ।
अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ॥ 11 ॥
दिशस्सर्वाः प्रधावंतं वृक्षषंडगतं कपिम् ।
दृष्ट्वा सर्वाणि भूतानि वसंत इति मेनिरे ॥ 12 ॥
वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विदैः ।
रराज वृक्षेभ्यः तत्र प्रमदेव विभूषिता ॥ 13 ॥
तरस्विना ते तरवस्तरसाभिप्रकंपिताः ।
कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥ 14 ॥
निर्धूतपत्रशिखराः शीर्णपुष्पफला द्रुमाः ।
निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ॥ 15 ॥
हनूमता वेगवता कंपितास्ते नगोत्तमाः ।
पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ॥ 16 ॥
विहंगसंघैर्हीनास्ते स्कंधमात्राश्रया द्रुमाः ।
बभूवुरगमाः सर्वे मारुतेव निर्धुताः ॥ 17 ॥
निर्धूतकेशी युवतिर्यथा मृदितवर्णका ।
निष्पीतशुभदंतोष्ठी नखैर्दंतैश्च विक्षता ॥ 18 ॥
तथा लांगूलहस्तैश्च चरणाभ्यां च मर्दिता ।
बभूवाशोकवनिका प्रभग्नवरपादपा ॥ 19 ॥
महालतानां दामानि व्यथमत्तरसा कपिः ।
यथा प्रावृषि विंध्यस्य मेघजालानि मारुतः ॥ 20 ॥
स तत्र मणिभूमीश्च राजतीश्च मनोरमाः ।
तथा कांचनभूमीश्च ददर्श विचरन्कपिः ॥ 21 ॥
वापीश्च विविधाकाराः पूर्णाः परमवारिणा ।
महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥ 22 ॥
मुक्ताप्रवालसिकताः स्फाटिकांतरकुट्टिमाः ।
कांचनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ॥ 23 ॥
फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः ।
नत्यूहरुतसंघुष्टा हंससारसनादिताः ॥ 24 ॥
दीर्घाभिर्द्रुमयुक्ताभिः सरद्भिश्च समंततः ।
अमृतोपमतोयाभिश्शिवाभिरुपसंस्कृताः ॥ 25 ॥
लताशतैरवततास्संतानकुसुमावृताः ।
नानागुल्मावृतघनाः करवीरकृतांतराः ॥ 26 ॥
वापीश्च विविधाकाराः पूर्णाः परमवारिणा ।
महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥ 27 ॥
मुक्ताप्रवालसिकताः स्फाटिकांतरकुट्टिमाः ।
कांचनैस्तरुभिश्चित्रैस्तीरजैरुपशोभितैः ॥ 28 ॥
फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः ।
नत्यूहरुतसंघुष्टा हंससारसनादिताः ॥ 29 ॥
दीर्घाभिर्द्रुमयुक्ताभिः सरद्भिश्च समंततः ।
अमृतोपमतोयाभिश्शिवाभिरुपसंस्कृताः ॥ 30 ॥
लताशतैरवततास्संतानकुसुमावृताः ।
नानागुल्मावृतघनाः करवीरकृतांतराः ॥ 31 ॥
ततोऽंबुधरसंकाशं प्रवृद्धशिखरं गिरिम् ।
विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ॥ 32 ॥
शिलागृहैरवततं नानावृक्षैः समावृतम् ।
ददर्श हरिशार्दूलो रम्यं जगति पर्वतम् ॥ 33 ॥
ददर्श च नगात्तस्मान्नदीं निपतितां कपिः ।
अंकादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥ 34 ॥
जले निपतिताग्रैश्च पादपैरुपशोभिताम् ।
वार्यमाणामिव क्रुद्धां प्रमदां प्रियबंधुभिः ॥ 35 ॥
पुनरावृत्ततोयां च ददर्श स महाकपिः ।
प्रसन्नामिव कांतस्य कांतां पुनरुपस्थिताम् ॥ 36 ॥
तस्या दूरात्सपद्मिन्यो नानाद्विजगणायुताः ।
ददर्श हरिशार्दूलो हनुमान् मारुतात्मजः ॥ 37 ॥
कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा ।
मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ॥ 38 ॥
विविधैर्मृगसंघैश्च विचित्रां चित्रकाननाम् ।
प्रासादैस्सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ॥ 39 ॥
काननैः कृत्रिमैश्चापि सर्वतः समलंकृताम् ।
ये केचित्पादपास्तत्र पुष्पोपगफलोपगाः ॥ 40 ॥
सच्छत्रास्सवितर्दीकास्सर्वे सौवर्णवैदिकाः ।
लताप्रतानैर्बहुभिःपर्णैश्च बहुभिर्वृताम् ॥ 41 ॥
कांचनीं शिंशुपामेकां ददर्श हरियूथपः ।
वृतां हेममयीभिस्तु वेदिकाभिस्समंततः ॥ 42 ॥
सोऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च ।
सुवर्णवृक्षानपरान् ददर्श शिखिसन्निभान् ॥ 43 ॥
तेषां द्रुमाणां प्रभया मेरोरिव दिवाकरः ।
अमन्यत तदा वीरः कांचनोऽस्मीति वानरः ॥ 44 ॥
तां कांचनैस्तरुगणैर्मारुतेन च वीजिताम् ।
किंकिणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत् ॥ 45 ॥
स पुष्पिताग्रां रुचिरां तरुणांकुरपल्लवाम् ।
तामारुह्य महाबाहुश्शिंशुपां पर्णसंवृताम् ॥ 46 ॥
इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम् ।
इतश्चेतश्च दुःखार्तां संपतंतीं यदृच्छया ॥ 47 ॥
अशोकवनिका चेयं दृढं रम्या दुरात्मनः ।
चंपकैश्चंदनैश्चापि वकुलैश्च विभूषिता ॥ 48 ॥
इयं च नलिनी रम्या द्विजसंघनिषेविता ।
इमां सा राममहिषी नूनमेष्यति जानकी ॥ 49 ॥
सा रामा राममहिषी राघवस्य प्रिया सती ।
वनसंचारकुशला नूनमेष्यति जानकी ॥ 50 ॥
अथवा मृगशाबाक्षी वनस्यास्य विचक्षणा ।
वनमेष्यति साऽर्येह रामचिंतानुकर्शिता ॥ 51 ॥
रामशोकाभिसंतप्ता सा देवी वामलोचना ।
वनवासे रता नित्यमेष्यते वनचारिणी ॥ 52 ॥
वनेचराणां सततं नूनं स्पृहयते पुरा ।
रामस्य दयिता भार्या जनकस्यसुता सती ॥ 53 ॥
संध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी ।
नदीं चेमां शुभजलां संध्यार्थे वरवर्णिनी ॥ 54 ॥
तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा ।
शुभा या पार्थिवेंद्रस्य पत्नी रामस्य सम्मता ॥ 55 ॥
यदि जीवति सा देवी ताराधिपनिभानना ।
आगमिष्यति साऽवश्यमिमां शिवजलां नदीम् ॥ 56 ॥
एवं तु मत्वा हनुमान्महात्मा प्रतीक्षमाणो मनुजेंद्रपत्नीम् ।
अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः ॥ 57 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे चतुर्दशस्सर्गः ॥