श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ विंशस्सर्गः ।
रामचापविसृष्टेन शरेणांतकरेण तम् ।
दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना ॥ 1 ॥
सा समासाद्य भर्तारं पर्यष्वजत भामिनी ।
इषुणाऽभिहतं दृष्ट्वा वालिनं कुंजरोपमम् ॥ 2 ॥
वानरेंद्र महेंद्राभं शोकसंतप्तमानसा ।
तारा तरुमिवोन्मूलं पर्यदेवयदातुरा ॥ 3 ॥
रणे दारुण विक्रांत प्रवीर प्लवतां वर ।
किं दीनामपुरोभागामद्य त्वं नाभिभाषसे ॥ 4 ॥
उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम् ।
नैवंविधाश्शेरते हि भूमौ नृपतिसत्तमाः ॥ 5 ॥
अतीव खलु ते कांता वसुधा वसुधाधिप ।
गतासुरपि यां गात्रैर्मां विहाय निषेवसे ॥ 6 ॥
व्यक्तमन्या त्वया वीर धर्मतः संप्रवर्तिता ।
किष्किंधेव पुरी रम्या स्वर्गमार्गे विनिर्मिता ॥ 7 ॥
यान्यस्माभिस्त्वया सार्धं वनेषु मधुगंधिषु ।
विहृतानि त्वया काले तेषामुपरमः कृतः ॥ 8 ॥
निरानंदा निराशाऽहं निमग्ना शोकसागरे ।
त्वयि पंचत्वमापन्ने महायूथपयूथपे ॥ 9 ॥
हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं पतिम् ।
यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा ॥ 10 ॥
सुग्रीवस्य त्वया भार्या हृता स च विवासितः ।
यत्तु त्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप ॥ 11 ॥
निश्श्रेयसपरा मोहात्त्वया चाहं विगर्हिता ।
यैषाऽब्रुवं हितं वाक्यं वानरेंद्र हितैषिणी ॥ 12 ॥
रूपयौवनदृप्तानां दक्षिणानां च मानद ।
नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि ॥ 13 ॥
कालो निस्संशयो नूनं जीवितांतकरस्तव ।
बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम् ॥ 14 ॥
वैधव्यं शोकसंतापं कृपणं कृपणा सती ।
अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत् ॥ 15 ॥
लालितश्चांगदो वीरस्सुकुमारस्सुखोचितः ।
वर्त्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्छिते ॥ 16 ॥
कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् ।
दुर्लभं दर्शनं वत्स तव तस्य भविष्यति ॥ 17 ॥
समाश्वासय पुत्रं त्वं संदेशं संदिशस्व मे ।
मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ॥ 18 ॥
रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता ।
आनृण्यं च गतं तस्य सुग्रीवस्य प्रतिश्रवे ॥ 19 ॥
सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे ।
भुंक्षव राज्यमनुद्विग्नश्शस्तो भ्राता रिपुस्तव ॥ 20 ॥
किं मामेवं विलपतीं प्रेम्णा त्वं नाभिभाषसे ।
इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर ॥ 21 ॥
तस्या विलपितं श्रुत्वा वानर्यस्सर्वतश्च ताः ।
परिगृह्यांगदं दीनं दुःखार्ता परिचुक्रुशुः ॥ 22 ॥
किमंगदं सांगदवीरबाहो विहाय यास्यद्य चिरप्रवासम् ।
न युक्तमेवं गुणसन्निकृष्टं विहाय पुत्रं प्रियपुत्र गंतुम् ॥ 23 ॥
किमप्रियं ते प्रिय चारुवेष मया कृतं नाथ सुतेन वा ते ।
सहांगदां मां प्रविहाय वीर यत्प्रस्थितो दीर्घ मितः प्रवासम् ॥ 24 ॥
यद्यप्रियं किंचिदसंप्रधार्य कृतं मया स्यात्तव दीर्घबाहो ।
क्षमस्व मे तद्धरिवंशनाथ व्रजामि मूर्ध्ना तव वीर पादौ ॥ 25 ॥
तथा तु तारा करुणं रुदंती भर्तुस्समीपे सह वानरीभिः ।
व्यवस्यत प्रायमुपोपवेष्टु मनिंद्यवर्णा भुवि यत्र वाली ॥ 26 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे विंशस्सर्गः ॥