श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ द्वितीयस्सर्गः ।
स सागरमनादृष्यमतिक्रम्य महाबलः ।
त्रिकूटशिखरे लंकां स्थितां स्वस्थो ददर्श ह ॥ 1 ॥
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ।
अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ॥ 2 ॥
योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः ।
अनिःश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति ॥ 3 ॥
शतान्यहं योजनानां क्रमेयं सुबहून्यपि ।
किं पुनः सागरस्यांतं संख्यातं शतयोजनम् ॥ 4 ॥
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः ।
जगाम वेगवान् लंकां लंघयित्वा महोदधिम् ॥ 5 ॥
शाद्वलानि च नीलानि गंधवंति वनानि च ।
गंडवंति च मध्येन जगाम नगवंति च ॥ 6 ॥
शैलांश्च तरुसंछन्नान् वनाराजीश्च पुष्पिताः ।
अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः ॥ 7 ॥
स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च ।
स नगाग्रे च तां लंकां ददर्श पवनात्मजः ॥ 8 ॥
सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् ।
प्रियालून्मुचुलिंदांश्च कुटजान् केतकानपि ॥ 9 ॥
प्रियंंगून् गंधपूर्णांश्च नीपान् सप्तच्छदांस्तथा ।
आसनान् कोविदारांश्च करवीरांश्च पुष्पितान् ॥ 10 ॥
पुष्पभारनिबद्धांश्च तथा मुकुलितानपि ।
पादपान् विहगाकीर्णान् पवनाधूतमस्तकान् ॥ 11 ॥
हंसकारंडवाकीर्णा वापीः पद्मोत्मलायुताः ।
आक्रीडान् विविधान् रम्यावन् विविधांश्च जलाशयान् ॥ 12 ॥
संततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः ।
उद्यानानि च रम्याणि ददर्श कपिकुंजरः ॥ 13 ॥
समासाद्य च लक्ष्मीवान् लंकां रावणपालिताम् ।
परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ॥ 14 ॥
सीतापहरणार्थेन रावणेन सुरक्षिताम् ।
समंताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ॥ 15 ॥
कांचनेनावृतां रम्यां प्राकारेण महापुरीम् ।
गृहैश्च ग्रहसंकाशैः शारदांबुदसन्निभैः ॥ 16 ॥
पांडुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम् ।
अट्टालकशताकीर्णां पताकाध्वजमालिनीम् ॥ 17 ॥
तोरणैः कांचनैर्दिव्यैर्लतापङ्त्किविचित्रितैः ।
ददर्श हनुमान् लंकां दिवि देवपुरीं यथा ॥ 18 ॥
गिरिमूर्ध्निं स्थितां लंकां पांडुरैर्भवनैः शुभैः ।
ददर्श स कपिश्रेष्ठः पुरमाकाशगं यथा ॥ 19 ॥
पालितां राक्षसेंद्रेण निर्मितां विश्वकर्मणा ।
प्लवमानमिवाकाशे ददर्श हनुमान् पुरीम् ॥ 20 ॥
वप्रप्राकारजघनां विपुलांबुनवांबराम् ।
शतघ्नीशूलकेशांतामट्टालकवतंसकाम् ॥ 21 ॥
मनसेव कृतां लंकां निर्मितां विश्वकर्मणा ।
द्वारमुत्तरमासाद्य चिंतयामास वानरः ॥ 22 ॥
कैलासशिखरप्रख्यामालिखंतीमिवांबरम् ।
डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः ॥ 23 ॥
संपूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव ।
अचिंत्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥ 24 ॥
दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टसपाणिभिः ।
रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ॥ 25 ॥
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः ।
रावणं च रिपुं घोरं चिंतयामास वानरः ॥ 26 ॥
आगत्यापीह हरयो भविष्यंति निरर्थकाः ।
न हि युद्धेन वै लंका शक्या जेतुं सुरैरपि ॥ 27 ॥
इमां तु विषमां दुर्गां लंकां रावणपालिताम् ।
प्राप्यापि स महाबाहुः किं करिष्यति राघवः ॥ 28 ॥
अवकाशो नसांत्वस्य राक्षसेष्वभिगम्यते ।
न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥ 29 ॥
चतुर्णामेव हि गतिर्वानराणां महात्मनाम् ।
वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥ 30 ॥
यावज्जानामि वैदेहीं यदि जीवति वा न वा ।
तत्रैव चिंतयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥ 31 ॥
ततः स चिंतयामास मुहूर्तं कपिकुंजरः ।
गिरिशृंगे स्थितस्तस्मिन् रामस्याभ्युदये रतः ॥ 32 ॥
अनेन रूपेण मया न शक्या रक्षसां पुरी ।
प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥ 33 ॥
उग्रौजसो महावीर्या बलवंतश्च राक्षसाः ।
वंचनीया मया सर्वे जानकीं परिमार्गता ॥ 34 ॥
लक्ष्यालक्ष्येण रूपेण रात्रौ लंका पुरी मया ।
प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥ 35 ॥
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः ।
हनुमान् चिंतयामास विनिश्चित्य मुहुर्मुहुः ॥ 36 ॥
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् ।
अदृष्टो राक्षसेंद्रेण रावणेन दुरात्मना ॥ 37 ॥
न विनश्येत्कथं कार्यं रामस्य विदितात्मनः ।
एकामेकश्च वश्येयं रहिते जनकात्मजाम् ॥ 38 ॥
भूताश्चार्था विपद्यंते देशकालविरोधिताः ।
विक्लबं दूतमासाद्य तमः सूर्योदये यथा ॥ 39 ॥
अर्थानर्थांतरे बुद्धिर्निश्चितापि न शोभते ।
घातयंति हि कार्याणि दूताः पंडितमानिनः ॥ 40 ॥
न विनश्येत्कथं कार्यं वैक्लब्यं न कथं भवेत् ।
लंघनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ 41 ॥
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः ।
भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः ॥ 42 ॥
न हि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः ।
अपि राक्षसरूपेण किमुतान्येन केनचित् ॥ 43 ॥
वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम ।
न ह्य स्त्यविदितं किंचिद्राक्षसानां बलीयसाम् ॥ 44 ॥
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः ।
विनाशमुपयास्यामि भर्तुरर्थश्च हीयते ॥ 45 ॥
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः ।
लंकामभिपतिष्यामि राघवस्यार्थसिद्धये ॥ 46 ॥
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् ।
विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् ॥ 47 ॥
इति संचिंत्य हनुमान् सूर्यस्यास्तमयं कपिः ।
आचकांक्षे तदा वीरो वैदेह्या दर्शनोत्सुकः ॥ 48 ॥
सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः ।
पृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः ॥ 49 ॥
प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान् ।
प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम् ॥ 50 ॥
प्रासादमालाविततां स्तंभैः कांचनराजतैः ।
शातकुंभमयैर्जालैर्गंथर्वनगरोपमाम् ॥ 51 ॥
सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम् ।
तलैः स्फाटिकसंकीर्णैः कार्तस्वरविभूषितैः ॥ 52 ॥
वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः ।
तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥ 53 ॥
कांचनानि च चित्राणि तोरणानि च रक्षसाम् ।
लंकामुद्योतयामासुः सर्वतः समलंकृताम् ॥ 54 ॥
अचिंत्यामद्भुताकारां दृष्टवा लंकां महाकपिः ।
आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥ 55 ॥
स पांडुराविद्धविमानमालिनीं महार्हजांबूनदजालतोरणाम् ।
यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः समावृताम् ॥ 56 ॥
चंद्रोऽपि साचिव्यमिवास्य कुर्वंस्तारागणैर्मध्यगतो विराजन् ।
ज्योत्स्नावितानेन वितत्य लोक मुत्तिष्ठते नैकसहस्ररश्मिः ॥ 57 ॥
शंखप्रभं क्षीरमृणालवर्ण मुद्गच्छमानं व्यवभासमानम् ।
ददर्श चंद्रं स हरिप्रवीरः पोप्लूयमानं सरसीव हंसम् ॥ 58 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे द्वितीयस्सर्गः ॥