View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.62 युद्धकांड - द्विषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ द्विषष्टितमस्सर्गः ।

स तुराक्षसशार्दूलोनिद्रामदसमाकुलः ।
राजमार्गंश्रियाजुष्टंययौविपुलविक्रमः ॥ 1 ॥

राक्षसानांसहस्रैश्चवृतःपरमदुर्जयः ।
गृहेभ्यःपुष्पवर्षेणकीर्यमाणस्तदाययौ ॥ 2 ॥

स हेमजालविततंभानुभास्वरदर्शनम् ।
ददर्शविपुलंरम्यंराक्षसेंद्रनिवेशनम् ॥ 3 ॥

स तत्तदा सूर्य इवाभ्रजालम् ।
प्रविश्य रक्षोधिपतेर्निवेशनम् ।
ददर्श दूरेऽग्रजमासनस्थम् ।
स्वयंभुवं शक्र इवासनस्थम् ॥ 4 ॥

भ्रातुस्सभवनंगच्छन्रक्षोगणसमन्विम् ।
कुंभकर्णःपदन्यासैरकंपयतमेदिनीम् ॥ 5 ॥

सोऽभिगम्यगृहंभ्रातुःकक्ष्यामभिविगाह्य च ।
ददर्शोद्विगन्नमासीनंविमानेपुष्पकेगुरुम् ॥ 6 ॥

अथदृष्टवादशग्रीवःकुंभकर्णमुपस्थितम् ।
तूर्णमुत्थायसंहृष्टःसन्निकर्षमुपानयत् ॥ 7 ॥

अथासीनस्यपर्यंकेकुंभकर्णोमहाबलः ।
भ्रातुर्ववंदेचरणौकिंकृत्यमितिचाब्रवीत् ॥ 8 ॥

उत्पत्यचैनंमुदितोरावणःपरिषस्वजे ।
स भ्रात्रासंपरिष्वक्तोयथावच्छाभिनंदितः ॥ 9 ॥

कुंभकर्णश्शुभंदिव्यंप्रतिपेदेवरासनम् ।
स तदासनमाश्रित्यकुंभकर्णोमहाबलः ॥ 10 ॥

संरक्तनयनःक्रोधाद्रावणंवाक्यमब्रवीत् ।
किमर्थमहमादृत्यत्वयाराजन्विबोधितः ॥ 11 ॥

शंसकस्माद्भयंतेऽत्रकोऽद्यप्रेतोभविष्यति ।
भ्रातरंरावणःक्रुद्धंकुंभकर्णमवस्थितम् ॥ 12 ॥

ईषत्तुपरिवृत्ताभ्यांनेत्राभ्यांवाक्यमब्रवीत् ।
अद्यतेसुमहान्कालश्शयानस्यमहाबल ॥ 13 ॥

सुखितस्त्वं न जानीषेममरामकृतंभयम् ।
एषदाशरथीरामःसुग्रीवसहितोबली ॥ 14 ॥

समुद्रंसबलस्तीर्त्वामूलंनःपरिकृंतति ।
हंतपश्यस्वलंकायावनान्युपवनानि च ॥ 15 ॥

सेतुनासुखमागम्यवानरैकार्णवीकृतम् ।
येराक्षसामुख्यतमाहतास्तेवानरैर्युधि ॥ 16 ॥

वानराणांक्षयंयुद्धे न पश्यामिकदाचन ।
नचापिवानरायुद्धेजितपूर्वाःकदाचन ॥ 17 ॥

तदेतद्भयमुत्पन्नंत्रायस्वेमांमहबल ।
नाशयत्वमिमानद्यतदर्थंबोधितोभवान् ॥ 18 ॥

सर्वक्षपितकोशं च स त्वमभ्यवपद्यमाम् ।
त्रायस्वेमांपुरींलंकांबालवृद्धावशेषिताम् ॥ 19 ॥

भ्रातुरर्थेमहाबाहो कुरुकर्मसुदुष्करम् ।
मयैवंनोक्तपूर्वोहिकश्चिद्भ्रातः परंतप ॥ 20 ॥

त्वय्यस्तिममस्नेहःपरासंभावना च मे ।
दैवासुरेषुयुद्धेषुबहुशोराक्षसर्षभ ॥ 21 ॥

त्वयादेवाःप्रतिव्यूह्यनिर्जिताश्चासुरायुधि ।
तदेतत्सर्वमातिष्ठवीर्यंभीमपराक्रम ॥ 22 ॥

न हि ते सर्वभूतेषु दृश्यते सदृशो बली ।
कुरुष्व मे प्रियहितमेतदुत्तमम् ।
यथाप्रियं प्रियरण बांधवप्रिय ।
स्वतेजसा विधम सपत्नवाहिनीम् ।
शरद्घनं पवन इवोद्यतो महान् ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे द्विषष्टितमस्सर्गः ॥




Browse Related Categories: