View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

5.45 सुंदरकांड - पंचचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ पंचचत्वारिंशस्सर्गः ।

ततस्ते राक्षसेंद्रेण चोदिता मंत्रिणस्सुताः ।
निर्ययुर्भवनात्तस्मात्सप्तसप्तार्चिवर्चसः ॥ 1 ॥

महाबलपरीवारा धनुष्मंतो महाबलाः ।
कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ॥ 2 ॥

हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः ।
तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ॥ 3 ॥

तप्तकांचनचित्राणि चापान्यमितविक्रमाः ।
विस्फारयंतस्संहृष्टास्तटित्वंत इवांबुदाः ॥ 4 ॥

जनन्यस्तु ततस्तेषां विदित्वा किंकरान्हतान् ।
बभूवुश्शोकसंभ्रांतास्सबांधवसुहृज्जनाः ॥ 5 ॥

ते परस्परसंघर्षात्तप्तकांचनभूषणाः ।
अभिपेतुर्हनूमंतं तोरणस्थमवस्थितम् ॥ 6 ॥

सृजंतो बाणवृष्टिं ते रथगर्जितनिस्स्वनाः ।
वृष्टिमंत इवांभोदा विचेरुर्नैऋतांबुदाः ॥ 7 ॥

अवकीर्णस्ततस्ताभिर्हनुमान्शरवृष्टिभिः ।
अभवत्संवृताकारश्शैलराडिव वृष्टिभिः ॥ 8 ॥

स शरान्मोघयामास तेषामाशुचरः कपिः ।
रथवेगं च वीराणां विचरन्विमलेऽंबरे ॥ 9 ॥

स तैः क्रीडंधनुष्मद्भिर्व्योम्नि वीरः प्रकाशते ।
धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरंबरे ॥ 10 ॥

स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् ।
चकार हनुमान्वेगं तेषु रक्षस्सु वीर्यवान् ॥ 11 ॥

तलेनाभ्यहनत्कांश्चित्पादैः कांश्चित्परंतपः ।
मुष्टिनाभ्यहनत्कांश्चिन्नखैः कांश्चिद्व्यदारयत् ॥ 12 ॥

प्रममाथोरसा कांश्चिदूरुभ्यामपरान्कपिः ।
केचित्तस्य निनादेन तत्रैव पतिता भुवि ॥ 13 ॥

ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च ।
तत्सैन्यमगमत्सर्वं दिशोदश भयार्दितम् ॥ 14 ॥

विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः ।
भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाऽभवद्रथैः ॥ 15 ॥

स्रवता रुधिरेणाथ स्रवंत्यो दर्शिताः पथि ।
विविधैश्च स्वरैर्लंका ननाद विकृतं तदा ॥ 16 ॥

स तान्प्रवृद्धान्विनिहत्य राक्षसान् महाबलश्चंडपराक्रमः कपिः ।
युयुत्सुरन्यैः पुनरेव राक्षसै स्तमेव वीरोऽभिजगाम तोरणम् ॥ 17 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे पंचचत्वारिंशस्सर्गः ॥




Browse Related Categories: