श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ तृतीयस्सर्गः ।
वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः ।
पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ ॥ 1 ॥
कपिरूपं परित्यज्य हनुमान्मारुतात्मजः ।
भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः ॥ 2 ॥
ततस्स हनुमान्वाचा श्लक्ष्णया सुमनोज्ञया ।
विनीतवदुपागम्य राघवौ प्रणिपत्य च ॥ 3 ॥
आबभाषे तदा वीरौ यथावत्प्रशशंस च ।
संपूज्य विधिवद्वीरौ हनुमान्मारुतात्मजः ।
उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ ॥ 4 ॥
राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ ।
देशं कथमिमं प्राप्तौ भवंतौ वरवर्णिनौ ॥ 5 ॥
त्रासयंतौ मृगगणानन्यांश्च वनचारिणः ॥ 6 ॥
पंपातीररुहान्वृक्षान् वीक्षमाणौ समंततः ।
इमां नदीं शुभजलां शोभयंतौ तपस्विनौ ॥ 7 ॥
धैर्यवंतौ सुवर्णाभौ कौ युवां चीरवाससौ ।
निःश्वसंतौ वरभुजौ पीडयंताविमाः प्रजाः ॥ 8 ॥
सिंहविप्रेक्षितौ वीरौ महाबलविक्रमौ ।
शक्रचापनिभे चापे गृहीत्वा शत्रुसूदनौ ॥ 9 ॥
श्रीमंतौ रूपसंपन्नौ वृषभश्रेष्ठविक्रमौ ।
हस्तिहस्तोपमभुजौ द्युतिमंतौ नरर्षभौ ॥ 10 ॥
प्रभया पर्वतेंद्रोऽयं युवयोरवभासितः ।
राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ ॥ 11 ॥
पद्मपत्रेक्षणौ वीरौ जटामंडलधारिणौ ।
अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ ॥ 12 ॥
यदृच्छयेव संप्राप्तौ चंद्रसूर्यौ वसुंधराम् ।
विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ ॥ 13 ॥
सिंहस्कंधौ महोत्साहौ समदाविव गोवृषौ ।
आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः ।
सर्वभूषणभूषार्हाः किमर्थं न विभूषिताः ॥ 14 ॥
उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् ।
ससागरवनां कृत्स्नां विंध्यमेरुविभूषिताम् ॥ 15 ॥
इमे च धनुषी चित्रे श्लष्णे चित्रानुलेपने ।
प्रकाशेते यथेंद्रस्य वज्रे हेमविभूषिते ॥ 16 ॥
संपूर्णा निशितैर्बाणै स्तूणाश्च शुभदर्शनाः ॥ 17 ॥
जीवितांतकरैर्घोरै श्श्वसद्भिरिव पन्नगैः ।
महाप्रमाणौ विस्तीर्णौ तप्तहाटकभूषितौ ॥ 18 ॥
खडगावेतौ विराजेते निर्मुक्ताविवपन्नगौ ।
एवं मां परिभाषंतं कस्माद्वै नाभिभाषथः ॥ 19 ॥
सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः ।
वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः ॥ 20 ॥
प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना ।
राज्ञा वानरमुख्यानां हनुमान्नाम वानरः ॥ 21 ॥
युवाभ्यां सह धर्मात्मा सुग्रीवस्सख्यमिच्छति ।
तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ॥ 22 ॥
भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया ।
ऋष्यमूकादिह प्राप्तं कामगं कामरूपिणम् ॥ 23 ॥
एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ ।
वाक्यज्ञौ वाक्यकुशलः पुनर्नोवाच किंचन ॥ 24 ॥
एतच्छ्रुत्वा वचंतस्य रामो लक्ष्मणमब्रवीत् ।
प्रहृष्टवदनश्श्रीमान्भ्रातरं पार्श्वतः स्थितम् ॥ 25 ॥
सचिवोऽयं कपींद्रस्य सुग्रीवस्य महात्मनः ।
तमेव कांक्षमाणस्य ममांतिकमुपागतः ॥ 26 ॥
तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् ।
वाक्यज्ञं मधुरैर्वाक्यैस्स्नेहयुक्तमरिंदम ॥ 27 ॥
नानृग्वेदविनीतस्य नायजुर्वेद्धारिणः ।
नासामवेदविदुषश्शक्यमेवं विभाषितुम् ॥ 28 ॥
नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् ।
बहु व्याहरताऽनेन न किंचिदपशब्दितम् ॥ 29 ॥
न मुखे नेत्रयोर्वापि ललाटे च भ्रुवोस्तथा ।
अन्येष्वपि च गात्रेषु दोषस्संविदितः क्वचित् ॥ 30 ॥
अविस्तरमसंदिग्धमविलंबितमद्रुतम् ।
उरस्थं कंठगं वाक्यं वर्तते मध्यमे स्वरे ॥ 31 ॥
संस्कारक्रमसंपन्नामद्रुतामविलंबिताम् ।
उच्चारयति कल्याणीं वाचं हृदयहारिणीम् ॥ 32 ॥
अनया चित्रया वाचा त्रिस्थानव्यंजनस्थया ।
कस्य नाराध्यते चित्तमुद्यतासेररेरपि ॥ 33 ॥
एवं विधो यस्य दूतो न भवेत्पार्थिवस्य तु ।
सिद्ध्यंति हि कथं तस्य कार्याणां गतियोऽनघ ॥ 34 ॥
एवं गुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः ।
तस्य सिध्यंति सर्वाऽर्था दूतवाक्यप्रचोदिताः ॥ 35 ॥
एवमुक्तस्तु सौमित्रिस्सुग्रीवसचिवं कपिम् ।
अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम् ॥ 36 ॥
विदितौ नौ गुणा विद्वंत्सुग्रीवस्य महात्मनः ।
तमेव चाऽवां मार्गावस्सुग्रीवं प्लवगेश्वरम् ॥ 37 ॥
यथा ब्रवीषि हनुमान्सुग्रीववचनादिह ।
तत्तथा हि करिष्यावो वचनात्तव सत्तम ॥ 38 ॥
तत्तस्य वाक्यं निपुणं निशम्य प्रहृष्टरूपः पवनात्मजः कपिः ।
मनस्समाधाय जयोपपत्तौ सख्यं तदा कर्तुमियेष ताभ्याम् ॥ 39 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे तृतीयस्सर्गः ॥