View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

5.62 सुंदरकांड - द्विषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ द्विषष्टितमस्सर्गः ।

तानुवाच हरिश्रेष्ठो हनुमान्वानरर्षभः ।
अव्यग्रमनसो यूयं मधु सेवत वानराः ॥ 1 ॥

अहमावारयिष्यामि युष्माकं परिपंथिनः ।
श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽंगदः ॥ 2 ॥

प्रत्युवाच प्रसन्नात्मा पिबंतु हरयो मधु ।
अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया ॥ 3 ॥

अकार्यमपि कर्तव्यं किमंग पुनरीदृशम् ।
अंगदस्य मुखाच्छ्रुत्वावचनं वानरर्षभाः ॥ 4 ॥

साधुसाध्विति संहृष्टा वानराः प्रत्यपूजयन् ।
पूजयित्वांगदं सर्वे वानरा वानरर्षभम् ॥ 5 ॥

जग्मुर्मधुवनं यत्र नदीवेग इव द्रुमम् ।
ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः ॥ 6 ॥

अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् ।
पपुस्सर्वे मधु तदा रसवत्फलमाददुः ॥ 7 ॥

उत्पत्य च ततस्सर्वे वनपालान् समागतान् ।
ताडयंति स्म शतश स्सक्तान्मधुवने तदा ॥ 8 ॥

मधूनि द्रोणमात्राणि बाहुभिः परिगृह्य ते ।
पिबंति सहिता स्सर्वे निघ्नंति स्म तथापरे ॥ 9 ॥

केचित्पीत्वा प्रविध्यंति मधूनि मधुपिंगलाः ।
मधूच्छिष्टेन केचिच्च जग्मुरन्योन्यमुत्कटाः ॥ 10 ॥

अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः ।
अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते ॥ 11 ॥

उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत् ।
क्षिपंति च तथान्योन्यं स्खलंति च तथाऽपरे ॥ 12 ॥

केचित् क्ष्वेलां प्रकुर्वंति केचित् कूजंति हृष्टवत् ।
हरयोमधुना मत्ताः केचित्सुप्ता महीतले ॥ 13 ॥

कृत्वा केचिद्धसंत्यन्ये केचित्कुर्वंति चेतरत् ।
कृत्वा केचिद्वदंत्यन्ये केचिद्बुध्यंति चेतरत् ॥ 14 ॥

येऽप्यत्र मधुपाला स्स्युः प्रेष्या दधिमुखस्य तु ।
तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः ॥ 15 ॥

जानुभिस्तु प्रकृष्टाश्च देवमार्गं प्रदर्शिताः ।
अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः ॥ 16 ॥

हनूमता दत्तवरैर्हतं मधुवनं बलात् ।
वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः ॥ 17 ॥

ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः ।
हतं मधुवनं श्रुत्वा सांत्वयामास तान् हरीन् ॥ 18 ॥

इहागच्छत गच्छामो वानरान् बलदर्पितान् ।
बलेन वारयिष्यामो मधु भक्षयतो वयम् ॥ 19 ॥

श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः ।
पुनर्वीरा मधुवनं तेनैव सहसा ययुः ॥ 20 ॥

मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम् ।
समभ्यधावद्वेगेन ते च सर्वे प्लवंगमाः ॥ 21 ॥

ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः ।
गृहीत्वाऽऽभ्यगमन् क्रुद्धा यत्र ते कपिकुंजराः ॥ 22 ॥

ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत् ।
त्वरया ह्यभ्यधावंत सालतालशिलायुधाः ॥ 23 ॥

वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान् ।
अभ्यक्रामंस्ततो वीराः पालास्तत्र सहस्रशः ॥ 24 ॥

अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुंगवाः ।
अभ्यधावंत वेगेन हनुमत्प्रमुखास्तदा ॥ 25 ॥

तं सवृक्षं महाबाहुमापतंतं महाबलम् ।
आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽंगदः ॥ 26 ॥

मदांधश्च न वेदैनमार्यकोऽयं ममेति सः ।
अथैनं निष्पिपेषाशु वेगवद्वसुधातले ॥ 27 ॥

स भग्नबाहूरुभुजो विह्वलश्शोणितोक्षितः ।
मुमोह सहसा वीरो मुहूर्तं कपिकुंजरः ॥ 28 ॥

स समाश्वस्य सहसा संकृद्धो राजमातुलः ।
वानरान्वारयामास दंडेन मधुमोहितान् ॥ 29 ॥

स कथंचिद्विमुक्तस्स्तैर्वानरैर्वानरर्षभः ।
उवाचैकांतमाश्रित्य भृत्यान् स्वान् समुपागतान् ॥ 30 ॥

एते तिष्ठंतु गच्छामो भर्ता नो यत्र वानरः ।
सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति ॥ 31 ॥

सर्वं चैवांगदे दोषं श्रावयिष्यामि पार्थिवे ।
अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान् ॥ 32 ॥

इष्टं मधुवनं ह्येतत्पार्थिवस्य महात्मनः ।
पितृपैतामहं दिव्यं देवैरपि दुरासदम् ॥ 33 ॥

स वानरानिमान् सर्वान् मधुलुब्धान् गतायुषः ।
घातयिष्यति दंडेन सुग्रीवस्ससुहृज्जनान् ॥ 34 ॥

वध्या ह्येते दुरात्मानो नृपाज्ञापरिभाविनः ।
अमर्षप्रभवो रोषस्सफलो नो भविष्यति ॥ 35 ॥

एवमुक्त्वा दधिमुखो वनपालान्महाबलः ।
जगाम सहसोत्पत्य वनपालैस्समन्वितः ॥ 36 ॥

निमेषांतरमात्रेण स हि प्राप्तो वनालयः ।
सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः ॥ 37 ॥

रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च ।
समप्रतिष्ठां जगतीमाकाशान्निपपात ह ॥ 38 ॥

सन्निपत्य महावीर्यस्सर्वैस्तैः परिवारितः ।
हरिर्दधिमुखः पालैः पालानां परमेश्वरः ॥ 39 ॥

स दीनवदनो भूत्वा कृत्वा शिरसि चांजलिम् ।
सुग्रीवस्य शुभौ मूर्ध्ना चरणौ पत्यपीडयत् ॥ 40 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे द्विषष्टितमस्सर्गः ॥




Browse Related Categories: