View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

3.39 अरण्यकांड - एकोनचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ एकोनचत्वारिंशस्सर्गः ।

एवमस्मि तदा मुक्तः कथंचित्तेन संयुगे ।
इदानीमपि यद्वृत्तं तच्छृणुष्व निरुत्तरम् ॥ 1 ॥

राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः ।
सहितो मृगरूपाभ्यां प्रविष्टो दंडकावनम् ॥ 2 ॥

दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः ।
व्यचरं दंडकारण्यं मांसभक्षो महामृगः ॥ 3 ॥

अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण ।
अत्यंतघोरो व्यचरं तापसान्संप्रधर्षयन् ॥ 4 ॥

निहत्य दंडकारण्ये तापसांधर्मचारिणः ।
रुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन् ॥ 5 ॥

ऋषिमांसाशनः क्रूरस्त्रासयन्वनगोचरान् ।
तथा रुधिरमत्तोऽहं विचरंधर्मदूषकः ॥ 6 ॥

आसादयं तदा रामं तापसं धर्मचारिणम् ।
वैदेहीं च महाभागां लक्ष्मणं च महारथम् ॥ 7 ॥

तापसं नियताहारं सर्वभूतहिते रतम् ।
सोऽहं वनगतं रामं परिभूय महाबलम् ॥ 8 ॥

तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् ।
अभ्यधावं हि संक्रुद्धस्तीक्ष्ण शृंगो मृगाकृतिः ॥ 9 ॥

जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन् ।
तेन मुक्तास्त्रयो बाणाश्शिताश्शत्रुनिबर्हणाः ॥ 10 ॥

विकृष्य बलवच्चापं सुपर्णानिलनिस्स्वनाः ।
ते बाणा वज्रसंकाशास्सुमुक्ता रक्तभोजनाः ।
आजग्मुस्सहितास्सर्वे त्रयस्सन्नतपर्वणः ॥ 11 ॥

पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा ।
समुद्भांतस्ततोमुक्तस्तावुभौ राक्षसौ हतौ ॥ 12 ॥

शरेण मुक्तो रामस्य कथंचित्प्राप्य जीवितम् ।
इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः ॥ 13 ॥

वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनांबरम् ।
गृहीतधनुषं रामं पाशहस्तमिवांतकम् ॥ 14 ॥

अपि रामसहस्राणि भीतः पश्यामि रावण ।
रामभूतमिदं सर्वमरण्यं प्रतिभाति मे ॥ 15 ॥

राममेव हि पश्यामि रहिते राक्षसाधिप ।
दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः ॥ 16 ॥

रकारादीनि नामानि रामत्रस्तस्य रावण ।
रत्नानि च रथाश्चैव त्रासं संजनयंति मे ॥ 17 ॥

अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् ।
बलिं वा नमुचिं वापि हन्याद्धि रघुनंदनः ॥ 18 ॥

रणे रामेण युद्ध्यस्व क्षमां वा कुरु राक्षस ।
न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि ॥ 19 ॥

बहवस्साधवो लोके युक्ता धर्ममनुष्ठिताः ।
परेषामपराधेन विनष्ठास्सपरिच्छदाः ॥ 20 ॥

सोऽऽहं तवापराधेन विनश्येयं निशाचर ।
कुरु यत्ते क्षमं तत्त्वमहं त्वा नानुयामि ह ॥ 21 ॥

रामश्च हि महातेजा महासत्त्वो महाबलः ॥ 22 ॥

अपि राक्षसलोकस्य न भवेदंतकोऽपि सः ।
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः ॥ 23 ॥

अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ।
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः ॥ 24 ॥

इदं वचो बंधुहितार्थिनामया यथोच्यमानं यदि नाभिपत्स्यसे ।
सबांधवस्त्यक्ष्यसि जीवितं रणे हतोऽऽद्य रामेण शरैरजिह्मगैः ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे एकोनचत्वारिंशस्सर्गः ॥




Browse Related Categories: