View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.121 युद्धकांड - एकविंशत्यधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकविंशत्यधिकशततमस्सर्गः ।

एतच्छ्रुत्वाशुभंवाक्यंपितामहसमीरितम् ।
अंकेनादायवैदेहिमुत्पपातविभावसुः ॥ 1 ॥

नविधूयाथचितांतांतुवैदेहींहव्यवाहनः ।
उत्तस्थौमूर्तिमानाशुगृहीत्वाजनकात्मजाम् ॥ 2 ॥

तरुणादित्यसंकाशंतप्तकांचनभूषणाम् ।
रक्तांबरधरांबालांसीलकुंचितमूर्थजाम् ॥ 3 ॥

अक्लिष्टमाल्याभरणांतथारूपामनिंदिताम् ।
ददौरामायवैदेहीमंकेकृत्वाविभावसुः ॥ 4 ॥

अब्रवीत्तुतदारामंसाक्षीलोकस्यपावकः ।
एषातेराम वैदेहीपापमस्यां न विद्यते ॥ 5 ॥

नैववाचा न मनसानैवबुद्ध्या न चक्षुषा ।
सुवृत्तावृत्तशौंडीरन त्वामत्यचरच्छुभा ॥ 6 ॥

रावणेनापनीतैषावीर्योसतिक्तेनरक्षसा ।
त्वयाविरहितादीनाविवशानिर्जनाद्वनात् ॥ 7 ॥

रुद्धाचांतःपुरेगुप्तात्वच्छित्तात्वत्परायणा ।
रक्षिताराक्षसीभिश्चघोराभिर्घोरबुद्धिभिः ॥ 8 ॥

प्रलोभ्यमानाविविधंभर्त्स्यमाना च मैथिली ।
नाचिंतयततद्रक्षस्त्वद्गतेनांतरात्मना ॥ 9 ॥

विशुद्धभावांनिष्पापांप्रतिगृह्णीष्वमैथिलीम् ।
न किंचिरभिधातव्याअहमाज्ञापयामिते ॥ 10 ॥

ततःप्रीतिमानारामःश्रुत्यैवंवदतांवरः ।
दध्यौमुहूर्तंधर्मात्माबाष्पव्याकुललोचनः ॥ 11 ॥

एवमुक्तोमहातेजाधृतिमांदृढविक्रमः ।
उवाचत्रिदशश्रेष्ठंरामोधर्मभृतांवरः ॥ 12 ॥

अवश्यंत्रिषुलोकेषु न सीतापापमर्हति ।
दीर्घकालोषिताहीयंरावणांतःपुरेशुभा ॥ 13 ॥

बालिशोखलुकामात्मारामोदशरथात्मजः ।
इतिवक्ष्यंतिमांसंतोजानकीमविशोध्यहि ॥ 14 ॥

अनन्यहृदयांभक्तांमच्चित्तपरिवर्तिनीम् ।
अहमप्यवगच्छामिमैथिलींजनकात्मजाम् ॥ 15 ॥

इमामपिविशालाक्षींरक्षितांस्वेनतेजसा ।
रावणोनातिवर्तेतवेलामिवमहोदधिः ॥ 16 ॥

प्रत्ययार्थंतुलोकानांत्रयाणांसत्यसंश्रयः ।
उपेक्षेचापिवैदेहींप्रविशंतींहुताशनम् ॥ 17 ॥

न हिशक्तःसुदुष्टात्मामनसापिहिमैथिलीम् ।
प्रधर्षयितुमप्राप्यांदीप्तामग्निशिखामिव ॥ 18 ॥

नेयमर्हतिचैश्वर्यंरावणांतःपुरेशुभा ।
अनन्याहिमयासीताभास्करेणप्रभायथा ॥ 19 ॥

विशुद्धात्रिषुलोकेषुमैथिलीजनकात्मजा ।
न विहातुंमयाशक्याकीर्तिरात्ववतायथा ॥ 20 ॥

अवश्यं च मयाकार्यंसर्वेषांवोवचोहितम् ।
स्निग्धानांलोकनाधानामेवं च वदतांहितम् ॥ 21 ॥

इत्येवम्विजयीमहाबलःप्रशस्यमानःस्वकृतेनकर्मणा ।
समेत्यरामःप्रिययामहायशाःसुखंसुखार्होऽनुबभूवराघवः ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकविंशत्यधिकशततमस्सर्गः ॥




Browse Related Categories: