View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

4.45 किष्किंधाकांड - पंचचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ पंचचत्वारिंशस्सर्गः ।

सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः ।
समस्तानब्रवीद्भूयो रामकार्यर्थसिद्धये ॥ 1 ॥

एवमेतद्विचेतव्यं यन्मया परिकीर्तितम् ।
तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः ॥ 2 ॥

शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे ।
रामः प्रस्रवणे तस्मिन्यवसत्सहलक्ष्मणः ॥ 3 ॥

प्रतीक्षमाणस्तं मासं यस्सीताधिगमे कृतः ।
उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् ॥ 4 ॥

प्रतस्थे सहसा वीरो हरिश्शतवलिस्तदा ।
पूर्वां दिशं प्रतिययौ विनतो हरियूथपः ॥ 5 ॥

तारांगदादिसहितः प्लवंगो मारुतात्मजः ।
अगत्याचरितामाशां दक्षिणां हरियूथपः ॥ 6 ॥

पश्चिमां तु भृशं घोरां सुषेणः प्लवगेश्वरः ।
प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम् ॥ 7 ॥

ततस्सर्वा दिशो राजा चोदयित्वा यथातथम् ।
कपिसेनापतीन्मुख्यान्मुमोद सुखितस्सुखम् ॥ 8 ॥

एवं संबोधितास्सर्वे राज्ञा वानरयूथपाः ।
स्वां स्वां दिशमभिप्रत्त्य त्वरिता संप्रतस्थिरे ॥ 9 ॥

नदंतश्चोन्नदंतश्च गर्जंतश्च प्लवंगमाः ।
क्ष्वेलंतो धावमानाश्च विनदंतो महाबलाः ॥ 10 ॥

एवं संबोदितास्सर्वे राज्ञा वानरयूथपाः ।
आनयिष्यामहे सीतां हनिष्यामश्च रावणम् ॥ 11 ॥

अहमेको हनिष्यामि रावणं प्राप्तमाहवे ।
ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् ॥ 12 ॥

वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति ।
एक एवाहरिष्यामि पातालादपि जानकीम् ॥ 13 ॥

वधिष्याम्यहं वृक्षान् दारयिष्याम्यहं गिरीन् ।
धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् ॥ 14 ॥

अहं योजनसंख्यायाः प्लविता नात्र संशयः ।
शतं योजनसंख्यायाश्शतं समधिकं ह्यहम् ॥ 15 ॥

भूतले सागरे वाऽपि शैलेषु च वनेषु च ।
पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ॥ 16 ॥

इत्येकैकं तदा तत्र वानरा बलदर्पिताः ।
ऊचुश्च वचनं तत्र हरिराजस्य सन्निधौ ॥ 17 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे पंचचत्वारिंशस्सर्गः ॥




Browse Related Categories: