View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.82 युद्धकांड - द्वाशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ द्वाशीतितमस्सर्गः ।

श्रुत्वातुभीमनिर्ह्रादंशक्राशनिसमस्वनम् ।
वीक्षमाणादिशस्सर्वादुद्रुवुर्वानरर्षभाः ॥ 1 ॥

तानुवाचततःसर्वान्हनुमान् मारुतात्मजः ।
विषण्णवदनांदीनांस्त्रस्तान्विद्रवतःपृथक् ॥ 2 ॥

कस्माद्विषण्णवदनाविद्रवध्वंप्लवंगमाः ।
त्यक्तयुद्धसमुत्साहाश्शूरत्वंक्वनुवोगतम् ॥ 3 ॥

पृष्ठतोऽनुव्रजध्वंमामग्रतोयंतमाहवे ।
शूरैरनिजनोपेतैरयुक्तंहिनिवर्तितुम् ॥ 4 ॥

एवमुक्तास्सुसंक्रुद्धावायुपुत्रेणधीमता ।
शैलशृंगान् द्रुमांश्चवजगृहुर्हृष्टमानसाः ॥ 5 ॥

अभिपेतुश्चगर्जंतोराक्षसान्वानरर्षभाः ।
परिवार्यहनूमंतमन्वयुश्चमहाहवे ॥ 6 ॥

स तैर्वानरमुख्यैस्तु हनूमान्सर्वतो वृतः ।
हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ॥ 7 ॥

स राक्षसानांकदनंचकारसुमहाकपिः ।
वृतोवानरसैन्येनकालांतकयोमोपमः ॥ 8 ॥

स तुकोपेनचाविष्टःशोकेन च महाकपिः ।
हनूमान्रावणिरथेमहतींपातयच्छिलाम् ॥ 9 ॥

तामापतंतींदृष्टवैवरथस्सारथिनातदा ।
विधेयाश्वसमायुक्तोविदूरमपवाहितः ॥ 10 ॥

तमिंद्रजितमप्राप्यरथस्थंसहसारथिम् ।
विवेशधरणींभित्त्वासाशिलाव्यर्थमुद्यता ॥ 11 ॥

पतितायांशिलायांतुव्यथितारक्षसांचमूः ।
निपतंत्या च शिलयाराक्षसामथिताभृशम् ॥ 12 ॥

तमभ्यधावन् शतशोनदंतःकाननौकसः ।
तेद्रुमांश्चमहाकायागिरिशृंगाणिचोद्यताः ॥ 13 ॥

क्षिपनींद्रजितंसंख्येवानराभीमविक्रमाः ।
वृक्षशैलमहावर्षंविसृजंतःप्लवंगमाः ॥ 14 ॥

शत्रूणांकदनंचक्रुर्नेदुश्चविविधैस्स्वनैः ।
वानरैसैर्महाभीमैर्घोररूपानिशाचराः ॥ 15 ॥

वीर्यादभिहतावृक्षैर्व्यचेष्टंतरणक्षितौ ।
स्वसैन्यमभिवीक्ष्याथवानरार्दितमिंद्रजित् ॥ 16 ॥

प्रगृहीतायुधःक्रुद्धःपरानभिमुखोययौ ।
सःशरौघानवसृजन्स्वसैन्येनाभिसम्वृतः ॥ 17 ॥

जघानकपिशार्दूलान्सुबहूंदृष्टविक्रमः ।
शूलैःरशनिभिःखंगैः पट्टसैः कूटमुद्गरैः ॥ 18 ॥

तेचाप्यनुचरास्तस्यवानरान्जघ्नुराहवे ।
स्कंधविटपैश्शालैश्शिलाभिश्चमहाबलः ॥ 19 ॥

हनूमान्कदनंचक्रेरक्षसांभीमकर्मणाम् ।
सनिवार्यपरानीकमब्रवीत्तान्वनौकसः ॥ 20 ॥

हनूमान् सन्निवर्तध्वं न नस्साध्यमिदंबलम् ।
त्यक्त्वाप्राणान्विवेष्टंतोरामप्रियचिकीर्षवः ॥ 21 ॥

यन्निमित्तंहियुध्यामोहतासाजनकात्मजा ।
इममर्थंहिविज्ञाप्यरामंसुग्रीवमेव च ॥ 22 ॥

तौयत्प्रतिविधास्येतेतत्करिष्यामहेवयम् ।
त्युक्त्वावानरश्रेष्ठोवारयन्सर्ववानरान् ॥ 23 ॥

शनैश्शनैरसंत्रस्तस्सबलस्सन्यवर्तत ।
ततःप्रेक्ष्यहनूमंतंव्रजंतंयत्रराघवः ॥ 24 ॥

स होतुकामोदुष्टात्मागतश्चैत्यंनिकुंभिलाम् ।
निकुंभिलामधिष्ठायपावकंजुहवेंद्रजित् ॥ 25 ॥

यज्ञभूम्यांततोगत्वापावकस्तेनरक्षसा ।
हूयमानःप्रजज्वालमांसशोणितभुक्तदा ॥ 26 ॥

अथेंद्रजिद्राक्षसभूतये तु ।
जुहाव हव्यं विधिना विधानवत् ।
दृष्ट्वा व्यतिष्ठंत च राक्षसास्ते ।
महासमूहेषु नयानयज्ञाः ॥ 27 ॥

अथेंद्रजिद्राक्षभूतयेतुजुहावहव्यंविधिनाविधानवित् ।
दृष्टवाव्यतिष्ठंत च राक्षसास्तेमहासमूहेषुसमानयज्ञाः ॥ 28 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे द्वाशीतितमस्सर्गः ॥




Browse Related Categories: