View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

2.79 अयोध्याकांड - एकोनाशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकोनाशीतितमस्सर्गः ।

ततः प्रभातसमये दिवसेऽथ चतुर्दशे ।
समेत्य राजकर्तारो भरतं वाक्यमब्रुवन् ॥ 1 ॥

गतो दशरथस्स्वर्गं यो नो गुरुतरो गुरुः ।
रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् ॥ 2 ॥

त्वमद्य भव नो राजा राजपुत्र महायशः ।
संगत्या नापराध्नोति राज्यमेतदनायकम् ॥ 3 ॥

अभिषेचनिकं सर्वमिदमादाय राघव ।
प्रतीक्षते त्वां स्वजनश्श्रेणयश्च नृपात्मज ॥ 4 ॥

राज्यं गृहाण भरत पितृपैतामहं ध्रुवम् ।
अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ ॥ 5 ॥

अभिषेचनिकं भांडं कृत्वा सर्वं प्रदक्षिणम् ।
भरतस्तं जनं सर्वं प्रत्युवाच धृतव्रतः ॥ 6 ॥

ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः ।
नैवं भवंतो मां वक्तुमर्हंति कुशला जनाः ॥ 7 ॥

रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः ।
अहं त्वरण्ये वत्स्यामि वर्षाणि नव पंच च ॥ 8 ॥

युज्यतां महती सेना चतुरंगमहाबला ।
आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात् ॥ 9 ॥

अभिषेचनिकं चैव सर्वमेतदुपस्कृतम् ।
पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति ॥ 10 ॥

तत्रैवं तं नरव्याघ्रमभिषिच्य पुरस्कृतम् ।
आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात् ॥ 11 ॥

न सकामां करिष्यामि स्वामिमां मातृगंधिनीम् ।
वने वत्स्याम्यहं दुर्गे रामो राजा भविष्यति ॥ 12 ॥

क्रियतां शिल्पिभिः पंथा स्समानि विषमाणि च ।
रक्षिणश्चानुसम्यांतु पथि दुर्गविचारकाः ॥ 13 ॥

एवं संभाषमाणं तं रामहेतोर्नृपात्मजम् ।
प्रत्युवाच जनस्सर्व श्श्रीमद्वाक्यमनुत्तमम् ॥ 14 ॥

एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठतात् ।
यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि ॥ 15 ॥

अनुत्तमं तद्वचनं नृपात्मजप्रभाषितं संश्रवणे निशम्य च ।
प्रहर्षजास्तं प्रति बाष्पबिंदवो निपेतुरार्यानननेत्रसंभवाः ॥ 16 ॥

ऊचुस्ते वचनमिदं निशम्य हृष्टा स्सामात्या स्सपरिषदो वियातशोकाः ।
पंथानं नरवर भक्तिमान् जनश्च व्यादिष्टस्तव वचनाच्च शिल्पिवर्गः ॥ 17 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकोनाशीतितमस्सर्गः ॥




Browse Related Categories: