View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

1.65 बालकांड - पंचषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ पंचषष्टितमस्सर्गः ।

अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः ।
पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥ 1 ॥

मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् ।
चकाराप्रतिमं राम तपः परमदुष्करम् ॥ 2 ॥

पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् ।
विघ्नैर्बहुभिराधूतं क्रोधो नांतर आविशत् ॥ 3 ॥

स कृत्वा निश्चयं राम तप आतिष्टदव्ययम् ।
तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः ॥ 4 ॥

भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम ।
इंद्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत ॥ 5 ॥

तस्मै दत्वा तदा सिद्धं सर्वं विप्राय निश्चितः ।
निश्शेषितेऽन्ने भगवानभुक्तैव महातपाः ॥ 6 ॥

न किंचिदवदद्विप्रं मौनव्रतमुपस्थितः ।
अथ वर्षसहस्रं वै नोच्छ्वसन्मुनिपुंगवः ॥ 7 ॥

तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ।
त्रैलोक्यं येन संभ्रांतमादीपितमिवाभवत् ॥ 8 ॥

ततो देवास्सगंधर्वाः पन्नगोरगराक्षसाः ।
मोहितास्तेजसा तस्य तपसा मंदरश्मयः ॥ 9 ॥

कश्मलोपहता स्सर्वे पितामहमथाब्रुवन् ।
बहुभिः कारणैर्देव विश्वामित्रो महामुनिः ॥ 10 ॥

लोभितः क्रोधितश्चैव तपसा चाभिवर्धते ।
न ह्यस्य वृजिनं किंचिद्दृश्यते सूक्ष्ममप्यथ ॥ 11 ॥

न दीयते यदि त्वस्य मनसा यदभीप्सितम् ।
विनाशयति त्रैलोक्यं तपसा सचराचरम् ॥ 12 ॥

व्याकुलाश्च दिशस्सर्वा न च किंचित्प्रकाशते ।
सागराः क्षुभितास्सर्वे विशीर्यंते च पर्वताः ॥ 13 ॥

प्रकंपते च पृथिवी वायुर्वाति भृशाकुलः ।
बृह्मन्न प्रतिजानीमोनास्तिको जायते जनः ॥ 14 ॥

सम्मूढमिव त्रैलोक्यं संप्रक्षुभितमानसम् ।
भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा ॥ 15 ॥

बुद्धिं न कुरुते यावन्नाशे देव महामुनिः ।
तावत्प्रसाद्यो भगवा नग्निरूपोमहाद्युतिः ॥ 16 ॥

कालाग्निना यथापूर्वं त्रैलोक्यं दह्यतेऽखिलम् ।
देवराज्यं चिकीर्षेत दीयतामस्य यन्मतम् ॥ 17 ॥

ततस्सुरगणास्सर्वे पितामहपुरोगमाः ।
विश्वामित्रं महात्मानं मधुरं वाक्यमब्रुवन् ॥ 18 ॥

ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ।
ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ॥ 19 ॥

दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः ।
स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् ॥ 20 ॥

पितामहवचश्शृत्वा सर्वेषां च दिवौकसाम् ।
कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ॥ 21 ॥

ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ।
ॐकारश्च वषट्कारो वेदाश्च वरयंतु माम् ॥ 22 ॥

क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ।
ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः ॥ 23 ॥

यद्ययं परमः कामः कृतो यांतु सुरर्षभाः ।
ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः ॥ 24 ॥

सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ।
ब्रह्मर्षिस्त्वं न संदेहस्सर्वं संपत्स्यते तव ॥ 25 ॥

इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् ।
विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम् ॥ 26 ॥

पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम् ।
कृतकामो महीं सर्वां चचार तपसि स्थितः ॥ 27 ॥

एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना ।
एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः ॥ 28 ॥

एष धर्मपरो नित्यं वीर्यस्यैष परायणम् ।
एवमुक्त्वा महातेजा विरराम द्विजोत्तमः ॥ 29 ॥

शतानंदवचः श्रुत्वा रामलक्ष्मणसन्निधौ ।
जनकः प्रांजलिर्वाक्यमुवाच कुशिकात्मजम् ॥ 30 ॥

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव ।
यज्ञं काकुत्स्थसहितः प्राप्तवानसि धार्मिक ॥ 31 ॥

पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने ।
गुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया ॥ 32 ॥

विस्तरेण च ते ब्रह्मन् कीर्त्यमानं महत्तपः ।
श्रुतं मया महातेजो रामेण च महात्मना ॥ 33 ॥

सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः ।
अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम् ॥ 34 ॥

अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ।
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो ॥ 35 ॥

कर्मकालो मुनिश्रेष्ठ लंबते रविमंडलम् ।
श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः ॥ 36 ॥

स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि ।
एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम् ॥ 37 ॥

विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा ।
एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः ॥ 38 ॥

प्रदक्षिणं चकाराशु सोपाध्यायस्सबांधवः ।
विश्वामित्रोऽपि धर्मात्मा सहरामस्सलक्ष्मणः ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे पंचषष्टितमस्सर्गः ॥




Browse Related Categories: