श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ नवाधिकशततमस्सर्गः ।
ततःप्रवृत्तंसुक्रूरंरामरावणयोस्तदा ।
सुमहदद्वैरथंयुद्धंसर्वलोकभयावहम् ॥ 1 ॥
ततोराक्षससैन्यं च हरीणां च महद्बलम् ।
प्रगृहीतप्रहरणंनिश्चेष्टंसमवर्तत ॥ 2 ॥
संप्रयुद्धेतुतौदृष्टवाबलवन्नरराक्षसौ ।
व्याक्षिप्तहदृयास्सर्वेपरंविस्मयमागताः ॥ 3 ॥
नाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः ।
तस्थुःप्रेक्षय च सर्वेतेनाभिजग्मुःपरस्परम् ॥ 4 ॥
रक्षसांरावणंचापिवानराणां च राघवम् ।
पश्यतांविस्मिताक्षाणांसैन्यंचित्रमिवाबभौ ॥ 5 ॥
तौतुतत्रनिमित्तानिदृष्टवाराघवरावणौ ।
कृतबुद्धीस्थिरामर्षौयुयुधातेह्यभीतवत् ॥ 6 ॥
जेतव्यमितिकाकुत्स्थोमर्तव्यमितिरावणः ।
धृतौस्ववीर्यसर्वस्वंयुद्धेऽदर्शयतांतदा ॥ 7 ॥
ततःक्रोधाद्धशग्रीवश्शरान्संधायवीर्यवान् ।
मुमोचध्वजमुद्धिस्यराघवस्यरथेस्थितम् ॥ 8 ॥
तेशरास्तमनासाद्यपुरंदररथध्वजम् ।
रथशक्तिंपरामृश्यनिपेतुर्धरणीतले ॥ 9 ॥
ततोरामोऽपिसंक्रुद्धश्चपमाकृष्यवीर्यवान् ।
कृतप्रतिकृतंकर्तुंमनसस्संप्रचक्रमे ॥ 10 ॥
रावणध्वजमुद्दिस्यमुमोचनिशितंशरम् ।
महासर्पमिवासह्यंज्वलंतंस्वेनतेजसा ॥ 11 ॥
रामश्चिक्षेपतेजस्वीकेतुमुद्धिश्यसायकम् ।
जगाम स महींछित्त्वादशग्रीवध्वजंशरः ॥ 12 ॥
स निकृत्तोऽपतद्भूमौरावणस्यंदनध्वजः ।
ध्वजस्योन्मथनंदृष्टवारावणस्समहाबलः ॥ 13 ॥
संप्रदीप्तोऽभवत्क्रोधादमर्षात्प्रहसन्निव ।
स रोषवशमापन्नश्शरवर्षंववर्ष ह ॥ 14 ॥
रामस्यतुरगांदीप्तैः शरैर्विव्याथरावणः ।
तेदिव्याहरयस्तत्रनास्खलन्नापिबभ्रमुः ॥ 15 ॥
बभूवुःस्वस्थहृदयाःपद्मनालैरिवाहताः ।
तेषामसंभ्रमंदृष्टवावाजिनांरावणस्तदा ॥ 16 ॥
भूयएवसुसंक्रुद्धश्शरवर्षंमुमोच ह ।
गदाश्चपरिघांश्चैवचक्राणिमुसलानि च ॥ 17 ॥
गिरिशृंगाणिवृक्षांश्चतथाशूलपरश्वधान् ।
मायाविहितमेतत्तुशस्त्रवर्षमपातयत् ॥ 18 ॥
सहस्रशस्तदाबाणानश्रांतहृदयोद्यमः ।
तुमुलंत्रासजननंभीमंभीमप्रतिस्वनम् ॥ 19 ॥
तद्वर्षमभवद्युद्धेनैकशस्त्रमयंमहत् ।
राघवरथंसमंताद्वानरेबले ॥ 20 ॥
सायकैरंतरिक्षं च चकारसुनिरंतरम् ।
मुमोच ह दशग्रीवोनिःसंगेनांतरात्मना ॥ 21 ॥
व्यायच्छमानंतंदृष्टवासत्वरमरावणंरणे ।
प्रहसन्निवकाकुत्स्थसंदधेनिशितान्शरान् ॥ 22 ॥
स मुमो च ततोबाणान्शतशोऽथसहस्रशः ।
तान् दृष्टवारावणश्चक्रेस्वशरैःखंनिरंतरम् ॥ 23 ॥
ततस्थाभ्यांप्रमुक्तेनशरवर्षेणभास्वता ।
शरबद्धमिवाभातिद्वितीयंभास्वदंभरम् ॥ 24 ॥
नानिमित्तोऽभवद्भाणोनानिर्भेत्ता न निष्फलः ।
अन्योन्यमभिसम्हत्यनिपेतुर्धरणीतले ॥ 25 ॥
तथाविसृजतोर्भाणान् रामरावणयोर्मृथे ।
प्रायुध्येतामविच्छिन्नमस्यंतौसव्यदक्षिणम् ॥ 26 ॥
चक्रतुश्चशरैर्घोरैर्निरुच्छवासमिवांबरम् ।
रावणस्यहयान्रामोहयान्रामस्यरावणः ॥ 27 ॥
जघ्नतुस्तौतदान्योन्यंकृतानुकृतकारिणौ ।
एवंतुतौसुसंक्रुद्धौचक्रतुर्युद्धमुत्तमम् ॥ 28 ॥
मुहूर्तमभवद्युद्धंतुमुलंरोमहर्षणम् ।
प्रयुध्यमानौसमरेमहाबलौ शितैःशरैरावणलक्ष्मणाग्रजौ ।
ध्वजावपातेन स राक्षसाधिपो भृशंप्रचुक्रोधतदारघूत्तमे ॥ 29 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे नवाधिकशततमस्सर्गः ॥