श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ त्र्यधिकशततमस्सर्गः ।
लक्ष्मणेनतुतद्वाक्यमुक्तंश्रुत्वा स राघवः ।
संदधेपरवीरघ्नोधनुरादायवीर्यवान् ॥ 1 ॥
रावणायशरानघोरान्विससर्जचमूमुखे ।
अधान्यंरथमास्थायरावणोराक्षसाधिपः ॥ 2 ॥
अभ्यधावतकाकुत्स्थंस्वर्भानुरिवभास्करम् ।
दशग्रीवोरधस्थस्तुरामंवज्रोपमैश्शरैः ॥ 3 ॥
आजघानमहाशैलंधाराभिरिवतोयदः ।
दीप्तपावकसंकाशैःशरैःकांचनभूषणैः ॥ 4 ॥
अभ्यवर्षद्रणरामोदशग्रीवंसमाहितः ।
भूमौस्थितस्यरामस्यरथस्थस्य च रक्षसः ॥ 5 ॥
न समंयुद्धमित्याहुर्देवगंधर्वकिन्नराः ।
ततोदेववरर्श्रीमान् श्रुत्वातेषांवचोऽमृतम् ॥ 6 ॥
आहूयमातलिंशक्रोवचनंचेदमब्रवीत् ।
रथेनममभूमिष्ठंशीघ्रंयाहिरघूत्तमम् ॥ 7 ॥
आहूयभूतलंयातःकुरुदेवहितंमहत् ।
इत्युक्तोदेवराजेनमातलिर्देवसारथिः ॥ 8 ॥
प्रणम्यशिरसादेवंततोवचनमब्रवीत् ।
शीघ्रंयास्यामिदेवेंद्रसारथ्यं च करोम्यहम् ॥ 9 ॥
ततोहयैश्चसम्योज्यहरितैःस्यंदनोत्तमम् ।
ततःकांचनचित्रांगःकिंकिणीशतभूषितः ॥ 10 ॥
तरुणादित्यसंकाशोवैदूर्यमयकूबरः ।
सदश्वैःकांचनापीडैर्युक्तश्श्वेतप्रकीर्णकैः ॥ 11 ॥
हरिभिःसूर्यसंकाशैर्हेमजालविभूषितैः ।
रुक्मवेणुध्वज्श्रीमंदेवराजरथोवरः ॥ 12 ॥
देवराजेनंदिष्टोरथमारुह्यमातलिः ।
अभ्यवर्ततकाकुत्स्थमवतीर्यत्रिवष्टपात् ॥ 13 ॥
अब्रवीच्चतदारामंसप्रतोदोरथेस्थितः ।
प्रांजलिर्मातलिर्वाक्यंसहस्राक्षस्यसारथिः ॥ 14 ॥
सहस्राक्षेणकाकुत्थ्सरथोऽयंविजयायते ।
दत्तस्तवमहासत्त्वश्रीमन् शत्रुनिबर्हण ॥ 15 ॥
इदमैंद्रंमहच्चापंकवचंचानगिसन्निभम् ।
शराश्चादित्यसंकाशाःशक्तिश्चविमलाशिवा ॥ 16 ॥
शूरोऽहमिति चात्मानमवगच्छसि दुर्मते ।
नैव लज्जास्ति ते सीतान् चोरवद्व्यपकर्षतः ॥ 17 ॥
इत्युक्तःसंपरिक्रम्यरथंतमभिवाद्य च ।
आरुरोहतदारामोलोकान् लक्ष्मविराजयन् ॥ 18 ॥
तद्भभूवाद्भुतंयुद्धंतुमुलंरोमहर्षणम् ।
रामस्य च महाबाहोरावणस्य च रक्षसः ॥ 19 ॥
स गांधर्वेणगांधर्वंदैवंदैवेनराघवः ।
अस्त्रंराक्षसराजस्यजघानपरमास्त्रवित् ॥ 20 ॥
अस्त्रंतुपरमंघोरंराक्षसंराक्षसाधिपः ।
ससर्जपरमक्रुद्धःपुनरेवनिशाचरः ॥ 21 ॥
तेरावणधनुर्मुक्ताःशराःकांचनभूषणाः ।
अभ्यवर्तंतकाकुत्स्थंसर्पाभूत्वामहाविषाः ॥ 22 ॥
तेदीप्तवदनादीप्तंसमंतोज्वलनंमुखैः ।
राममेवाभ्यवर्तंतव्यादितास्याभयानकाः ॥ 23 ॥
तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः ।
दिशश्चसंततास्सर्वाप्रदिशश्चसमावृताः ॥ 24 ॥
तान् दृष्टवापन्नगान् रामःसमापततआहवे ।
अस्त्रंगारुत्मतंघोरंप्रादुश्चक्रेभयावहम् ॥ 25 ॥
तेराघवधनुर्मुक्तारुक्मपुंखाःशिखिप्रभाः ।
सुपर्णाःकांचनाभूत्वाविचेरुःसर्पशत्रवः ॥ 26 ॥
तेतान्सर्वान् जघ्नुस्सर्परूपान्महाजवान् ।
सुपर्णरूपारामस्यविशिखाःकामरूपिणः ॥ 27 ॥
अस्त्रेप्रतिहतेक्रुद्धोरावणोराक्षसाधिपः ।
अभ्यवर्षत्तदारामंघोराभिःशरवृष्टिभिः ॥ 28 ॥
ततश्शरसहस्रेणराममक्लिष्टकारिणम् ।
अर्दयित्वाशरौघेणमातलिंप्रत्यविध्यत ॥ 29 ॥
चिच्छेदकेतुमुद्धिश्यशरेणैकेनरावणः ।
पातयित्वारथोपस्थेरथात्केतुं च कांचनम् ॥ 30 ॥
ऐंद्रानपिजघानाश्वान्शरजालेनरावणः ।
तदृष्ट्वासुमहातत्कर्मरावणस्यदुरात्मनाः ।
विषेदुर्देवगंधर्वाचारणादानवैस्सह ॥ 31 ॥
राममार्तंतदादृष्टवासिद्धाश्चपरमर्षयः ।
व्यथितावानरेंद्राश्चबभूवुस्सविभीषणाः ॥ 32 ॥
रामचंद्रमसंदृष्टवाग्रस्तंरावणराहुणा ।
प्राजात्यं च नक्षत्रंरोहिणींकशशिनःप्रियाम् ॥ 33 ॥
समाक्रम्यबुधस्तस्थौप्रजानामशुभावहः ।
सधूमपरिवृत्तोर्मिःप्रज्वलन्निवसागरः ॥ 34 ॥
उत्पपाततदाक्रुद्धस्स्पृशन्निवदिवाकरम् ।
शस्त्रवर्णस्सुपरुषोमंदरश्मिद्दिवाकरः ॥ 35 ॥
अदृश्यतकबंधांकःसंसक्तोधूमकेतुना ।
कोसलानां च नक्षत्रंव्यक्तमिंद्राग्निदैवतम् ॥ 36 ॥
आक्रम्यांगारकस्तस्थौविशाखामपिचांबरे ।
दशास्योविंशतिभुजःप्रगृहीतशरासनः ॥ 37 ॥
अदृशास्यःदशग्रीवःमैनाकःपर्वतःइव निरस्यमानोरामस्तुदशग्रीवेणरक्षसा ॥ 38 ॥
नाशक्नोदभिसंधातुंसायकान्रणमूर्धनि ।
सःकृत्वाभ्रुकुटिंक्रुद्धःकिंचित्सम्रक्तलोचनः ॥ 39 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे त्र्यधिकशततमस्सर्गः ॥