View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.38 युद्धकांड - अष्टत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ अष्टत्रिंशस्सर्गः ।

सतुकृत्वासुवेलस्यमतिमारोहणंप्रति ।
लक्ष्मणानुगतोरामःसुग्रीवमिदमब्रवीत् ॥ 1 ॥

विभीषणंचधर्मज्ञमनुरक्तंनिशाचरम् ।
मंत्रज्ञंचविधिज्ञंचश्लक्क्ष्णयापरयागिरा ॥ 2 ॥

सुवेलंसाधुशैलेंद्रमिमंधातुशतैश्चितम् ।
अध्यारोहामहेसर्वेवत्स्यामोऽत्रनिशामिमाम् ॥ 3 ॥

लंकांचालोकयिष्यामोनिलयंतस्यरक्षसः ।
येनमेमरणांतायहृताभार्यादुरात्मना ॥ 4 ॥

येनधर्मोनविज्ञातोनतद्वृत्तंनकुलंतथा ।
राक्षस्यानीचयाबुद् ध्यायेनतद्गर्हितंकृतम् ॥ 5 ॥

तस्मिन्मेवर्ततेरोषःकीर्तितेराक्षसाधमे ।
यस्यापराधाननीचस्यवधंद्रक्ष्यामिरक्षसाम् ॥ 6 ॥

एकोहिकुरुतेपापंकालपाशवशंगतः ।
नीचेनात्मापचारेणकुलंतेनविनश्यति ॥ 7 ॥

एवंसम्मंत्रयन्नेवसक्रोधोरावणंप्रति ।
रामःसुवेलमासाद्यचित्रसानुमुपारुहत् ॥ 8 ॥

पृष्ठतोलक्ष्मणश्चैवमन्वगच्छत्समाहितः ।
सशरंचापमुद्यम्यसुमहद्विक्रमेरतः ॥ 9 ॥

अन्वारोहत्सुग्रीवस्सामात्यस्सविभीषणः ।
हनुमानंगदोनीलोमैंदोद्विविदएवच ॥ 10 ॥

गजोगवाक्षोगवयश्शरभोगंधमादनः ।
पनसःकुमुदश्चैवहरोरंभश्चयूथपः ॥ 11 ॥

जांबवांश्चसुषेणश्चऋषभश्चमहामतिः ।
दुर्मुखश्चमहातेजास्तथाशतवलिःकपिः ॥ 12 ॥

एतेचान्येचबहवोवानराशशीघ्रगामिनः ।
तेवायुवेगप्रवणास्तंगिरिगिरिचारिणः ॥ 13 ॥

अध्यारोहंतशतशस्सुवेलंयत्रराघवः ।
तेत्वदीर्घेणकालेनगिरिमारुह्यसर्वतः ॥ 14 ॥

ददृशुशशिखरेतस्यविषक्तामिवखेपुरीम् ।
तांशुभांप्रवरद्वारांप्राकारपरिशोभिताम् ॥ 15 ॥

लंकांराक्षससंपूर्णांददृशुर्हरियूथपाः ।
प्राकारवरसंस्थैश्चतथानीलैश्चराक्षसैः ॥ 16 ॥

ददृशुस्तेहरिश्रेष्ठाःप्राकारमपरंकृतम् ।
तेदृष्टवावानराःसर्वेराक्षसान् युद्धकाङ् क्षिणः ॥ 17 ॥

मुमुचुर्विविधान्नादांतत्ररामस्यपश्यतः ।
ततोऽस्तमगमत्पूर्यःसंध्ययाप्रतिरंजितः ॥ 18 ॥

पूर्णचंद्रप्रदीप्ताचक्षपासमभिवर्तते ।
ततस्सरामोहरिवाहिनीपतिर्विभीषणेनप्रतिनंद्यसत्कृतः ।
सलक्ष्मणोयूथपयूथसम्वृतस्सुवेलपृष्ठेन्यवसद्यथासुखम् ॥ 19 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे अष्टत्रिंशस्सर्गः ॥




Browse Related Categories: