View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.31 युद्धकांड - एकत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकत्रिंशस्सर्गः ।

ततस्तमक्षोभ्यबलंलंकाधिपतयेचराः ।
सुवेलेराघवंशैलेनिविष्टंप्रत्यवेदयन् ॥ 1 ॥

चाराणांरावणश्श्रुत्वाप्राप्तंरामंमहाबलम् ।
जातोद्वेगोऽभवत्किंचित्सचिवानिदमब्रवीत् ॥ 2 ॥

मंत्रिणश्शीघ्रमायांतुसर्वेवैसुसमाहिताः ।
अयंनोमंत्रकालोहिसंप्रप्ताइतिराक्षसाः ॥ 3 ॥

तस्यतद्वचनंश्रुत्वामंत्रिणोऽभ्यागमन् द्रुतम् ।
ततस्समंत्रयामासराक्षसैस्सचिवैस्सह ॥ 4 ॥

मंत्रयित्वासदुर्धर्षःक्षमंयत्समनंतरम् ।
विसर्जयित्वासचिवान्प्रविवेशस्वमालयम् ॥ 5 ॥

ततोराक्षसमाहूयविद्युज्जिह्वंमहाबलम् ।
मायाविदंमहामायःप्राविशद्यत्रमैथिली ॥ 6 ॥

विद्युज्जिह्वंचमायाज्ञमब्रवीद्राक्षसाधिपः ।
मोहयिष्यावहेसीतांमाययाजनकात्मजाम् ॥ 7 ॥

शिरोमायामयंगृह्यराघवस्यनिशाचरः ।
त्वंमांसमुतिष्ठस्वमहच्चसशरंधनुः ॥ 8 ॥

एवमुक्तस्तथेत्याहविद्युज्जिह्वोनिशाचरः ।
दर्शयामासतांमायांसुप्रयुक्तांसरावणे ॥ 9 ॥

तस्यतुष्टोऽभवद्राजाप्रददौचविभूषणम् ।
अशोकवनिकायांतुसीतादर्शनलालसः ।
वैरृतानामधिपतिस्संविवेशमहाबलः ॥ 10 ॥

ततोदीनामदैन्यार्हांददर्शधनदानुजः ॥ 11 ॥

अधोमुखींशोकपरामुपविष्टांमहीतले ।
भर्तारमेवध्यायंतीमशोकवविकांगताम् ॥ 12 ॥

उपास्यमानांघोराभीराक्षसीभिरितस्ततः ।
उपसृत्यततस्सीतांप्रहर्षंनामकीर्तयन् ॥ 13 ॥

इदंचवचनंधृष्टमुवाचजनकात्मजाम् ।
सांत्व्यमानामयाभद्रेयमुपाश्रित्यवल्गसे ।
खरहंतासतेभर्ताराघवस्समरेहतः ॥ 14 ॥

छिन्नंतेसर्वतोमूलंदर्पस्तेनिहतोमया ।
व्यसनेनात्मनस्सीते ममभार्याभविष्यसि ॥ 15 ॥

विसृजेमांमतिंमूढेः किंमृतेनकरिष्यसि ।
भवस्वभद्रेः भार्याणांसर्वेसामीश्वरीमम ॥ 16 ॥

अल्पपुण्येः निवृत्तार्थेः मूढेः पंडितमानिनिः ।
शृणुभर्तृवधंसीतेः घोरंवृत्रवधंयथा ॥ 17 ॥

समायातस्समुद्रांतंमांहंतुंकिलराघवः ।
वानरेंद्रप्रणीतेनबलेनमहतावृतः ॥ 18 ॥

सन्निविष्टस्समुद्रस्यपीड्यतीरमथोत्तरम् ।
बलेनमहतारामोव्रजत्यस्तंदिवाकरे ॥ 19 ॥

अथाध्वनिपरिश्रांतमर्धरात्रेस्थितंबलम् ।
सुखसुप्तंसमासाद्यचारित्रंप्रथमंचरैः ॥ 20 ॥

तत्प्रहस्तप्रणीतेनबलेनमहतामम ।
बलमस्यहतंरात्रौयत्ररामस्सलक्ष्मणः ॥ 21 ॥

पट्टसान्परिघांश्चक्रांदंडान्महायशान् ।
बाणजालानिशूलानिभास्वरान्कूटमुद्गरान् ॥ 22 ॥

यष्टीश्चतोमरान् शक्तीश्चक्राणिमुसलानिच ।
उद्यम्योद्यम्यरक्षोभिर्वानरेषुनिपातिताम् ॥ 23 ॥

अथसुप्तस्यरामस्यप्रहस्तेनप्रमाथिना ।
असक्तंकृतहस्तेनशिरश्छिन्नंमहासिना ॥ 24 ॥

विभीषणस्समुत्पत्यनिगृहीतोयदृच्छया ।
दिशःप्रव्राजितस्सर्वैस्सर्लक्ष्मणःप्लवगैस्सहा ॥ 25 ॥

सुग्रीवोग्रीनयासीतेभग्नयाप्लवगाधिपः ।
निरस्तहनुकश्शेतेहनुमान्राक्षसैर्हतः ॥ 26 ॥

जांबवानथजानुभ्यामुत्पतन्निहतोयुधि ।
पट्टसैर्बहुभिश्छिन्नोनिकृत्तःपादपोयथा ॥ 27 ॥

मैंदश्चद्विविदश्चोभौनिहतौवानरर्षभौ ॥ 28 ॥

निश्श्वसंतौरुदंतौचरुधिरेणसमुक्षितौ ।
असिनाव्यायतौछिन्नौमध्येह्यरिनिषूदनौ ॥ 29 ॥

अनुतिष्ठतिमेदिन्यांपनसःपनसोयथा ॥ 30 ॥

नाराचैर्बहुभिश्चिन्नश्शेतेदर्यांदरीमुखः ।
कुमुदस्तुमहातेजानिष्कूजन्सायकैः कृतः ॥ 31 ॥

अंगदोबहुभिश्छिन्नश्शरैरासाद्यराक्षसैः ।
पतितोरुधिरोद्गारीक्षितौनिपतितांगदः ॥ 32 ॥

हरयोमथितानागैरथजातैस्तथापरे ।
शयितामृदिताश्चाश्वैर्यायुवेगैरिवांबुदाः ॥ 33 ॥

प्रहृताश्चपरेत्रस्ताहस्यमानाजघन्यतः ।
अभिद्रुतास्तुरक्षोभिस्सिंहैरिवमहाद्विपाः ॥ 34 ॥

सागरेपतिताःकेचित्केचिग्दगनमाश्रिताः ।
ऋक्षावृक्षानुपारूढावानरींवृत्तिमाश्रिताः ॥ 35 ॥

सागरस्यचतीरेषुशैलेषुचवनेषुच ।
पिंगलास्तेविरूपाक्षैर्बहुभिर्बहवोहताः ॥ 36 ॥

एवंतवहतोभर्ताससैन्योममसेनया ।
क्षतजार्द्रंरजोध्वस्तमिदंचस्याहृतंशिरः ॥ 37 ॥

ततःपरमदुर्धर्षोरावणोराक्षसेश्वरः ।
सीतायामुपशंत्यांराक्षसीमिदमब्रवीत् ॥ 38 ॥

राक्षसंक्रूरकर्माणंविद्युज्जिह्वंत्वमानय ।
येनतद्राघवशिरस्संग्रामात्स्वयमाहृतम् ॥ 39 ॥

विद्युज्जिह्वस्ततोगृह्यशिरस्तत्सशरासनम् ।
प्रणामंशिरसाकृत्वारावणस्याग्रतस्थितः ॥ 40 ॥

तमब्रवीत्ततोराजारावणोराक्षसंस्थितम् ।
विद्युज्जिह्वंमहाजिह्वंसमीपपरिवर्तिनम् ॥ 41 ॥

अग्रतःकुरुसीतायाश्शीघ्रंदाशरधेशशिरः ।
अवस्थांपश्चिमांभर्तुःकृपणासाधुपश्यतु ॥ 42 ॥

एवमुक्तंतुतद्रक्षशशिरस्तत्प्रियदर्शनम् ।
उपनिक्षिप्यसीतायाःक्षिप्रमंतरधीयत ॥ 43 ॥

रावणश्चापिचिक्षेपभस्वरंकार्मुकंमहत् ।
त्रिषुलोकेषुविख्यातंसीतामिदमुवाचह ॥ 44 ॥

इदंतुतवरामस्यकार्मुकंज्यासमायुतम् ।
इहप्रहस्तेनानीतंहत्वातंनिशिमानुषम् ॥ 45 ॥

सविद्युज्जिह्वेनसहैवतच्छिरोधनुश्चभूमौविनिकीर्यरावणः ।
विदेहराजस्यसुतांयशस्विनींततोऽब्रवीत्तांभवमेवशानुगा ॥ 46 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकत्रिंशस्सर्गः ॥




Browse Related Categories: