View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.80 युद्धकांड - अशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ अशीतितमस्सर्गः ।

मकराक्षंहतंश्रुत्वारावणस्समितिंजयः ।
रोषेणमहताविष्टोदंतांकटकटाय्य च ॥ 1 ॥

कोपितश्चतदातत्रकिंकार्यमितिचिंतयन् ।
आदिदेशाथसंक्रुद्धोरणायेजितंसुतम् ॥ 2 ॥

जहिवीर महावीर्यौभ्रातरौरामलक्ष्मणौ ।
अदृश्योदृश्यमानोवासर्वथात्वंबलाधिकः ॥ 3 ॥

त्वमप्रतिमकर्माणमिंद्रंजयसिसंयुगे ।
किंपुनर्मानुषौदृष्टवा न वधिष्यसिसंयुगे ॥ 4 ॥

तथोक्तोराक्षसेंद्रेणप्रतिगृह्यपितुर्वचः ।
यज्ञभूमौ स विधिवत् पावकंजुहवेंद्रजित् ॥ 5 ॥

जुह्वतश्चापितत्राग्निंरक्तोष्णीषधरास्त्रिरियः ।
आजग्मुस्तत्रसंभ्रांताराक्षस्योयत्ररावणिः ॥ 6 ॥

शस्त्राणिशरपत्राणिसमिधोऽथविभीतकाः ।
लोहितानि च वासांहिस्रुवंकार्ष्णायसंतथा ॥ 7 ॥

सर्वतो ।
अग्निं समास्तीर्य शरपत्रैः सतोमरैः ।
चागस्य सर्वकृष्णस्य गलं जग्राह जीवतः ॥ 8 ॥

सकृदेवसमिद्धस्यविधूमस्यमहार्चिषः ।
बभूवुस्तानिलिंगानिविजयंदर्शयंति च ॥ 9 ॥

प्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः ।
हविस्तत्प्रतिजग्राहपावकस्स्वयमुत्थितः ॥ 10 ॥

हुत्वाग्निंतर्पयित्वाथदेवदानवराक्षसान् ।
आरुरोहरथश्रेष्ठमंतर्थानगतंशुभम् ॥ 11 ॥

स वाजिभिश्चतुर्भिस्तुबाणैश्चनिशितैर्युतः ।
आरोपितमहाचापश्शुशुभेस्यंदनोत्तमः ॥ 12 ॥

जाज्वल्यमानोवपुषातपनीयपरिच्छदः ।
मृगैश्चंद्रार्धचंद्रैश्च स रथस्समलंकृतः ॥ 13 ॥

जांबूनदमहाकंबुर्दीप्तपावकसन्निभः ।
बभूवेंद्रजितःकेतुर्वैदूर्यसमलंकृतः ॥ 14 ॥

तेनचादित्यकल्पेनब्रह्मास्त्रण च पालितः ।
स बभूवदुराधर्षोरावणिस्सुमहाबलः ॥ 15 ॥

सोऽभिनिर्यायनगरादिंद्रजित्समितिंजयः ।
हत्वाग्निंराक्षसैर्मंत्रैरंतर्धानगतोऽब्रवीत् ॥ 16 ॥

अद्यहत्वारणेयौतौमिथ्याप्रव्रजितौवने ।
जयंपित्रेप्रदास्यामिरावणायरणार्जितम् ॥ 17 ॥

अद्यनिर्वानरमुर्वींहत्वारामंसलक्ष्मणम् ।
करिष्येपरमांप्रीतिमित्युक्त्वांतरधीयत ॥ 18 ॥

आपपातथसंकृद्धोदशग्रीवेणचोदितः ।
तीक्षणकार्मुकनाराचैस्तीक्षणस्त्विंद्ररिपूरणे ॥ 19 ॥

स ददर्शमहावीर्यौनागौत्रिशिरसानिव ।
सृजंताविषुजालानिवीरौवानरमध्यगौ ॥ 20 ॥

इमौ ताविति संचिंत्य सज्यं कृत्वा च कार्मुकम् ।
संततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥ 21 ॥

तुवैहायसंप्राप्यसरथोरामलक्ष्मणौ ।
आचक्षुर्विषयेतिष्ठवनिव्याधनिशितैश्शरैः ॥ 22 ॥

तौतस्यशरवेगेनपरीतौरामलक्ष्मणौ ।
धनुषीसशरेकृत्वादिव्यमस्त्रंप्रचक्रतुः ॥ 23 ॥

प्रच्छादयंतौगगनंशरजालैर्महाबलौ ।
तमस्त्रःसूर्यसंकाशैर्नैवपस्पृशतुश्शरैः ॥ 24 ॥

स हिधूमांधकारं च चक्रेप्रच्चादयन्नभः ।
दिशश्चांतर्दधेश्रीमान्नीहारतमसावृताः ॥ 25 ॥

नैवज्यातलनिर्घोषा न च नेमिखुरस्वनः ।
शुश्रुवेचरतस्तस्य न च रूपंप्रकाशते ॥ 26 ॥

घनांधकारेतिमिरेशरावर्षमिवाद्भुतम् ।
स ववर्षमहाबाहुर्नाराचशरवृष्टिभिः ॥ 27 ॥

स रामंसूर्यसंकाशैश्शरैर्धत्तवरोर्भृशम् ।
विव्याधसमरेक्रुद्धःसर्वगात्रेषुरावणिः ॥ 28 ॥

तौहन्यमानौनाराचैर्धाराभिरिवपर्वतौ ।
हेमपुंखान्नरव्याघ्रौतिग्मान्मुमुचतुःशरान् ॥ 29 ॥

अंतरिक्षेसमासाद्यरावणिंकंकपत्रिणः ।
निकृत्यपतगाभूमौसेतुस्तेशोणितोक्षिताः ॥ 30 ॥

अतिमात्रंशरौघेणपीड्यमानौनरोत्तमौ ।
तानिषून्पततोभल्लैरनेकैर्विचकर्ततुः ॥ 31 ॥

यतोहिददृशातेतौशरान् निपतितान्शितान् ।
ततस्तुतौदाशरथीससृजातेऽस्त्रमुत्तमम् ॥ 32 ॥

रावणिस्तुदिशस्सर्वारथेनातिरथोऽपतत् ।
विव्याधतौदाशरथीलघ्वस्त्रनिशितैःशरैः ॥ 33 ॥

तेनातिविद्धौतौवीरौरुक्मपुंखैःसुसम्हतैः ।
बभूवतुर्धाशरथीपुष्पितामिवकिंशुकौ ॥ 34 ॥

नास्यवेगगतिंकचशिन्न च रूपंधनुश्शरान् ।
न चान्यद्विदितंकिंचित्सूर्यस्येवाभ्रसंप्लवे ॥ 35 ॥

तेनविद्धाश्चहरयोनिहताश्चगतासवः ।
बभूवुःशतशस्तत्रपतिताधरणीतले ॥ 36 ॥

लक्ष्मणस्तुततस्सुंक्रृद्धोभ्रातरंवाक्यमब्रवीत् ।
ब्राह्ममस्त्रंप्रयोक्ष्यामिवधार्थंसर्वरक्षसाम् ॥ 37 ॥

तमुवाचततोरामोलक्ष्मणंशुभलक्षणम् ।
नैकस्यहेतोरक्षांसिपृथिव्यांहंतुमर्हसि ॥ 38 ॥

अयुध्यमानंप्रच्छन्नंप्रांजलिंशरणागतम् ।
पलायमानंमत्तंवा न हंतुंत्वमिहार्हसि ॥ 39 ॥

अस्यैवतुवधेयत्नंकरिष्यावोमहाभुज ।
आदेक्ष्यावोमहावेगावस्त्रानाशीविषोपमान् ॥ 40 ॥

तमेनंमायिनंक्षुद्रमंतर्हितरथंबलात् ।
राक्षसंनिहनिष्यंतिदृष्टवावानरयूथपाः ॥ 41 ॥

यद्येषभूमिंविशतेदिवंवारसातलंवापिनभस्स्थलंवा ।
एवंनिगूढोऽममास्त्रदग्धःपतिष्यतेभूमितलेगतासुः ॥ 42 ॥

इत्येवमुक्त्वावचनंमहात्मारघुप्रवीरःप्लवगर्षभैर्वृतः ।
वधायरौद्रस्यनृशंसकर्मणस्तदामहात्मात्वरितंनिरीक्षते ॥ 43 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे अशीतितमस्सर्गः ॥




Browse Related Categories: