श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ एकपंचाशस्सर्गः ।
इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनांबराम् ।
अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ॥ 1 ॥
इदं प्रविष्टास्सहसा बिलं तिमिरसंवृतम् ।
क्षुत्पिपासापरिश्रांताः परिखिन्नाश्च सर्वशः ॥ 2 ॥
महद्धरण्या विवरं प्रविष्टाः स्म पिपासिताः ।
इमां स्त्वेवंविधान्भावान्विविधानद्भुतोपमान् ॥ 3 ॥
दृष्ट्वा वयं प्रव्यथितास्संभ्रांता नष्टचेतसः ।
कस्यैते कांचना वृक्षास्तरुणादित्यसन्निभाः ॥ 4 ॥
शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ।
कांचनानि विमानानि राजतानि गृहाणि च ॥ 5 ॥
तपनीयगवाक्षाणि मणिजालावृतानि च ।
पुष्पिताः फलवंतश्च पुण्यास्सुरभिगंधिनः ॥ 6 ॥
इमे जांबूनदमयाः पादपाः कस्य तेजसा ।
कांचनानि च पद्मानि जातानि विमले जले ॥ 7 ॥
कथं मत्स्याश्च सौवर्णा दृश्यंते सह कच्छपैः ।
आत्मानमनुभावं च कस्य चैतत्तपोबलम् ॥ 8 ॥
अजानतां न स्सर्वेषां सर्वमाख्यातुमर्हसि ।
एवमुक्ता हनुमता तापसी धर्मचारिणी ॥ 9 ॥
प्रत्युवाच हनूमंतं सर्वभूतहिते रता ।
मयो नाम महातेजा मायावी वानरर्षभः ॥ 10 ॥
तेनेदं निर्मितं सर्वं मायया कांचनं वनम् ।
पुरा दानवमुख्यानां विश्वकर्मा बभूव ह ॥ 11 ॥
येनेदं कांचनं दिव्यं निर्मितं भवनोत्तमम् ।
स तु वर्षसहस्राणि तपस्तप्त्वा महावने ॥ 12 ॥
पितामहाद्वरं लेभे सर्वमौशनसं धनम् ।
वनं विधाय बलवान्सर्वकामेश्वरस्तदा ॥ 13 ॥
उवास सुखितः कालं कंचिदस्मिन्महावने ।
तमप्सरसि हेमायां सक्तं दानवपुंगवम् ॥ 14 ॥
विक्रम्यैवाशनिं गृह्य जघानेत्रः पुरंदरः ।
इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम् ॥ 15 ॥
शाश्वताः कामभोगश्च गृहं चेदं हिरण्मयम् ।
दुहिता मेरुसावर्णेरहं तस्यास्स्वयंप्रभा ॥ 16 ॥
इदं रक्षामि भवनं हेमाया वानरोत्तम ।
मम प्रियसखी हेमा नृत्तगीतविशारदा ॥ 17 ॥
तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् ।
किं कार्यं कस्य वा हेतोः कांताराणि प्रपश्यथ ॥ 18 ॥
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् ।
इमान्यभ्यवहार्याणि मूलानि च फलानि च ॥ 19 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे एकपंचाशस्सर्गः ॥