View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.42 युद्धकांड - द्विचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ द्विचत्वारिंशस्सर्गः ।

ततस्तेराक्षसास्तत्रगत्वारावणमंदिरम् ।
न्यवेदयन्पुरींरुद्धांरामेणसहवानरैः ॥ 1 ॥

रुद्धांतुनगरींश्रुत्वाजातक्रोधोनिशाचरः ।
विधानंद्विगुणंश्रुत्वाप्रासादंसोऽध्यरोहत ॥ 2 ॥

सददर्शावृतांलंकांसशैलवनकाननाम् ।
असंख्येयैर्हरिगणैःसर्वतोयुद्धकांक्षिभिः ॥ 3 ॥

सदृष्ट्वावानरैःसर्वांवसुधांकवलीकृताम् ।
कथंक्षपयितव्याःस्युरितिचिंतापरोऽभवत् ॥ 4 ॥

सचिंतयित्वासुचिरंधैर्यमालंब्यरावणः ।
राघवंहरियूथांश्चददर्शायतलोचनः ॥ 5 ॥

राघवःसहसैन्येनमुदितोनामपुप्लुवे ।
लंकांददर्शगुप्तांवैसर्वतोराक्षसैर्वृताम् ॥ 6 ॥

दृष्ट्वादाशरथिर्लंकांचित्रध्वजपताकिनीम् ।
जगामसहसासीतांदूयमानेनचेतसा ॥ 7 ॥

अत्रसामृगशावाक्षीमत्कृतेजनकात्मजा ।
पीड्यतेशोकसंतप्ताकृशास्थंडिलशायिनी ॥ 8 ॥

पीड्यमानांसधर्मात्मावैदेहीमनुचिंतयन् ।
क्षिप्रमाज्ञापयामासवानरांद्विषतांवधे ॥ 9 ॥

एवमुक्तेतुवचनेरामेणाक्लिष्टकर्मणा ।
संघर्षमाणाःप्लवगाःसिम्हनादैरनादयन् ॥ 10 ॥

शिखरैर्विकिरामैनांलंकांमुष्टिभिरेववा ।
इतिस्मदधिरेसर्वेमनांसिहरियूथपाः ॥ 11 ॥

उद्यम्यगिरिशृंगाणिशिखराणिमहांतिच ।
तरूंश्चोत्पाट्यविविधांस्तिष्ठंतिहरियूथपाः ॥ 12 ॥

प्रेक्षतोराक्षसेंद्रस्यतान्यनीकानिभागशः ।
राघवप्रियकामार्थंलंकामारुरुहुस्तदा ॥ 13 ॥

तेताम्रवक्त्राहेमाभारामार्थेत्यक्तजीविताः ।
लंकामेवाभ्यवर्तंतसालतालशिलायुधाः ॥ 14 ॥

तेद्रुमैःपर्वताग्रैश्चमुष्टिभिश्चप्लवंगमाः ।
प्राकाराग्राण्यरण्यानिममंथुस्तोरणानिच ॥ 15 ॥

पारिखाःपूरयंतिस्मप्रसन्नसलिलायुताः ।
पांसुभिःपर्वताग्रैश्चतृणैःकाष्ठैश्चवानराः ॥ 16 ॥

ततःसहस्रयूथाश्चकोटीयूथाश्चवानराः ।
कोटीशतयुताश्चान्येलंकामारुरुहुस्तदा ॥ 17 ॥

कांचनानिप्रमृद्नंतस्तोरणानिप्लवंगमाः ।
कैलासशिखराभानिगोपुराणिप्रमथ्यच ॥ 18 ॥

आप्लवंतःप्लवंतश्चगर्जंतश्चप्लवंगमाः ।
लंकांतामभिधावंतिमहावारणसंनिभाः ॥ 19 ॥

जयत्यतिबलोरामोलक्ष्मणश्चमहाबलः ।
राजाजयतिसुग्रीवोराघवेणाभिपालितः ॥ 20 ॥

इत्येवंघोषयंतश्चगर्जंतश्चप्लवंगमाः ।
अभ्यधावंतलंकायाःप्राकारंकामरूपिणः ॥ 21 ॥

वीरबाहुःसुबाहुश्चनलश्चवनगोचरः ।
निपीड्योपनिविष्टास्तेप्राकारंहरियूथपाः ।
एतस्मिन्नंतरेचक्रुःस्कंधावारनिवेशनम् ॥ 22 ॥

पूर्वद्वारंतुकुमुदःकोटीभिर्दशभिर्वृतः ।
आवृत्यबलवांस्तस्थौहरिभिर्जितकाशिभिः ॥ 23 ॥

साहाय्यार्थंतुतस्यैवनिविष्टःप्रघसोहरिः ।
पनसश्चमहाबाहुर्वानरैर्बहुभिर्वृतः ॥ 24 ॥

दक्षिणंद्वारमागम्यवीरःशतबलिःकपिः ।
आवृत्यबलवांस्तस्थौविंशत्याकोटिभिर्वृतः ॥ 25 ॥

सुषेणःपश्चिमद्वारंगतस्तारापिताहरिः ।
आवृत्यबलवांस्तस्थौषष्टिकोटिभिरावृतः ॥ 26 ॥

उत्तरंद्वारमासाद्यरामःसौमित्रिणासह ।
आवृत्यबलवांस्तस्थौसुग्रीवश्चहरीश्वरः ॥ 27 ॥

गोलांगूलोमहाकायोगवाक्षोभीमदर्शनः ।
वृतःकोट्यामहावीर्यस्तस्थौरामस्यपार्श्वतः ॥ 28 ॥

ऋक्षाणांभीमवेगानांधूम्रःशत्रुनिबर्हणः ।
वृतःकोट्यामहावीर्यस्तस्थौरामस्यपार्श्वतः ॥ 29 ॥

सन्नद्धस्तुमहावीर्योगदापाणिर्विभीषणः ।
वृतोयस्तैस्तुसचिवैस्तस्थौतत्रमहाबलः ॥ 30 ॥

गजोगवाक्षोगवयःशरभोगंधमादनः ।
समंतात्परिधावंतोररक्षुर्हरिवाहिनीम् ॥ 31 ॥

ततःकोपपरीतात्मारावणोराक्षसेश्वरः ।
निर्याणंसर्वसैन्यानांद्रुतमाज्ञापयत्तदा ॥ 32 ॥

एतच्छ्रुत्वाततोवाक्यंरावणस्यमुखोद्गतम् ।
सहसाभीमनिर्घोषमुद्घुष्टंरजनीचरैः ॥ 33 ॥

ततःप्रचोदिताभेर्यश्चंद्रपांडरपुष्कराः ।
हेमकोणाहताभीमाराक्षसानांसमंततः ॥ 34 ॥

विनेदुश्चमहाघोषाःशंखाःशतसहस्रशः ।
राक्षसानांसुघोराणांमुखमारुतपूरिताः ॥ 35 ॥

तेबभुःशुभनीलांगाःसशंखारजनीचराः ।
विद्युन्मंडलसन्नद्धाःसबलाकाइवांबुदाः ॥ 36 ॥

निष्पतंतिततःसैन्याहृष्टारावणचोदिताः ।
समयेपूर्यमाणस्यवेगाइवमहोदधेः ॥ 37 ॥

ततोवानरसैन्येनमुक्तोनादःसमंततः ।
मलयःपूरितोयेनससानुप्रस्थकंदरः ॥ 38 ॥

शंखदुंदुभिसंघुष्टःसिम्हनादस्तरस्विनाम् ।
पृथिवींचांतरिक्षंचसागरंचैवनादयन् ॥ 39 ॥

गजानांबृंहितैःसार्धंहयानांहेषितैरपि ।
रथानांनेमिघोषैश्चरक्षसाम्वदनस्वनः ॥ 40 ॥

एतस्मिन्नंतरेघोरःसंग्रामःसमवर्तत ।
रक्षसांवानराणांचयथादेवासुरेपुरा ॥ 41 ॥

तेगदाभिःप्रदीप्ताभिःशक्तिशूलपरश्वधैः ।
निजघ्नुर्वानरान्घोराःकथयंतःस्वविक्रमान् ॥ 42 ॥

राजन् जय जयेत्युक्त्वा स्वस्वनामकथां ततः ।
राक्षसास्त्वपरे भीमाः प्राकारस्थामहीं गतान् ॥ 43 ॥

तथावृक्षैर्महाकायाःपर्वताग्रैश्चवानराः ।
निजघ्नुस्तानिरक्षांसिनखैर्दंतैश्चवेगिताः ॥ 44 ॥

राक्षसास्त्वपरेभीमाःप्राकारस्थामहीगतान् ।
भिंदिपालैश्चखड्गैश्चशूलैश्चैवव्यदारयन् ॥ 45 ॥

वानराश्चापिसंक्रुद्धाःप्राकारस्थान्महीगताः ।
राक्षसान्पातयामासुःसमाप्लुत्यप्लवंगमाः ॥ 46 ॥

ससंप्रहारस्तुमुलोमांसशोणितकर्दमः ।
रक्षसांवानराणांचसंबभूवाद्भुतोपमाः ॥ 47 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे द्विचत्वारिंशस्सर्गः ॥




Browse Related Categories: