श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ द्विचत्वारिंशस्सर्गः ।
ततस्तेराक्षसास्तत्रगत्वारावणमंदिरम् ।
न्यवेदयन्पुरींरुद्धांरामेणसहवानरैः ॥ 1 ॥
रुद्धांतुनगरींश्रुत्वाजातक्रोधोनिशाचरः ।
विधानंद्विगुणंश्रुत्वाप्रासादंसोऽध्यरोहत ॥ 2 ॥
सददर्शावृतांलंकांसशैलवनकाननाम् ।
असंख्येयैर्हरिगणैःसर्वतोयुद्धकांक्षिभिः ॥ 3 ॥
सदृष्ट्वावानरैःसर्वांवसुधांकवलीकृताम् ।
कथंक्षपयितव्याःस्युरितिचिंतापरोऽभवत् ॥ 4 ॥
सचिंतयित्वासुचिरंधैर्यमालंब्यरावणः ।
राघवंहरियूथांश्चददर्शायतलोचनः ॥ 5 ॥
राघवःसहसैन्येनमुदितोनामपुप्लुवे ।
लंकांददर्शगुप्तांवैसर्वतोराक्षसैर्वृताम् ॥ 6 ॥
दृष्ट्वादाशरथिर्लंकांचित्रध्वजपताकिनीम् ।
जगामसहसासीतांदूयमानेनचेतसा ॥ 7 ॥
अत्रसामृगशावाक्षीमत्कृतेजनकात्मजा ।
पीड्यतेशोकसंतप्ताकृशास्थंडिलशायिनी ॥ 8 ॥
पीड्यमानांसधर्मात्मावैदेहीमनुचिंतयन् ।
क्षिप्रमाज्ञापयामासवानरांद्विषतांवधे ॥ 9 ॥
एवमुक्तेतुवचनेरामेणाक्लिष्टकर्मणा ।
संघर्षमाणाःप्लवगाःसिम्हनादैरनादयन् ॥ 10 ॥
शिखरैर्विकिरामैनांलंकांमुष्टिभिरेववा ।
इतिस्मदधिरेसर्वेमनांसिहरियूथपाः ॥ 11 ॥
उद्यम्यगिरिशृंगाणिशिखराणिमहांतिच ।
तरूंश्चोत्पाट्यविविधांस्तिष्ठंतिहरियूथपाः ॥ 12 ॥
प्रेक्षतोराक्षसेंद्रस्यतान्यनीकानिभागशः ।
राघवप्रियकामार्थंलंकामारुरुहुस्तदा ॥ 13 ॥
तेताम्रवक्त्राहेमाभारामार्थेत्यक्तजीविताः ।
लंकामेवाभ्यवर्तंतसालतालशिलायुधाः ॥ 14 ॥
तेद्रुमैःपर्वताग्रैश्चमुष्टिभिश्चप्लवंगमाः ।
प्राकाराग्राण्यरण्यानिममंथुस्तोरणानिच ॥ 15 ॥
पारिखाःपूरयंतिस्मप्रसन्नसलिलायुताः ।
पांसुभिःपर्वताग्रैश्चतृणैःकाष्ठैश्चवानराः ॥ 16 ॥
ततःसहस्रयूथाश्चकोटीयूथाश्चवानराः ।
कोटीशतयुताश्चान्येलंकामारुरुहुस्तदा ॥ 17 ॥
कांचनानिप्रमृद्नंतस्तोरणानिप्लवंगमाः ।
कैलासशिखराभानिगोपुराणिप्रमथ्यच ॥ 18 ॥
आप्लवंतःप्लवंतश्चगर्जंतश्चप्लवंगमाः ।
लंकांतामभिधावंतिमहावारणसंनिभाः ॥ 19 ॥
जयत्यतिबलोरामोलक्ष्मणश्चमहाबलः ।
राजाजयतिसुग्रीवोराघवेणाभिपालितः ॥ 20 ॥
इत्येवंघोषयंतश्चगर्जंतश्चप्लवंगमाः ।
अभ्यधावंतलंकायाःप्राकारंकामरूपिणः ॥ 21 ॥
वीरबाहुःसुबाहुश्चनलश्चवनगोचरः ।
निपीड्योपनिविष्टास्तेप्राकारंहरियूथपाः ।
एतस्मिन्नंतरेचक्रुःस्कंधावारनिवेशनम् ॥ 22 ॥
पूर्वद्वारंतुकुमुदःकोटीभिर्दशभिर्वृतः ।
आवृत्यबलवांस्तस्थौहरिभिर्जितकाशिभिः ॥ 23 ॥
साहाय्यार्थंतुतस्यैवनिविष्टःप्रघसोहरिः ।
पनसश्चमहाबाहुर्वानरैर्बहुभिर्वृतः ॥ 24 ॥
दक्षिणंद्वारमागम्यवीरःशतबलिःकपिः ।
आवृत्यबलवांस्तस्थौविंशत्याकोटिभिर्वृतः ॥ 25 ॥
सुषेणःपश्चिमद्वारंगतस्तारापिताहरिः ।
आवृत्यबलवांस्तस्थौषष्टिकोटिभिरावृतः ॥ 26 ॥
उत्तरंद्वारमासाद्यरामःसौमित्रिणासह ।
आवृत्यबलवांस्तस्थौसुग्रीवश्चहरीश्वरः ॥ 27 ॥
गोलांगूलोमहाकायोगवाक्षोभीमदर्शनः ।
वृतःकोट्यामहावीर्यस्तस्थौरामस्यपार्श्वतः ॥ 28 ॥
ऋक्षाणांभीमवेगानांधूम्रःशत्रुनिबर्हणः ।
वृतःकोट्यामहावीर्यस्तस्थौरामस्यपार्श्वतः ॥ 29 ॥
सन्नद्धस्तुमहावीर्योगदापाणिर्विभीषणः ।
वृतोयस्तैस्तुसचिवैस्तस्थौतत्रमहाबलः ॥ 30 ॥
गजोगवाक्षोगवयःशरभोगंधमादनः ।
समंतात्परिधावंतोररक्षुर्हरिवाहिनीम् ॥ 31 ॥
ततःकोपपरीतात्मारावणोराक्षसेश्वरः ।
निर्याणंसर्वसैन्यानांद्रुतमाज्ञापयत्तदा ॥ 32 ॥
एतच्छ्रुत्वाततोवाक्यंरावणस्यमुखोद्गतम् ।
सहसाभीमनिर्घोषमुद्घुष्टंरजनीचरैः ॥ 33 ॥
ततःप्रचोदिताभेर्यश्चंद्रपांडरपुष्कराः ।
हेमकोणाहताभीमाराक्षसानांसमंततः ॥ 34 ॥
विनेदुश्चमहाघोषाःशंखाःशतसहस्रशः ।
राक्षसानांसुघोराणांमुखमारुतपूरिताः ॥ 35 ॥
तेबभुःशुभनीलांगाःसशंखारजनीचराः ।
विद्युन्मंडलसन्नद्धाःसबलाकाइवांबुदाः ॥ 36 ॥
निष्पतंतिततःसैन्याहृष्टारावणचोदिताः ।
समयेपूर्यमाणस्यवेगाइवमहोदधेः ॥ 37 ॥
ततोवानरसैन्येनमुक्तोनादःसमंततः ।
मलयःपूरितोयेनससानुप्रस्थकंदरः ॥ 38 ॥
शंखदुंदुभिसंघुष्टःसिम्हनादस्तरस्विनाम् ।
पृथिवींचांतरिक्षंचसागरंचैवनादयन् ॥ 39 ॥
गजानांबृंहितैःसार्धंहयानांहेषितैरपि ।
रथानांनेमिघोषैश्चरक्षसाम्वदनस्वनः ॥ 40 ॥
एतस्मिन्नंतरेघोरःसंग्रामःसमवर्तत ।
रक्षसांवानराणांचयथादेवासुरेपुरा ॥ 41 ॥
तेगदाभिःप्रदीप्ताभिःशक्तिशूलपरश्वधैः ।
निजघ्नुर्वानरान्घोराःकथयंतःस्वविक्रमान् ॥ 42 ॥
राजन् जय जयेत्युक्त्वा स्वस्वनामकथां ततः ।
राक्षसास्त्वपरे भीमाः प्राकारस्थामहीं गतान् ॥ 43 ॥
तथावृक्षैर्महाकायाःपर्वताग्रैश्चवानराः ।
निजघ्नुस्तानिरक्षांसिनखैर्दंतैश्चवेगिताः ॥ 44 ॥
राक्षसास्त्वपरेभीमाःप्राकारस्थामहीगतान् ।
भिंदिपालैश्चखड्गैश्चशूलैश्चैवव्यदारयन् ॥ 45 ॥
वानराश्चापिसंक्रुद्धाःप्राकारस्थान्महीगताः ।
राक्षसान्पातयामासुःसमाप्लुत्यप्लवंगमाः ॥ 46 ॥
ससंप्रहारस्तुमुलोमांसशोणितकर्दमः ।
रक्षसांवानराणांचसंबभूवाद्भुतोपमाः ॥ 47 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे द्विचत्वारिंशस्सर्गः ॥