View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

4.28 किष्किंधाकांड - अष्टाविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ अष्टाविंशस्सर्गः ।

स तदा वालिनं हत्वा सुग्रीवमभिषिच्य च ।
वसन्माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत् ॥ 1 ॥

अयं स कालस्संप्राप्तस्समयोऽद्य जलागमः ।
संपश्य त्वं नभो मेघैस्संवृतं गिरिसन्निभैः ॥ 2 ॥

नवमासधृतं गर्भं भास्करस्य गभस्तिभिः ।
पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् ॥ 3 ॥

शक्यमंबरमारुह्य मेघसोपानपंक्तिभिः ।
कुटजार्जुनमालाभिरलंकर्तुं दिवाकरम् ॥ 4 ॥

संध्यारागोत्थितैस्ताम्रैरंतेष्वधिक पांडरैः ।
स्निग्धैरभ्रपटच्छेदैर्बद्धव्रणमिवांबरम् ॥ 5 ॥

मंदमारुत निश्वासं संध्याचंदनरंजितम् ।
आपांडुजलदं भाति कामातुरमिवांबरम् ॥ 6 ॥

एषा घर्मपरिक्लिष्टा नववारिपरिप्लुता ।
सीतेव शोकसंतप्ता मही बाष्पं विमुंचति ॥ 7 ॥

मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः ।
शक्यमंजलिभिः पातुं वाताः केतकिगंधिनः ॥ 8 ॥

एष फुल्लार्जुनश्शैलः केतकैरधिवासितः ।
सुग्रीव इव शांतारिर्धाराभिरभिषिच्यते ॥ 9 ॥

मेघकृष्णाजिनधराः धारायज्ञोपवीतिनः ।
मारुतापूरितगुहाः प्राधीता इव पर्वताः ॥ 10 ॥

कशाभिरिव हैमीभिर्विद्युद्भिरिवताडितम् ।
अंतस्त्सतनिर्घोषं सवेदनमिवांबरम् ॥ 11 ॥

नीलमेघाश्रिता विद्युत्स्फुरंती प्रतिभाति मा ।
स्फुरंती रावणस्यांके वैदेहीव तपस्विनी ॥ 12 ॥

इमास्ता मन्मथवतां हिताः प्रतिहता दिशः ।
अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः ॥ 13 ॥

चिद्बाष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान् ।
कुटजान्पश्य सौमित्रे पुष्पितान्गिरिसानुषु ॥ 14 ॥

मम शोकाभिभूतस्य कामसंदीपनान् स्थितान् ।
रजः प्रशांतं सहिमोऽद्य वायु र्निदाघदोषप्रसराः प्रशांताः ।
स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यांति नरास्स्वदेशान् ॥ 15 ॥

संप्रस्थिता मानसवासलुब्धाः प्रियान्विताः संप्रति चक्रवाकाः ।
अभीक्ष्णवर्षोदकविक्षतेषु यानानि मार्गेषु न संपतंति ॥ 16 ॥

क्वचित्प्रकाशं क्वचिदप्रकाशं नभः प्रकीर्णांबुधरं विभाति ।
क्वचित्क्वचित्पर्वतसन्निरुद्धं रूपं यथा शांतमहार्णवस्य ॥ 17 ॥

व्यामिश्रितं सार्जकदंबपुष्पै र्नवं जलं पर्वतधातुताम्रम् ।
मयूरकेकाभिरनुप्रयातं शैलापगाश्शीघ्रतरं वहंति ॥ 18 ॥

रसाकुलं षट्पदसन्निकाशं प्रभुज्यते जंबुफलं प्रकामम् ।
अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलं विपक्वम् ॥ 19 ॥

विद्युत्पताकास्सबलाकमालाः शैलेंद्रकूटाकृतिसन्निकाशाः ।
गर्जंति मेघाः समुदीर्णनादाः मत्ता गजेंद्रा इव संयुगस्थाः ॥ 20 ॥

वर्षोदकाप्यायितशाद्वलानि प्रवृत्तनृत्तोत्सवबर्हिणानि ।
वनानि निर्वृष्टवलाहकानि पश्यापराह्णेष्वधिकं विभांति ॥ 21 ॥

समुद्वहंत स्सलिलातिभारं बलाकिनो वारिधरा नदंतः ।
महत्सु शृंगेषु महीधराणां विश्रम्य विश्रम्य पुनः प्रयांति ॥ 22 ॥

मेघाभिकामा परिसंपतंती सम्मोदिता भाति बलाकपंक्तिः ।
वातावधूता वरपौंडरीकी लंबेव माला रचितांबरस्य ॥ 23 ॥

बालेंद्रगोपांतरचित्रितेन विभाति भूमिर्नवशाद्वलेन ।
गात्रानुपृक्तेन शुकप्रभेण नारीव लाक्षोक्षितकंबलेन ॥ 24 ॥

निद्रा शनैः केशवमभ्युपैति द्रुतं नदी सागरमभ्युपैति ।
हृष्टा बलाका घनमभ्युपैति कांता सकामा प्रियमभ्युपैति ॥ 25 ॥

जाता वनांताश्शिखिसंप्रनृत्ता जाताः कदंबाः सकदंबशाखाः ।
जाता वृषा गोषु समानकामा जाता मही सस्यवनाभिरामा ॥ 26 ॥

वहंति वर्षंति नदंति भांति ध्यायंति नृत्यंति समाश्वसंति ।
नद्यो घना मत्तगजा वनांताः प्रियाविहीनाश्शिखिनः प्लवंगमाः ॥ 27 ॥

प्रहर्षिताः केतकपुष्पगंध माघ्राय हृष्टा वननिर्झरेषु ।
प्रपातशब्दाकुलिता गजेंद्रा स्सार्धं मयूरै स्समदा नदंति ॥ 28 ॥

धारानिपातैरभिहन्यमानाः कदंबशाखासु विलंबमानाः ।
क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजंति ॥ 29 ॥

अंगारचूर्णोत्करसन्निकाशैः फलैस्सुपर्याप्तरसैस्समृद्धैः ।
जंबूद्रुमाणां प्रविभांति शाखाः निलीयमाना इव षट्पदौघैः ॥ 30 ॥

तटित्पताकाभिरलंकृताना मुदीर्णगंभीरमहारवाणाम् ।
विभांति रूपाणि बलाहकानां रणोद्यतानामिव वानरणानाम् ॥ 31 ॥

मार्गानुगश्शैलवनानुसारी संप्रस्थितो मेघरवं निशम्य ।
युद्धाभिकामः प्रतिनादशंकी मत्तो गजेंद्रः प्रतिसन्निवृत्तः ॥ 32 ॥

क्वचित्प्रगीता इव षट्पदौघैः क्वचित्प्रनृत्ता इव नीलकंठैः ।
क्वचित्प्रमत्ता इव वारणेंद्रै र्विभांत्यनेकाश्रयिणो वनांताः ॥ 33 ॥

कदंबसर्जार्जुनकंदलाढ्या वनांतभूमिर्नववारिपूर्णा ।
मयूरमत्ताभिरुतप्रनृत्तै रापानभूमिप्रतिमा विभाति ॥ 34 ॥

मुक्तासकाशं सलिलं पतद्वै सुनिर्मलं पत्रपुटेषु लग्नम् ।
हृष्टा विवर्णच्छदना विहंगा स्सुरेंद्रदत्तं तृषिताः पिबंति ॥ 35 ॥

षट्पादतंत्रीमधुराभिधानं प्लवंगमोदीरितकंठतालम् ।
आविष्कृतं मेघमृदंगनादै र्वनेषु संगीतमिव प्रवृत्तम् ॥ 36 ॥

क्वचित्प्रनृत्तैः क्वचिदुन्नदद्भिः क्वचिच्च वृक्षाग्रनिषण्णकायैः ।
व्यालंबबर्हाभरणैर्मयूरै र्वनेषु संगीतमिव प्रवृत्तम् ॥ 37 ॥

स्वनैर्घनानां प्लवगाः प्रबुद्धाः विहाय निद्रां चिरसन्निरुद्धाम् ।
अनेकरूपाकृतिवर्णनादाः नवांबुधाराभिहता नदंति ॥ 38 ॥

नद्यस्समुद्वाहितचक्रवाका स्तटानि शीर्णान्यपवाहयित्वा ।
दृप्ता नवप्राभृतपूर्णभोगाः द्रुतं स्वभर्तारमुपोपयांति ॥ 39 ॥

नीलेषु नीलाः प्रविभांति सक्ताः मेघेषु मेघा नववारिपूर्णाः ।
दवाग्निदग्धेषु दवाग्निदग्धा श्शैलेषु शैला इव बद्धमूलाः ॥ 40 ॥

प्रहृष्टसन्नादितबर्हिणानि सशक्रगोपाकुलशाद्वलानि ।
चरंति नीपार्जुनवासितानि गजास्सुरम्याणि वनांतराणि ॥ 41 ॥

नवांबुधाराहतकेसराणि द्रुतं परित्यज्य सरोरुहाणि ।
कदंबपुष्पाणि सकेसराणि नवानि हृष्टा भ्रमराः पतंतिः ॥ 42 ॥

मत्ता गजेंद्रा मुदिता गवेंद्रा वनेषु विश्रांततरा मृगेंद्रा ।
रम्या नगेंद्रा निभृता नरेंद्राः प्रक्रीडितो वारिधरैस्सुरेंद्रः ॥ 43 ॥

मेघास्समुद्धूतसमुद्रनादाः महाजलौघैर्गगनावलंबाः ।
नदीस्तटाकानि सरांसि वापी र्महीं च कृत्स्नामपवाहयंति ॥ 44 ॥

वर्षप्रवेगा विपुलाः पतंति प्रवांति वातास्समुदीर्णघोषाः ।
प्रणष्टकूलाः प्रवहंति शीघ्रं नद्योजलैर्विप्रतिपन्नमार्गाः ॥ 45 ॥

नरैर्नरेंद्रा इव पर्वतेंद्रा स्सुरेंद्रदत्तैः पवनोपनीतैः ।
घनांबुकुंभैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयंति ॥ 46 ॥

घनोपगूढं गगनं सतारं न भास्करो दर्शनमभ्युपैति ।
नवैर्जलौघैर्धरणी विसृप्ता तमो विलिप्ता न दिशः प्रकाशाः ॥ 47 ॥

महांति कूटानि महीधराणां धाराभिधौतान्यधिकं विभांति ।
महाप्रमाणैर्विपुलैः प्रपातै र्मुक्ताकलापैरिव लंबमानैः ॥ 48 ॥

शैलोपलप्रस्खलमानवेगा श्शैलोत्तमानां विपुलाः प्रपाताः ।
गुहासु सन्नादितबर्हिणासु हारा विकीर्यंत इवावभांति ॥ 49 ॥

शीघ्रप्रवेगा विपुलाः प्रपाताः निर्धौतशृंगोपतला गिरीणाम् ।
मुक्ताकलापप्रतिमाः पतंतो महागुहोत्संगतलैर्ध्रियंते ॥ 50 ॥

सुरतामर्दविच्छिन्नास्स्वर्गस्त्रीहारमौक्तिकाः ।
पतंति चातुला दिक्षु तोयधारास्समंततः ॥ 51 ॥

निलीयमानैर्विहगैर्निमीलद्भिश्च पंकजैः ।
विकसंत्या च मालत्या गतोऽस्तं ज्ञायते रविः ॥ 52 ॥

वृत्ता यात्रा नरेंद्राणां सेना प्रतिनिवर्तते ।
वैराणि चैव मार्गाश्च सलिलेन समीकृताः ॥ 53 ॥

मासि प्रोष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम् ।
अयमध्यायसमयस्सामगानामुपस्थितः ॥ 54 ॥

निवृत्तकर्मायतनो नूनं संचितसंचयः ।
आषाढीमभ्युपगतो भरतः कोसलाधिपः ॥ 55 ॥

नूनमापूर्यमाणायास्सर्वव्या वर्धते रयः ।
मां समीक्ष्य समायांतमयोध्याया इव स्वनः ॥ 56 ॥

इमास्फीतगुणा वर्षास्सुग्रीवस्सुखमश्नुते ।
विजितारिः सदारश्च राज्ये महति च स्थितः ॥ 57 ॥

अहं तु हृतदारश्च राज्याच्य महतश्च्युतः ।
नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण ॥ 58 ॥

शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः ।
रावणश्च महान् शत्रुरपारं प्रतिभाति मे ॥ 59 ॥

अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान् ।
प्रणते चैव सुग्रीवे न मया किंचिदीरितम् ॥ 60 ॥

अपि चातिपरिक्लिष्टं चिराद्दारैस्समागतम् ।
आत्मकार्यगरीयस्त्वाद्वक्तुं नेच्छामि वानरम् ॥ 61 ॥

स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम् ।
उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः ॥ 62 ॥

तस्मात्कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण ।
सुग्रीवस्य नदीनां च प्रसादममनुपालयन् ॥ 63 ॥

उपकारेण वीरस्तु प्रतीकारेण युज्यते ।
अकृतज्ञोऽप्रतिकृतो हंति सत्त्ववतां मनः ॥ 64 ॥

अथैवमुक्तः प्रणिधाय लक्ष्मणः कृतांजलिस्तत्प्रतिपूज्य भाषितम् ।
उवाच रामं स्वभिरामदर्शनं प्रदर्शयंदर्शनमात्मनश्शुभम् ॥ 65 ॥

यथोक्तमेतत्तव सर्वमीप्सितं नरेंद्र कर्ता नचिराद्धरीश्वरः ।
शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः ॥ 66 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे अष्टाविंशस्सर्गः ॥




Browse Related Categories: