View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

2.97 अयोध्याकांड - सप्तनवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ सप्तनवतितमस्सर्गः ।

सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम् ।
रामस्तु परिसांत्व्याथ वचनं चेदमब्रवीत् ॥ 1 ॥

किमत्र धनुषा कार्यमसिना वा सचर्मणा ।
महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ 2 ॥

पितुस्सत्यं प्रतिश्रुत्य हत्वा भरतमागतम् ।
किं करिष्यामि राज्येन सापवादेन लक्ष्मण ॥ 3 ॥

यद्द्रव्यं बांधवानां वा मित्राणां वा क्षये भवेत् ।
नाहं तत्प्रतिगृह्णीयां भक्षान्विषकृतानिव ॥ 4 ॥

धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण ।
इच्छामि भवतामर्थे एतत् प्रतिशृणोमि ते ॥ 5 ॥

भ्रात्रूणां संग्रहार्थं च सुखार्थं चापि लक्ष्मण ।
राज्यमप्यहमिच्छामि सत्येनाऽयुधमालभे ॥ 6 ॥

नेयं मम मही सौम्य दुर्लभा सागरांबरा ।
न हीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ॥ 7 ॥

यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद ।
भवेन्मम सुखं किंचिद्भस्म तत्कुरुतां शिखी ॥ 8 ॥

मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः ।
मम प्राणात्प्रियतरः कुलधर्ममनुस्मरन् ॥ 9 ॥

श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम् ।
जानक्यासहितं वीर त्वया च पुरुषर्षभ ॥ 10 ॥

स्नेहेनाऽक्रांतहृदय श्शोकेनाकुलितेंद्रियः ।
द्रष्टुमभ्यागतो ह्येष भरतो नान्यथाऽगतः ॥ 11 ॥

अंबां च कैकयीं रुष्य परुषं चाप्रियं वदन् ।
प्रसाद्य पितरं श्रीमार्नाज्यं मे दातुमागतः ॥ 12 ॥

प्राप्तकालं यदेषोऽस्मान्भरतो द्रष्टुमिच्छति ।
अस्मासु मनसाऽप्येष नाप्रियं किंचिदाचरेत् ॥ 13 ॥

विप्रियं कृतपूर्वं ते भरतेन कदा नु किम् ।
ईदृशं वा भयं तेऽद्य भरतं योऽत्र शंकसे ॥ 14 ॥

न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः ।
अहं ह्यप्रियमुक्त स्स्यां भरतस्याप्रिये कृते ॥ 15 ॥

कथं नु पुत्राः पितरं हन्युः कस्यां चिदापदि ।
भ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मनः ॥ 16 ॥

यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे ।
वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥ 17 ॥

उच्यमानोऽपि भरतो मया लक्ष्मण तद्वचः ।
राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ॥ 18 ॥

तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः ।
लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया ॥ 19 ॥

तद्वाक्यं लक्ष्मण श्श्रुत्वा व्रीलितः प्रत्युवाच ह ।
त्वां मन्ये द्रष्टुमायातः पिता दशरथ स्स्वयम् ॥ 20 ॥

व्रीलितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह ।
एष मन्ये महाबाहुरिहास्मांद्रष्टुमागतः ॥ 21 ॥

अथवा नौ ध्रुवं मन्ये मन्यमान स्सुखोचितौ ।
वनवासमनुध्याय गृहाय प्रतिनेष्यति ॥ 22 ॥

इमां वाप्येष वैदेहीमत्यंतसुखसेविनीम् ।
पिता मे राघव श्श्रीमान्वनादादाय यास्यति ॥ 23 ॥

एतौ तौ संप्रकाशेते गोत्रवंतौ मनोरमौ ।
वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥ 24 ॥

स एष सुमहाकायः कंपते वाहिनीमुखे ।
नागश्शत्रुंजयो नाम वृद्धस्तातस्य धीमतः ॥ 25 ॥

न तु पश्यामि तच्छत्रं पांडुरं लोकसत्कृतम् । पितुर्दिव्यं महाबाहो संशयो भवतीह मे ॥ 26 ॥

वृक्षाग्रादवरोह त्वं कुरु लक्ष्मण मद्वचः ।
इतीव रामो धर्मात्मा सौमित्रिं तमुवाच ह ॥ 27 ॥

अवतीर्य तु सालाग्रात्तस्मात्स समितिंजयः ।
लक्ष्मणः प्रांजलिर्भूत्वा तस्थौ रामस्य पार्श्वतः ॥ 28 ॥

भरतेनापि संदिष्टा सम्मर्दो न भवेदिति ।
समंतात्तस्य शैलस्य सेना वासमकल्पयत् ॥ 29 ॥

अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा ।
पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ॥ 30 ॥

सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्पम् ।
प्रसादनार्थं रघुनंदनस्य विराजते नीतिमता प्रणीता ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे सप्तनवतितमस्सर्गः ॥




Browse Related Categories: