View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

2.51 अयोध्याकांड - एकपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकपंचाशस्सर्गः ।

तं जाग्रतमदंभेन भ्रातुरर्थाय लक्ष्मणम् ।
गुहः संतापसंतप्तो राघवं वाक्यमब्रवीत् ॥ 1 ॥

इयं तात सुखा शय्या त्वदर्थमुपकल्पिता ।
प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम् ॥ 2 ॥

उचितोऽयं जनस्सर्वः क्लेशानां त्वं सुखोचितः ।
गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम् ॥ 3 ॥

न हि रामात्प्रियतमो ममास्ति भुवि कश्चन ।
ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे ॥ 4 ॥

अस्य प्रसादादाशंसे लोकेस्मिन् सुमुहद्यशः ।
धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलम् ॥ 5 ॥

सोऽहं प्रियसखं रामं शयानं सह सीतया ।
रक्षिष्यामि धनुष्पाणि स्सर्वतो ज्ञातिभि स्सह ॥ 6 ॥

न हि मेऽविदितं किंचिद्वनेऽस्मिंश्चरतस्सदा ।
चतुरंगं ह्यपिबलं सुमहत्प्रसहेमहि ॥ 7 ॥

लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयानघ ।
नात्र भीता वयं सर्वे धर्ममेवानुपश्यता ॥ 8 ॥

कथं दशरथौ भूमौ शयाने सह सीतया ।
शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥ 9 ॥

यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि ।
तं पश्य सुखसंविष्टं तृणेषु सह सीतया ॥ 10 ॥

यो मंत्रतपसा लब्धो विविधैश्च पराश्रमैः ।
एको दशरथस्येष्टः पुत्रः सदृशलक्षणः ॥ 11 ॥

अस्मिन् प्रव्राजिते राजा न चिरं वर्तयिष्यति ।
विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ 12 ॥

विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः ।
निर्घोषोपरतं चातो मन्ये राजनिवेशनम् ॥ 13 ॥

कौशल्या चैव राजा च तथैव जननी मम ।
नाशंसे यदि जीवंति सर्वे ते शर्वरीमिमाम् ॥ 14 ॥

जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया ।
तद्दुःखं यत्तु कौशल्या वीरसूर्विनशिष्यति ॥ 15 ॥

अनुरक्तजनाकीर्णा सुखालोकप्रियावहा ।
राजव्यसनसंसृष्टा सा पुरी विनशिष्यति ॥ 16 ॥

कथं पुत्रं महात्मानं ज्येष्ठं प्रियमपश्यतः ।
शरीरं धारयिष्यंति प्राणा राज्ञो महात्मनः ॥ 17 ॥

विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति ।
अनंतरं च माताऽपि मम नाशमुपैष्यति ॥ 18 ॥

अतिक्रांतमतिक्रांतमनवाप्य मनोरथम् ।
राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ 19 ॥

सिद्धार्थाः पितरं वृत्तं तस्मिन्कालेऽप्युपस्थिते ।
प्रेतकार्येषु सर्वेषु संस्करिष्यंति भूमिपम् ॥ 20 ॥

रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् ।
हर्म्यप्रासादसंपन्नां गणिकावरशोभिताम् ॥ 21 ॥

रथाश्वगजसंबाधां तूर्यनादविनादिताम् ।
सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् ॥ 22 ॥

आरामोद्यानसंपन्नां समाजोत्सवशालिनीम् ।
सुखिता विचरिष्यंति राजधानीं पितुर्मम ॥ 23 ॥

अपि जीवेद्दशरथो वनवासात्पुनर्वयम् ।
प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥ 24 ॥

अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् ।
निवृत्ते वनवासेऽस्मिन्नयोध्यां प्रविशेमहि ॥ 25 ॥

परिदेवयमानस्य दुखार्तस्य महात्मनः ।
तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्तत ॥ 26 ॥

तथा हि सत्यं ब्रुवति प्रजाहिते नरेंद्रपुत्रे गुरुसौहृदाद्गुहः ।
मुमोच बाष्पं व्यसनाभिपीडितो ज्वरातुरो नाग इव व्यथातुरः ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकपंचाशस्सर्गः ॥




Browse Related Categories: