View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

2.43 अयोध्याकांड - त्रिचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ त्रिचत्वारिंशस्सर्गः ।

ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् ।
कौशल्या पुत्रशोकार्ता तमुवाच महीपतिम् ॥ 1 ॥

राघवे नरशार्दूले विषमुप्त्वाहिजिह्मगा ।
विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ॥ 2 ॥

विवास्य रामं सुभगा लब्धकामा समाहिता ।
त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ॥ 3 ॥

अथ स्म नगरे रामश्चरन् भैक्षं गृहे वसेत् ।
कामकारो वरं दातुमपि दासं ममात्मजम् ॥ 4 ॥

पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः ।
प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना ॥ 5 ॥

गजराजगतिर्वीरो महाबाहुर्धनुर्धरः ।
वनमाविशते नूनं सभार्य स्सह लक्ष्मणः ॥ 6 ॥

वने त्वदृष्टदुःखानां केकय्यानुमते त्वया ।
त्यक्तानां वनवासाय कान्ववस्था भविष्यति ॥ 7 ॥

ते रत्नहीनास्तरुणाः फलकाले विवासिताः ।
कथं वत्स्यंति कृपणाः फलमूलैः कृताशनाः ॥ 8 ॥

अपीदानीं स कालस्स्यान्मम शोकक्षय श्शिवः ।
सभार्यं यत्सह भ्रात्रा पश्येयमिह राघवम् ॥ 9 ॥

श्रृत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति ।
यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी ॥ 10 ॥

कदा प्रेक्ष्य नरव्याघ्रावरण्यात्पुनरागतौ ।
नंदिष्यति पुरी हृष्टा समुद्र इव पर्वणि ॥ 11 ॥

कदाऽयोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति ।
पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥ 12 ॥

कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ ।
लाजैरवकिरिष्यंति प्रविशंतावरिंदमौ ॥ 13 ॥

प्रविशंतौ कदाऽयोध्यां द्रक्ष्यामि शुभकुंडलौ ।
उदग्रायुधनिस्त्रिंशौ सश्रृंगाविव पर्वतौ ॥ 14 ॥

कदासुमनसः कन्याद्विजातीनां फलानि च ।
प्रदिशंतः पुरीं हृष्टाः करिष्यंति प्रदक्षिणम् ॥ 15 ॥

कदा परिणतो बुद्ध्या वयसा चामरप्रभः ।
अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव मां ललन् ॥ 16 ॥

निस्संशयं मया मन्ये पुरा वीर कदर्यया ।
पातुकामेषु वत्सेषु मातृणां शातितास्स्तनाः ॥ 17 ॥

साहं गौरिव सिंहेन विवत्सा वत्सला कृता ।
कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात् ॥ 18 ॥

न हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम् ।
एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे ॥ 19 ॥

न हि मे जीविते किंचित्सामर्थ्यमिह कल्प्यते ।
अपश्यंत्याः प्रियं पुत्रं महाबाहुं महाबलम् ॥ 20 ॥

अयं हि मां दीपयते समुत्थितः तनूजशोकप्रभवो हुताशनः ।
महीमिमां रश्मिभिरुद्धतप्रभः यथा निदाघे भगवान् दिवाकरः ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे त्रिचत्वारिंशस्सर्गः ॥




Browse Related Categories: