View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.11 युद्धकांड - एकादश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकादशस्सर्गः ।

सबभूवकृशोराजामैथिलीकाममोहितः ।
असन्मानाच्चसुहृदांपापंपापेनकर्मणा ॥ 1 ॥

अतीतसमयेकालेतस्मिन्वैयुधिरावणः ।
अमात्यैश्चसुहृद्भिश्चप्राप्तकालममन्यत ॥ 2 ॥

सहेमजालविततंमणिविद्रुमभूषितम् ।
उपगम्यविनीताश्वमारुरोहमहारथम् ॥ 3 ॥

तमास्थायरथश्रेष्ठंमहामेघसमस्वनम् ।
प्रययौरक्षसांश्रेष्ठोदशग्रीवस्सभांप्रति ॥ 4 ॥

असिचर्मधरायोधास्सर्वायुधधरास्ततः ।
राक्षसाराक्षसेंद्रस्यपुरस्तात्संप्रतस्थिरे ॥ 5 ॥

नानाविकृतवेषाश्चनानाभूषणभूषिताः ।
पार्श्वतस्पृष्ठतश्चैनंपरिवार्यययुस्ततः ॥ 6 ॥

रथैश्चातिरथाश्शीघ्रंमत्तैश्चवरवारणैः ।
अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्चवाजिभिः ॥ 7 ॥

गदापरिघहस्ताश्चशक्तितोमरपाणयः ।
परश्वथधराश्चान्येतथाऽन्येशूलपाणयः ॥ 8 ॥

ततस्तूर्यसहस्राणांसंजज्ञेनिस्स्वनोमहान् ।
तुमुलश्शंखशब्दश्चसभांगच्छतिरावणे ॥ 9 ॥

सनेमिघोषेणमहान्सहसाऽभिनिनादयन् ।
राजमार्गंश्रियाजुष्टंप्रतिपेदेमहारथः ॥ 10 ॥

विमलंचातपत्राणांप्रगृहीतमशोभत ।
पांडुरंराक्षसेंद्रस्यपूर्णस्ताराधिपोयथा ॥ 11 ॥

हेममंजरिगर्भेचशुद्धस्फटिकविग्रहे ।
चामरव्यजनेतस्यरेजतुस्सव्यदक्षिणे ॥ 12 ॥

तेकृतांजलयस्सर्वेरथस्थंपृथिवीस्थिताः ।
राक्षसाराक्षसश्रेष्ठंशिरोभिस्तंववंदिरे ॥ 13 ॥

राक्षसैस्त्सूयमानस्संजयाशीर्भिररिंदमः ।
आससादमहातेजास्सभांविरचितांतदा ॥ 14 ॥

सुवर्णरजतास्तीर्णांविशुद्धस्फटिकांतराम् ।
विराजमानोवपुषारुक्मपट्टोत्तरच्छदाम् ॥ 15 ॥

तांपिशाचशतैः षङ्भिरभिगुप्तांसदाप्रभाम् ।
प्रविवेशमहातेजास्सुकृतांविश्वकर्मणा ॥ 16 ॥

तस्यांसवैडूर्यमयंप्रियकाजिनसम्वृतम् ।
महत्सोपाश्रयंभेजेरावणःपरमासनम् ॥ 17 ॥

ततः शशासेश्वरवद्दूतान्लघुपराक्रमान् ।
समानयतमेक्षिप्रमिहैतान्राक्षसानिति ।
कृत्यमस्तिमहज्जानेकर्तव्यमितिशत्रुभिः ॥ 18 ॥

राक्षसास्तद्वचश्श्रुत्वालंकायांपरिचक्रमुः ॥ 19 ॥

अनुगेहमवस्थायविहारशयनेषुच ।
उद्यानेषुचरक्षांसिचोदयंतोह्यभीतवत् ॥ 20 ॥

तेरथान् रुचिरानेकेदृप्तानेकेपृथग्घयान् ।
नागानेकेऽधिरुरुहुर्जग्मुश्चैकेपदातयः ॥ 21 ॥

सापुरीपरमाकीर्णारथकुंजरवाजिभिः ।
संपतद्भिर्विरुरुचेगरुत्मद्भिरिवांबरम् ॥ 22 ॥

तेवाहनाव्यवस्थाप्ययानानिविविधानिच ।
सभांपद्भिःप्रविविशुस्सिंहागिरिगुहामिव ॥ 23 ॥

राज्ञःपादौगृहीत्वातुराज्ञातेप्रतिपूजिताः ।
पीठेष्वन्येबृसीष्वन्येभूमौकेचिदुपाविशन् ॥ 24 ॥

तेसमेत्यसभायांवैराक्षसाराजशासनात् ।
यथार्हमुपतस्थुस्तेरावणंराक्षसाधिपम् ॥ 25 ॥

मंत्रिणश्चयथामुख्यानिश्चयार्थेषुपंडिताः ।
अमात्याश्चगुणोपेतास्सर्वज्ञाबुद्धिदर्शनाः ॥ 26 ॥

समीयुस्तत्रशतशशूराश्चबहवस्तदा ।
सभायांहेमवर्णायांसर्वार्थस्यसुखायवै ॥ 27 ॥

ततोमहात्माविपुलंसुयुग्यंरथम्वरंहेमविचित्रितांगम् ।
शुभंसमास्थायययौयशस्वीविभीषणस्संसदमग्रजस्य ॥ 28 ॥

सपूर्वजायावरजश्शशंसनामाथपश्चाश्चरणौववंदे ।
शुकःप्रहस्तश्चतथैवतेभ्योददौयथार्हंपृथगासनानि ॥ 29 ॥

सुवर्णनानामणिभूषणानांसुवाससांसंसदिराक्षसानाम् ।
तेषांपरार्घ्यागुरुचंदनानांस्रजाश्चगंधाःप्रववुस्समंतात् ॥ 30 ॥

नचुक्रुशुर्नानृतमाहकश्चित्सभापदोनापिजजल्पुरुच्चैः ।
संसिद्धार्थास्सर्वएवोग्रवीर्याभर्तुस्सर्वेददृशुश्चाननंते ॥ 31 ॥

सरावणश्शस्त्रभृतांमनस्विनांमहाबलानांसमितौमनस्वी ।
तस्यांसभायांप्रभयाचकाशेमध्येवसूनामिववज्रहस्तेः ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकादशस्सर्गः ॥




Browse Related Categories: