श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकोनचत्वारिंशस्सर्गः ।
तांरात्रिमुषितास्तत्रसुवेलेहरिपुंगवाः ।
लंकायांददृशुर्वीरावनान्युपवनानिच ॥ 1 ॥
समसौम्यानिरम्याणिविशालान्यायतानिच ।
दृष्टिरम्याणितेदृष्टवाबभूवुर्जातविस्मयाः ॥ 2 ॥
चंपकाशोकपुन्नागसालतालसमाकुला ।
तमालवनसंछन्नानागमालासमावृता ॥ 3 ॥
हिंतालैरर्जुनैर्नीपैस्सप्तपर्णैश्चपुष्पितैः ।
तिलकैःकर्णिकारैश्चपाटलैश्चसमंततः ॥ 4 ॥
शुशुभेपुष्पिताग्रैश्चलतापरिगतैर्द्रुमैः ।
लंकाबहुविधैर्दिव्यैर्यथेंद्रस्यामरावती ॥ 5 ॥
विचित्रकुसुमोपेतैरक्तकोमलपल्लवैः ।
शाद्वलैश्चतथानीपैश्चित्राभिर्वनराजिभिः ॥ 6 ॥
गंधाढ्यान्यभिरम्याणिपुष्पाणिचफलानिच ।
धारयंत्यगमास्तत्रभूषणानीवमानवाः ॥ 7 ॥
तच्चैत्ररथसंकाशंमनोज्ञंनंदनोपमम् ।
वनंसर्वरर्तुकंरम्यंशुशुभेषटपदायुतम् ॥ 8 ॥
नत्यूहकोयष्टिमकैर्नृत्यमानैश्चबर्हिभि ।
रुतंपरभृतानांचशुश्रुवुर्वन्निर्झरे ॥ 9 ॥
नित्यमत्तविहंगानिभ्रमराचरितानिच ।
कोकिलाकुलषंडानिविहगाभिरुतानिच ॥ 10 ॥
भृंगराजाभिगीतानिभ्रमरैस्सेवितानिच ।
कोणालकविघुष्टानिसारसाभिरुतानिच ॥ 11 ॥
विविशुस्तेततस्तानिवनान्युपवनानिच ।
हृष्टाःप्रमुदितावीराहरयःकामरूपिणः ॥ 12 ॥
तेषांप्रविशतांतत्रवानराणांमहौजसाम् ।
पुष्पसंसर्गसुरभिर्ववौघ्राणसुखोऽनिलः ॥ 13 ॥
अन्येतुहरिवीराणांयूथान्निष्क्रम्ययूथपाः ।
सुग्रीवेणाभ्यनुज्ञातालंकांजग्मुःपताकिनीम् ॥ 14 ॥
वित्रासयंतोविहगांस्त्रासयंतोमृगद्विपान् ।
कंपयंतश्चतांलंकांनादैस्तेनदतांवराः ॥ 15 ॥
कुर्वंतस्तेमहावेगामहींचरणपीडिताम् ।
रजश्चसहसैवोर्थ्वंजगामचरणोत्थितम् ॥ 16 ॥
ऋक्षास्सिंहावराहाश्चमहिषावारणामृगाः ।
तेनशब्देनवित्रस्ताजग्मुर्भीतादिशोदश ॥ 17 ॥
शिखरंतत्त्रिकूटस्यप्रांशुचैकंदिविस्पृशम् ।
समंतात्पुष्पसंंछन्नंमहारजतसन्निभम् ॥ 18 ॥
शतयोजनविस्तीर्णंविमलंचारुदर्शनम् ।
श्लक्ष्णंश्रीमन्महच्छैवदुष्प्रापंशकुनैरपि ॥ 19 ॥
मनसाऽपिदुरारोहंकिंपुनःकर्मणाजनैः ।
निविष्टातत्रशिखरेलंकारावणपालिता ॥ 20 ॥
शतयोजनविस्तीर्णात्रिंशद्योजनमायता ।
सापुरीगोपुरैरुच्चैःपांडुरांबुदसन्निभैः ।
कांचनेनचशालेनराजतेनचशोभते ॥ 21 ॥
प्रासादैश्चविमानैश्चलंकापरमभूषिता ।
घनैरिवाऽतपापायेमध्यमंवैष्णवंपदम् ॥ 22 ॥
यस्यांस्तंभसहस्रेणप्रासादस्समलंकृतः ।
कैलासशिखराकारोदृश्यतेखमिवोललिखन् ॥ 23 ॥
चैत्यस्सराक्षसेंद्रस्यबभूवपुरभूषणम् ।
शतेनरक्षसांनित्यंयस्समग्रेणरक्ष्यते ॥ 24 ॥
मनोज्ञां कांचनवतीं सर्वतैरुपशोभिताम् ।
नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ॥ 25 ॥
नानाविहंगासंघुष्टांनानामृगनिषेविताम् ।
नानाकुसुमसंछन्नांनानाराक्षससेविताम् ॥ 26 ॥
तांसमृद्धांसमृद्धार्धांलक्ष्मीनान्लक्ष्मणाग्रजः ।
रावणस्यपुरींरामोददर्शसहवानरैः ॥ 27 ॥
तांमहागृहसंबाधांदृष्टवालक्ष्मणपूर्वजः ।
नगरीममरप्रख्योविस्मयंप्राप्यवीर्यवान् ॥ 28 ॥
तांरत्नपूर्णांबहुसंविधानांप्रासादमालाभिरलंकृतांच ।
पुरींमहायंत्रकवाटमुख्यांददर्शरामोमहताबलेन ॥ 29 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकोनचत्वारिंशस्सर्गः ॥