View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.71 युद्धकांड - एकसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकसप्ततितमस्सर्गः ।

स्वबलंव्यथितंदृष्टवातुमुलंरोमहर्षणम् ।
भ्रातृंश्चनिहतान् दृष्टवाशक्रतुल्यपराक्रमान् ॥ 1 ॥

पितृव्यौचापिसनृदृश्यसमरेसन्निघादितौ ।
युद्धोन्मत्तं च मत्तं च भ्रातरौराक्षसर्षभौ ॥ 2 ॥

चुकोप च महातेजाब्रह्मदत्तवरोयुधि ।
अतिकायोऽद्रिसंकाशोदेवदानवदर्पहा ॥ 3 ॥

स भास्करसहस्रस्यसंघातमिवभास्वरम् ।
रथमास्थायशक्रारिरभिदुद्राववानरान् ॥ 4 ॥

स विस्फार्यमहाचापंकिरीटीमृष्टकुंडलः ।
नामविश्रावयामासननाद च महास्वनम् ॥ 5 ॥

तेनसिंहप्रणादेननामविश्रावणेन च ।
ज्याशब्देन च भीमेनत्रासयामासवानरान् ॥ 6 ॥

तेदृष्टवादेहमाहात्म्यंकुंभकर्णोऽयमुथतितः ।
भयार्तावानरास्सर्वेसंश्रयंतेपरस्परम् ॥ 7 ॥

तेतस्यरूपमालोक्ययथाविष्टोस्त्रिविक्रमे ।
भयाद्वानरयूधास्तेविद्रवंतिततस्ततः ॥ 8 ॥

तेऽतिकायंसमासाद्यवानरामूढचेतसः ।
शरण्यंशरणंजग्मुर्लक्ष्मणाग्रजमाहवे ॥ 9 ॥

तोऽतिकायंकाकुत्स्थोरथस्थंपर्वतोपमम् ।
ददर्शधवनिनंदूराद्गर्जंतंकालमेघवत् ॥ 10 ॥

स तंदृष्टवामहात्मानंराघवस्तुविसिस्मिये ।
वानरान् सांत्वयित्वा च विभीषणमुवाच ह ॥ 11 ॥

कोऽसौपर्वतसंकाशोधनुष्मान्हरिलोचनः ।
युक्तेहयसहस्रेणविशालेस्यंदनेस्थितः ॥ 12 ॥

य एषनिशितैश्शूलैस्सुतीक्णैःप्रासमुद्गरैः ।
अर्चिष्मद्भिर्वृतोभातिभूतैरिवमहेश्वरः ॥ 13 ॥

कालजिह्वाप्रकाशाभिर्यएषोऽतिविराजते ।
आवृतोरथशक्तीभिर्विद्युद्भिरिवतोयदः ॥ 14 ॥

धनूंषिचास्यसज्जानिहेमपृष्ठानिसर्वशः ।
शोभयंतिरथश्रेष्ठंशक्रचापमिवांबरम् ॥ 15 ॥

क एषरक्षश्शार्दूलोरणभूमिविराजयन् ।
अभ्येतिरथिनांश्रेष्ठोरथेनादित्यतेजसा ॥ 16 ॥

ध्वजशृंगप्रतिष्ठेनराहुणाभिविराजते ।
सूर्यरमशिनिभैर्बाणैर्दिशो दश विराजयन् ॥ 17 ॥

त्रिणतंमेघसन्नादंहेमपृष्ठमलंकृतम् ।
शतक्रतुधनुःप्रख्यंधनुश्चास्यविराजते ॥ 18 ॥

स ध्वजस्सपताकश्चसानुकर्षोमहारथः ।
चतुस्सादिसमायुक्तोमेघस्तनितानि ॥ 19 ॥

विंशतिर्दश चाष्टौ च तूणीररथमास्थिताः ।
कार्मुकाणि च भीमानि ज्याश्च कांचनपिंगलाः ॥ 20 ॥

द्वौ च खडगौरथगतौपार्श्वस्थौपार्श्वशोभितौ ।
चतुर्हस्तत्सरुयुतौव्यक्तहस्तदशायतौ ॥ 21 ॥

रक्तकंठगुणो धीरो महापर्वतसंनिभः ।
कालः कालमहावक्त्रो मेघस्थ इव भास्करः ॥ 22 ॥

कांचनांगदनद्धाभ्यांभूजाभ्यामेषशोभते ।
शृंगाभ्यामिवतुंगाभ्यांहिमवान् पर्वतोत्तमः ॥ 23 ॥

कुंडलाभ्यांतुयस्यैतद्भतध्भातिशुभेक्ष ।
पुनर्वस्वंतरगतंपूर्णंभिंबमिवैंदवम् ॥ 24 ॥

आचक्ष्वमेमहाबाहोत्वमेनंराक्षसोत्तमम् ।
यंदृष्टवावानरास्सर्वेभयार्ताविद्रुतादिशः ॥ 25 ॥

स पृष्टोराजपुत्रेणरामेणामिततेजसा ।
आचचक्षेमहातेजारघवायविभीषणः ॥ 26 ॥

दशग्रीवोमहातेजाराजावैश्रवणानुजः ।
भीमकर्मामहोत्साहोरावणोराक्षसाधिपः ॥ 27 ॥

तस्यासीद्वीर्यवान्पुत्रोरावणप्रतिमोरणे ।
वृद्धसेवीश्रुतिधरस्सर्वास्त्रविदुषांवरः ॥ 28 ॥

अश्वपृष्ठेरथेनागेखडगेधनुषिकर्षणे ।
भेदेसांत्वे च दाने च नयेमंत्रे च सम्मतः ॥ 29 ॥

यस्यबाहूसमाश्रित्यलंकावसतिनिर्भया ।
तनयंधान्यमालिन्याअतिकायमिमंविदुः ॥ 30 ॥

एतेनाराधितोब्रह्मोतपसाभावितात्मना ।
अस्त्राणिचाप्यवाप्तानिरिपवश्चपराजिताः ॥ 31 ॥

सुरासुरैरवध्यत्वंदत्तमस्मैस्वयंभुवा ।
एतच्चकवचंदिव्यंरधश्चैषोऽरभास्वरः ॥ 32 ॥

एतेनशतशोदेवादानवाश्चपराजिताः ।
रक्षितानि च रक्षांसियक्षाश्चापिनिषूदिताः ॥ 33 ॥

वज्रंविष्टंभितंयेनबाणैरिंद्रस्यधीमतः ।
पाशस्सलिलराजस्यरणेप्रतिहतस्तथा ॥ 34 ॥

एषोऽतिकायोबलवान्राक्षसानामथर्षभः ।
रावणस्यतोधीमांदेवदानवदर्पहा ॥ 35 ॥

तदस्मिन्क्रियतांयत्नःक्षिप्रंपुरुषपुंगव ।
पुरावानरसैन्यानिक्ष्यंनयतिसायकैः ॥ 36 ॥

ततोतिकायोबलवान्प्रविश्यहरिवाहिनीम् ।
विष्फारयामासधनुर्ननाद च पुनःपुनः ॥ 37 ॥

तंभीमवपुषंदृष्टवारथस्थंरथिनांवरम् ।
अभिपेतुर्महात्मानोयेप्रधानावनौकसः ॥ 38 ॥

कुमुदोद्विविदोमैंदोनीलश्शरभएव च ।
पादपैर्गिरिशृंगैश्चयुगपत्समभिद्रवन् ॥ 39 ॥

तेषांवृक्षांश्चशैलांश्चशरैःकांचनभूषणैः ।
अतिकायोमहातेजाश्चिच्छेदास्त्रविदांवरः ॥ 40 ॥

तांश्चैवसर्वान् स हरीन् शरैस्सर्वायसैर्बली ।
विव्याथाभिमुखस्संख्येभीमकायोनिशाचर ॥ 41 ॥

तेऽर्दितांबाणवर्षेणभिन्नगात्राःप्लवंगमाः ।
न शेकुरतिकायस्यप्रतिकर्तुंमहारणे ॥ 42 ॥

तत् त्सैन्यंहरिवीराणांत्रासयामासराक्षसः ।
मृगयूथमिवक्रुद्धोहरिर्यौवनदर्पितः ॥ 43 ॥

सराक्षसेंद्रोहरिसैन्यमध्येनायुध्यमानंनिजघानकंचित् ।
उपेत्यरामंसधमः कलापी स गर्वितंवाक्यमिदंबभाषे ॥ 44 ॥

रथेस्थितोहंशरचापपाणिर्नप्राकृतंकंचनयोधयामि ।
यस्यास्तिकश्चिद्व्यवसाययुक्तोददातुमेक्षिप्रमिहाद्ययुद्धम् ॥ 45 ॥

तत्तस्यवाक्यंब्रुवतोनिशम्यचुकोपसौमित्रिरमित्रहंता ।
अमृष्यमाणश्चसमुत्पपातजग्राहचापं च ततस्स्मयित्वा ॥ 46 ॥

क्रुद्धस्सौमित्रिरुत्पत्यतूणादाक्षिप्यसायकम् ।
पुरस्तादतिकायस्यविचकर्षमहद्धनुः ॥ 47 ॥

पूरयन् स महींशैलानाकाशंसागरंदिशः ।
ज्याशब्दोलक्ष्मणस्योग्रस्त्रासयन् रजनीचरान् ॥ 48 ॥

सौमित्रेश्चापनिर्घोषंश्रुत्वाप्रतिभयंतदा ।
विसिष्मियेमहातेजाराक्षसेंद्रात्मजोबली ॥ 49 ॥

अथातिकायःकुपितोदृष्टवालक्ष्मणमुत्थितम् ।
आदायनिशितंबाणमिदंवचनमब्रवीत् ॥ 50 ॥

बालस्त्वमसिसौमित्रेविक्रमेष्वविचक्षणः ।
गच्छकिंकालसदृशंमांयोधयतुमिच्छसि ॥ 51 ॥

न हिमद्बाहुसृष्टानामस्त्राणाहिमवानपि ।
सोढुमुत्सहतेवेगमंतरिक्षमथोमही ॥ 52 ॥

सुखप्रसुप्तंकालाग्निंविबोधयितुमिच्छसि ।
न्यस्यचापंनिवर्तस्वमाप्राणान् जहिमद्गतः ॥ 53 ॥

अथवात्वंप्रतिष्टब्धो न निवर्तितुमिच्छसि ।
तिष्ठप्राणान् परित्यज्यगमिष्यसियमक्ष्यम् ॥ 54 ॥

पश्यमेनिशितान्बाणानरिदर्पनिषूदनान् ।
ईश्वरायुधसंकाशांस्तप्तकांचनभूषणान् ॥ 55 ॥

एष ते सर्पसंकाशो बाणः पास्यति शोणितम् ।
मृगराज इव क्रुद्धो नागराजस्य शोणितम् ॥ 56 ॥

इत्येवमुक्त्वासंक्रुद्धश्शरंधनुषिसंदधे ।
श्रुत्वातिकायस्यवचस्सरोषंसगर्वितंसम्यतिराजपुत्रः ।
स संचुकोपातिबलोमनस्वीरुवाचवाक्यं च ततोमहार्थम् ॥ 57 ॥

न वाक्यमात्रेणभवान् प्रधानो न कत्थनात्सत्पुरुषाभवंति ।
मयिस्थितेधन्विनिबाणपाणौनिदर्शयस्वात्मबलंदुरात्मन् ॥ 58 ॥

कर्मणा सूचयात्मानं न विकत्थितुमर्हसि ।
पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥ 59 ॥

सर्वायुधसमायुक्तोधन्वीत्वंरथमास्थितः ।
शरैर्वायदिवाप्यस्त्रैर्दर्शयस्वपराक्रमम् ॥ 60 ॥

ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः ।
मारुतः कालसंपक्वं वृंतात्तालफलं यथा ॥ 61 ॥

अद्यतेमामकाबाणास्तप्तकांचनभूषणाः ।
पास्यंतिरुधिरंगात्राद्बाणशल्यांतरोत्थितम् ॥ 62 ॥

बालोऽयमितिविज्ञाय न मावज्ञातुमर्हसि ।
बालोवायदिवावृद्धोमृत्युंजानीहिसंयुगे ॥ 63 ॥

बालेनविष्णुनालोकास्त्रयःक्रांतास्त्रिविक्रमैः ।
लक्ष्मणस्यवचश्श्रुत्वाहेतुमत्परमार्थवत् ॥ 64 ॥

अतिकायःप्रचुक्रोधबाणंचोत्तममाददे ।
ततोविद्याधराभूतादेवादैत्यामहर्षयः ॥ 65 ॥

गुह्यकाश्चमहात्मानस्तद्युद्धंद्रष्टुमागमन् ।
तोऽतिकायःकुपितश्चापमारोप्यसायकम् ॥ 66 ॥

लक्ष्मणायप्रचिक्षेपसंक्षिपन्निवचांबरम् ।
तमापतंतंनिशितंशरमाशीविषोपमम् ॥ 67 ॥

अर्धचंद्रेणचिच्छेदलक्ष्मणःपरवीरहा ।
तंनिकृत्तंशरंदृष्टवाकृत्तभोगमिवोरगम् ॥ 68 ॥

अतिकायोभृशंक्रुद्धःपंचबाणान् समाददे ।
तान्शरान् संप्रचिक्षेपलक्ष्मणायनिशाचरः ॥ 69 ॥

तानप्राप्तान् शरैस्तीक्ष्णैश्चिच्छेदभरतानुजः ।
सतान् छित्त्वाशितैर्बाणैर्लक्ष्मणःपरवीरहा ॥ 70 ॥

आददेनिशितंबाणंज्वलंतमिवतेजसा ।
तमादायधनुश्श्रेष्ठेयोजयामासलक्ष्मणः ॥ 71 ॥

विचकर्ष च वेगेनविससर्ज च वीर्यवान् ।
पूर्णायतविसृषेनशरेणनतपर्वणा ॥ 72 ॥

ललाटेराक्षसश्रेष्ठमाजघान स वीर्यवान् ।
सललाटेशरोमग्नस्तस्यभीमस्यरक्षसः ॥ 73 ॥

ददृशे शोणितेनाक्तः पन्नगेंद्र इवाहवे ।
राक्षसः प्रचकंपे च लक्ष्मणेषु प्रकंपितः ॥ 74 ॥

रुद्रबाणहतंघोरंयथात्रिपुरगोपुरम् ।
चिंतयामासचाश्वास्यविमृश्य च महाबलः ॥ 75 ॥

साधुबाणनिपातेनश्लाघनीयोऽसिमेरिपुः ।
विधायैवंविनम्यास्यंनियम्य च भुजावुभौ ॥ 76 ॥

स रथोपस्थमास्थायरथेनप्रचचार ह ।
कंत्रीन्पंचसप्तेतिसायन्राक्षसर्षभः ॥ 77 ॥

आददेसंदधेचापिविचकर्षोत्ससर्ज च ।
तेबाणाःकालसंकाशाराक्षसेंद्रधुनुश्च्युताः ॥ 78 ॥

हेमपुंखारविप्रख्याश्चक्रुर्दीप्तमिवांबरम् ।
तस्तान्राक्षसोत्सृष्टान्शरौघान्राघवानुजः ॥ 79 ॥

असंब्रांतःप्रचिच्छेदनिशितैर्बहुभिश्शरैः ।
तान् शरान्युधिसंप्रेक्ष्यनिकृत्तान्रावणात्मजः ॥ 80 ॥

चुकोपत्रिदशेंद्रारिर्जग्राहनिशितंशरम् ।
ससंधायमहातेजास्तंबाणंसहसोत्सृजत् ॥ 81 ॥

तेनस्सौमित्रिमायांतमाजघानस्तनांतरे ।
अतिकायेनसौमित्रिस्ताडितोयुधिवक्षसि ॥ 82 ॥

सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः ।
स चकार तदात्मानं विशल्यं सहसा विभुः ॥ 83 ॥

जग्राह च शरंतीक्ष्णमस्त्रेणापिचसंदधे ।
आग्नेयेनतदाऽस्त्रेणयोजयामाससायकम् ॥ 84 ॥

स जज्वालतदाबाणोधनुष्यस्यमहात्मनः ।
अतिकायोतितेजस्वीसौरमस्त्रंसमादधे ॥ 85 ॥

तेनबाणंभुजंगाभंहेमपुंखमयोजयत् ।
तदस्त्रंज्वलितंघोरंलक्ष्मणश्शरमाहितम् ॥ 86 ॥

अतिकायायचिक्षेपकालदंडमिवांतकः ।
आग्नेयेनाभिसंयुक्तंदृष्टवाबाणंनिशाचरः ॥ 87 ॥

उत्ससर्जतदाबाणंदीप्तंसूर्यास्त्रयोजितम् ।
तावुभावंबरेबाणावन्योन्यमभिजघ्नतुः ॥ 88 ॥

तेजसासंप्रदीप्ताग्रौक्रुद्धाविवभुजंगमौ ।
तावन्योन्यंविनिर्दह्यपेततुर्धरणीतले ॥ 89 ॥

निरर्चिषौभस्मकृतौ न भ्राजेतेशरोत्तमौ ।
तावुभौदीप्यमानौस्म न भ्राजेतेमहीतले ॥ 90 ॥

ततोऽतिकायस्संकृद्धस्त्वस्त्रमैषीकमुत्सृजत् ।
तत्प्रचिच्छेदसौमित्रिरस्त्रमैंद्रेणवीर्यवान् ॥ 91 ॥

ऐषीकंनिहतंदृष्टवारुषितोरावणात्मजः ।
याम्येनार्स्तेणसंकृद्धोयोजयामाससायकम् ॥ 92 ॥

ततस्तदस्त्रंचिक्षेपलक्ष्मणायनिशाचरः ।
वायव्येनतदस्त्रेणनिजघान स लक्ष्मणः ॥ 93 ॥

अथैनंशरधाराभिर्धाराभिरिवतोयदः ।
अभ्यवर्षत्सुसंकृद्धोलक्ष्मणोरावणात्मजम् ॥ 94 ॥

तेऽतिकायंसमासाद्यकवचेवज्रभूषिते ।
भग्नाग्रशल्यास्सहसापेतुर्बाणामहीतले ॥ 95 ॥

तान्मोघानभिसंप्रेक्ष्यलक्ष्मणःपरवीरहा ।
अभ्यवर्षन्महेषूणांसहस्रेणमहायशाः ॥ 96 ॥

स वृष्यमाणोबाणौघैरतिकायोमहाबलः ।
अवध्यकवचस्संख्येराक्षसोनैवविव्यथे ॥ 97 ॥

शरंचाशीविषाकारंलक्ष्मणायव्यपासृजत् ।
स तेनविद्धस्सौमित्रिर्मर्मदेशेशरेण ह ॥ 98 ॥

मुहूर्तमात्रंनिस्संज्ञोह्यभवच्छत्रुतापनः ।
ततःस्संज्ञामुपालभ्यचतुर्भिस्सायकोत्तमैः ॥ 99 ॥

निजघानहयान्संख्येसारथिं च महाबलः ।
ध्वजस्योन्मथनंकृत्वाशरवर्षैररिंदमः ॥ 100 ॥

असंभ्रांतस्ससौमित्रिस्तान्शरानभिलक्षितान् ।
मुमोचलक्ष्मणोबाणान्वधार्थंतस्यरक्षसः ॥ 101 ॥

न शशाकरुजंकर्तुंयुधितस्यनरोत्तमः ।
अथैनमभ्युपागम्यवायुर्वाक्यमुवाच ह ॥ 102 ॥

ब्रह्मदत्तवरो ह्येष अवध्य कवचावृतः ।
ब्राह्मेणास्त्रेण भिंध्येनमेष वध्यो हि नान्यथा ॥ 103 ॥

अवध्यएषह्यन्येषामस्त्राणांकवचीबली ।
ततस्तुवायोर्वचनंनिशम्यसौमित्रिरिंद्रप्रतिमानवीर्यः ।
समाददेबाणममोघवेगंतद्ब्राह्ममस्त्रंसहसानियोज्य ॥ 104 ॥

नियुज्यमानेसौमित्रिणाबाणवरेशिताग्रे ।
दिशश्चचंद्रर्कमहाग्रहाश्चनभश्चतत्रासचचालचोर्वी ॥ 105 ॥

तंब्रह्मणोऽस्त्रेणनियुज्यचापेशरंसुपुंखंयमदूतकल्पम् ।
सौमित्रिरिंद्रारिसुतस्यतस्यससर्जबाणंयुधिवज्रकल्पम् ॥ 106 ॥

तंलक्ष्मणोत्सृष्टममोघवेगंसमापतंतंज्यलनप्रकाशम् ।
सुपर्णवज्रोत्तमचित्रपुंखंतदाऽतिकायस्समरेददर्श ॥ 107 ॥

तंप्रेक्षमाणस्सहसाऽतिकायोजघानबाणैर्निशितैरनेकैः ।
स सायकस्तस्यसुपर्णवेगस्तदातिकायस्यजगामपार्श्वम् ॥ 108 ॥

तमागतंप्रेक्ष्यतदातिकायोबाणंप्रदीप्तांतककालकल्पम् ।
जघानक्त्यृष्टिगदाकुठारैशूलैर्हुलैश्चाप्यविपन्नचेता ॥ 109 ॥

तान्यायुधान्यद्भुतविग्रहाणिमोघानिकृत्वा स शरोऽग्निदीप्तः ।
प्रगृह्यतस्यैवकिरीटजुष्टं ततोऽतिकायस्यशिरोजहार ॥ 110 ॥

तछचिरस्सशिरस्त्राणंलक्ष्मणेषुप्रपीडितम् ।
पपातसहसाभूमौशृंगंहिमवतोयथा ॥ 111 ॥

तंभूमौनिपतितंदृष्टवाविक्षिप्तभूषणं बभूवुर्व्यथितास्सर्वेहतशेषानिशाचराः ॥ 112 ॥

तेविषण्णमुखादीनाःप्रहारजनितश्रमाः ।
विनेदुरुच्चैर्बहवस्सहसाविस्वरैस्स्वरैः ॥ 113 ॥

ततस्तेत्वरितंयातानिरपेक्षानिशाचराः ।
पुरीमभिमुखाभीताद्रवंतोनायकेहते ॥ 114 ॥

प्रहर्षयुक्ताबहवस्तुवानराःप्रबुद्दपद्मप्रतिमाननास्तदा ।
अपूजयन्लक्ष्मणविष्टभागिनंहतेरिपौभीमबलेदुरासदे ॥ 115 ॥

अतिबलमतिकायमभ्रकल्पंयुधिविनिपात्य स लक्ष्मणःप्रहृष्टः ।
त्वरितमथतदा स रामपार्श्वंकपिनिवहैश्चसुपूजितोजगाम ॥ 116 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकसप्ततितमस्सर्गः ॥




Browse Related Categories: