View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

3.44 अरण्यकांड - चतुश्चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ चतुश्चत्वारिंशस्सर्गः ।

तथा तु तं समादिश्य भ्रातरं रघुनंदनः ।
बबंधासिं महातेजा जांबूनदमयत्सरुम् ॥ 1 ॥

तत स्त्र्यवनतं चापमादायाऽत्मविभूषणम् ।
आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः ॥ 2 ॥

तं वंचयानो राजेंद्रमापतंतं निरीक्ष्यवै ।
बभूवांतर्हितस्त्रासात्पुनस्संदर्शनेऽभवत् ।
च ॥ 3 ॥

बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः ।
तं स्म पश्यति रूपेण द्योतमानमिवाग्रतः ॥ 4 ॥

अवेक्ष्यावेक्ष्य धावंतं धनुष्पाणिर्महावने ।
अतिवृत्तमिषोः पाताल्लोभयानं कदाचन ॥ 5 ॥

शंकितंतु समुद्भ्रांतमुत्पतंतमिवांबरे ।
दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित् ॥ 6 ॥

छिन्नाभ्रैरिव संवीतं शारदं चंद्रमंडलम् ।
मुहुर्तादेव ददृशे मुहुर्दूरात्प्रकाशते ॥ 7 ॥

दर्शनादर्शनादेवं सोऽपाकर्षत राघवम् ।
सुदूरमाश्रमस्यास्य मारीचो मृगतां गतः ॥ 8 ॥

आसीत् क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः ।
अथावतस्थे संभ्रांतश्चायामाश्रित्य शाद्वले ॥ 9 ॥

स तमुन्मादयामास मृगरूपो निशाचरः ।
मृगैः परिवृतो वन्यैरदूरात्प्रत्यदृश्यत ॥ 10 ॥

गृहीतुकामं दृष्ट्वैवं पुनरेवाभ्यधावत ।
तत्क्षणादेव संत्रासात्पुनरंतर्हितोऽभवत् ॥ 11 ॥

पुनरेव ततो दूराद्वृक्षषंडाद्विनिस्सृतम् ।
दृष्ट्वा रामो महातेजास्तं हंतुं कृतनिश्चयः ॥ 12 ॥

भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः ।
सूर्यरश्मिप्रतीकाशं ज्वलंतमरिमर्दनः ॥ 13 ॥

संधाय सुदृढे चापे विकृष्य बलवद्बली ।
तमेव मृगमुद्दिश्य श्वसंतमिव पन्नगम् ॥ 14 ॥

मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम् ।
शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः ॥ 15 ॥

मारीचस्यैव हृदयं बिभेदाशनिसन्निभः ।
तालमात्रमथोत्प्लुत्य न्यपतत्सशरातुरः ॥ 16 ॥

विनदन्भैरवं नादं धरण्यामल्पजीवितः ।
म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम् ॥ 17 ॥

स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम् ।
इह प्रस्थापयेत्सीता शून्ये तां रावणो हरेत् ॥ 18 ॥

स प्राप्तकालमाज्ञाय चकार च तत स्वनम् ।
सदृशं राघवस्येह हा सीते लक्ष्मणेति च ॥ 19 ॥

तेन मर्मणि निर्विद्धं शरेणानुपमेन हि ।
मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमास्थितः ॥ 20 ॥

चक्रे स सुमहाकायं मारीचो जीवितं त्यजन् ।
तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् ॥ 21 ॥

रामो रुधिरसिक्तांगं चेष्टमानं महीतले ।
जगाम मनसा सीतां लक्ष्मणस्य वचस्स्मरन् ॥ 22 ॥

मारीचस्य तु मायैषा पूर्वोक्तं लक्ष्मणेन तु ।
तत्तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः ॥ 23 ॥

हा सीते लक्ष्मणेत्येवमाक्रुश्य च महास्वरम् ।
ममार राक्षसस्सोऽयं श्रुत्वा सीता कथं भवेत् ॥ 24 ॥

लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति ।
इति संचिंत्य धर्मात्मा रामो हृष्टतनूरुहः ॥ 25 ॥

तत्र रामं भयं तीव्रमाविवेश विषादजम् ।
राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वरम् ॥ 26 ॥

निहत्य पृषतं चान्यं मांसमादाय राघवः ।
त्वरमाणो जनस्थानं ससाराभिमुखस्तदा ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे चतुश्चत्वारिंशस्सर्गः ॥




Browse Related Categories: