View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

3.17 अरण्यकांड - सप्तदश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ सप्तदशस्सर्गः ।

कृताभिषेको रामस्तु सीता सौमित्रिरेव च ।
तस्माद्गोदावरीतीरात्ततो जग्मुस्वमाश्रमम् ॥ 1 ॥

आश्रमं तमुपागम्य राघवस्सह लक्ष्मणः ।
कृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत् ॥ 2 ॥

उवास सुखितस्तत्र पूज्यमानो महर्षिभिः ।
लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ॥ 3 ॥

स रामः पर्णशालायामासीनस्सह सीतया ।
विरराज महाबाहुश्चित्रया चंद्रमाः इव ॥ 4 ॥

तदाऽऽसीनस्य रामस्य कथासंसक्तचेतसः ।
तं देशं राक्षसी काचिदाजगाम यदृच्छया ॥ 5 ॥

सा तु शूर्पणखा नाम दशग्रीवस्य राक्षसः ।
भगिनी राममासाद्य ददर्श त्रिदशोपमम् ॥ 6 ॥

सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम् ।
आजानुबाहुं दीप्तास्यमतीव प्रियदर्शनम् ॥ 7 ॥

गजविक्रांतगमनं जटामंडलधारिणम् ।
सुकुमारं महासत्त्वं पार्थिवव्यंजनान्वितम् ॥ 8 ॥

राममिंदीवरश्यामं कंदर्पसदृशप्रभम् ।
बभूवेंद्रोपमं दृष्ट्वा राक्षसी काममोहिता ॥ 9 ॥

सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी ।
विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा ॥ 10 ॥

प्रीतिरूपं विरूपा सा सुस्वरं भैरवस्वरा ।
तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ॥ 11 ॥

न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना ।
शरीरजसमाविष्टा राक्षसी वाक्यमब्रवीत् ॥ 12 ॥

जटी तापसरूपेण सभार्यश्शरचापधृत् ।
आगतस्त्वमिमं देशं कथं राक्षससेवितम् ॥ 13 ॥

किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि ।
एवमुक्तस्तु राक्षस्या शूर्पणख्या परंतपः ॥ 14 ॥

ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे ।
अनृतं न हि रामस्य कदाचिदपि सम्मतम् ॥ 15 ॥

विशेषेणाऽश्रमस्थस्य समीपे स्त्रीजनस्य च ।
आसीद्धशरथो नाम राजा त्रिदशविक्रमः ॥ 16 ॥

तस्याहमग्रजः पुत्रो रामो नाम जनैश्श्रुतः ।
भ्राताऽयं लक्ष्मणो नाम यवीयान्मामनुव्रतः ॥ 17 ॥

इयं भार्या च वैदेही मम सीतेति विश्रुता ।
नियोगात् तु नरेंद्रस्य पितुर्मातुश्च यंत्रितः ॥ 18 ॥

धर्मार्थं धर्मकांक्षी च वनं वस्तुमिहागतः ।
त्वां तु वेदितुमिच्छामि कस्य त्वं कासि कस्य वा ॥ 19 ॥

त्वं हि तावन्मनोज्ञांगी राक्षसी प्रतिभासि मे ।
इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वतः ॥ 20 ॥

साब्रवीद् वचनं श्रुत्वा राक्षसी मदनार्दिता ।
श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम ॥ 21 ॥

अहं शूर्पणखा नाम राक्षसी कामरूपिणी ।
अरण्यं विचरामीदमेका सर्वभयंकरा ॥ 22 ॥

रावणो नाम मे भ्राता बलीयान्राक्षसेश्वरः ।
वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः ॥ 23 ॥

प्रवृद्धनिद्रश्च सदा कुंभकर्णो महाबलः ।
विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः ॥ 24 ॥

प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ ।
तानहं समतिक्रांता राम त्वा पूर्वदर्शनात् ॥ 25 ॥

समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् ।
अहं प्रभावसंपन्ना स्वच्छंदबलगामिनी ॥ 26 ॥

चिराय भव मे भर्ता सीतया किं करिष्यसि ।
विकृता च विरूपा च न चेयं सदृशी तव ॥ 27 ॥

अहमेवानुरूपा ते भार्या रूपेण पश्य माम् ।
इमां विरूपामसतीं करालां निर्णतोदरीम् ॥ 28 ॥

अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम् ।
ततः पर्वतशृंगाणि वनानि विविधानि च ॥ 29 ॥

पश्यन्सह मया कांत दंडकान्विचरिष्यसि ।
इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् ॥ 30 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे सप्तदशस्सर्गः ॥




Browse Related Categories: