View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

4.7 किष्किंधाकांड - सप्तम सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ सप्तमस्सर्गः ।

एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः ।
अब्रवीत्प्रांजलिर्वाक्यं सबाष्पं बाष्पगद्गदः ॥ 1 ॥

न जाने निलयं तस्य सर्वथा पापरक्षसः ।
सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् ॥ 2 ॥

सत्यं ते प्रतिजानामि त्यज शोकमरिंदम ।
करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् ॥ 3 ॥

रावणं सगणं हत्वा परितोष्यात्मपौरुषम् ।
तथाऽस्मि कर्ता न चिराद्यथा प्रीतो भविष्यसि ॥ 4 ॥

अलं वैक्लब्यमालंब्य धैर्यमात्मगतं स्मर ।
त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम् ॥ 5 ॥

मयाऽपि व्यसनं प्राप्तं भार्याविरहजं महत् ।
नाहमेवं हि शोचामि न च धैर्यं परित्यजे ॥ 6 ॥

नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् ।
महात्मा च विनीतश्च किं पुनर्धृतिमान्भवान् ॥ 7 ॥

बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि ।
मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि ॥ 8 ॥

व्यसने वाऽर्थकृच्छ्रे वा भये वा जीवितांतके ।
विमृशन्वै स्वया बुद्ध्या धृतिमान्नावसीदति ॥ 9 ॥

बालिशस्तु नरो नित्यं वैक्लब्यं योऽनुवर्तते ।
स मज्जत्यवशश्शोके भाराक्रांतेव नौर्जले ॥ 10 ॥

एषोऽंजलिर्मया बद्धः प्रणयात्त्वां प्रसादये ।
पौरुषं श्रय शोकस्य नांतरं दातुमर्हसि ॥ 11 ॥

ये शोकमनुवर्तंते न तेषां विद्यते सुखम् ।
तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ॥ 12 ॥

शोकेनाभिप्रपन्नस्य जीविते चापि संशयः ।
स शोकं त्यज राजेंद्र धैर्यमाश्रय केवलम् ॥ 13 ॥

हितं वयस्यभावेन ब्रूमि नोपदिशामि ते ।
वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ॥ 14 ॥

मधुरं सांत्वित स्तेन सुग्रीवेण स राघवः ।
मुखमश्रुपरिक्लिन्नं वस्त्रांतेन प्रमार्जयत् ॥ 15 ॥

प्रकृतिस्थस्तु काकुत्स्थस्सुग्रीववचनात्प्रभुः ।
संपरिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ॥ 16 ॥

कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च ।
अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया ॥ 17 ॥

एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे ।
दुर्लभो हीदृशो बंधुरस्मिन्काले विशेषतः ॥ 18 ॥

किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे ।
राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥ 19 ॥

मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् ।
वर्षास्विव च सुक्षेत्रे सर्वं संपद्यते तव ॥ 20 ॥

मया च यदिदं वाक्यमभिमानात्समीरितम् ।
तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् ॥ 21 ॥

अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।
एतत्ते प्रतिजानामि सत्येनैव च ते शपाम्यहमम् ॥ 22 ॥

ततः प्रहृष्टस्सुग्रीवो वानरैस्सचिवैस्सह ।
राघवस्य वचश्श्रुत्वा प्रतिज्ञातं विशेषतः ॥ 23 ॥

एवमेकांतसंपृक्तौ ततस्तौ नरवानरौ ।
उभावन्योन्यसदृशं सुखं दुःखमभाषताम् ॥ 24 ॥

महानुभावस्य वचो निशम्य हरिर्नृपाणामृषभस्य तस्य ।
कृतं स मेने हरिवीरमुख्य स्तदा स्वकार्यं हृदयेन विद्वान् ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे सप्तमस्सर्गः ॥




Browse Related Categories: