View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

2.12 अयोध्याकांड - द्वादश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ द्वादशस्सर्गः ।

ततश्शृत्वा महाराजः कैकेय्या दारुणं वचः ।
चिंतामभिसमापेदे मुहूर्तं प्रतताप च ॥ 1 ॥

किन्नु मे यदि वा स्वप्नश्चित्तमोहोऽपि वा मम ।
अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः ॥ 2 ॥

इति संचिंत्य तद्राजा नाध्यगच्छत्तदासुखम् ।
प्रतिलभ्य चिरात्संज्ञां कैकेयीवाक्यताडितः ॥ 3 ॥

व्यथितो विक्लबश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः ।
असंवृतायामासीनो जगत्यां दीर्घमुच्छवसन् ॥ 4 ॥

मंडले पन्नगो रुद्धो मंत्रैरिव महाविषः ।
अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः ॥ 5 ॥

मोहमापेदिवान्भूय श्शोकोपहतचेतनः ।
चिरेण तु नृप स्संज्ञां प्रतिलभ्य सुदुःखितः ॥ 6 ॥

कैकेयीमब्रवीत्क्रुद्धःप्रदहन्निव चक्षुषा ।
नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि ॥ 7 ॥

किं कृतं तव रामेण पापं पापे मयापि वा ।
यदा ते जननीतुल्यां वृत्तिं वहति राघवः ॥ 8 ॥

तस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता ।
त्वं मयाऽऽत्मविनाशार्थं भवनं स्वं प्रवेशिता ॥ 9 ॥

अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा ।
जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥ 10 ॥

अपराधं किमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् ।
कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् ॥ 11 ॥

जीवितं वाऽत्मनो रामं न त्वेव पितृवत्सलम् ।
परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् ॥ 12 ॥

अपश्यतस्तु मे रामं नष्टा भवति चेतना ।
तिष्ठेल्लोको विना सूर्यं शस्यं वा सलिलं विना ॥ 13 ॥

न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ।
तदलं त्यज्यतामेष निश्चयः पापनिश्चये ॥ 14 ॥

अपि ते चरणै मूर्ध्ना स्पृशाम्येष प्रसीद मे ।
किमिदं चिंतितं पापे त्वया परमदारुणम् ॥ 15 ॥

अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये ।
अस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति ॥ 16 ॥

स मे ज्येष्ठस्सुत श्रीमांधर्मज्येष्ठ इतीव मे ।
तत्त्वया प्रियवादिन्या सेवार्थं कथितं भवेत् ॥ 17 ॥

तच्छ्रुत्वा शोकसंतप्ता संतापयसि मां भृशम् ।
आविष्टाऽसि गृहं शून्यं सा त्वं परवशं गता ॥ 18 ॥

इक्ष्वाकूणां कुले देवि संप्राप्तस्सुमहानयम् ।
अनयो नयसंपन्ने यत्र ते विकृता मतिः ॥ 19 ॥

नहि किंचिदयुक्तं वा विप्रियं वा पुरा मम ।
अकरोस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम् ॥ 20 ॥

ननु ते राघवस्तुल्यो भरतेन महात्मना ।
बहुशो हि सुबाले त्वं कथाः कथयसे मम ॥ 21 ॥

तस्य धर्मात्मनो देवि वनवासं यशस्विनः ।
कथं रोचयसे भीरु नव वर्षाणि पंच च ॥ 22 ॥

अत्यंतसुकुमारस्य तस्य धर्मे धृतात्मनः ।
कथं रोचयसे वासमरण्ये भृशदारुणे ॥ 23 ॥

रोचयस्यभिरामस्य रामस्य शुभलोचने ।
तव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥ 24 ॥

रामो हि भरताद्भूयस्तव शुश्रूषते सदा ।
विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ॥ 25 ॥

शुश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम् ।
कस्ते भूयस्तरं कुर्यादन्यत्र मनुजर्षभात् ॥ 26 ॥

बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम् ।
परिवादोऽपवादो वा राघवे नोपपद्यते ॥ 27 ॥

सांत्वयन्सर्वभूतानि राम श्शुद्धेन चेतसा ।
गृह्णाति मनुजव्याघ्र प्रियैर्विषयवासिनः ॥ 28 ॥

सत्येन लोकान् जयति दीनान् दानेन राघवः ।
गुरूंछुश्रूषया वीरो धनुषा युधि शात्रवान् ॥ 29 ॥

सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम् ।
विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥ 30 ॥

तस्मिन्नार्जवसंपन्ने देवि देवोपमे कथम् ।
पापमाशंससे रामे महर्षिसमतेजसि ॥ 31 ॥

न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः ।
स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम् ॥ 32 ॥

क्षमा यस्मिंदमस्त्याग सत्यं धर्मः कृतज्ञता ।
अप्यहिंसा च भूतानां तमृते का गतिर्मम ॥ 33 ॥

मम वृद्धस्य कैकेयि गतांतस्य तपस्विनः ।
दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ 34 ॥

पृथिव्यां सागरांतायां यत्किंचिदधिगम्यते ।
तत्सर्वं तव दास्यामि मा च त्वां मन्युराविशेत् ॥ 35 ॥

अंजलिं करोमि कैकेयि पादौ चापि स्पृशामि ते ।
शरणं भव रामस्य माऽधर्मो मामिह स्पृशेत् ॥ 36 ॥

इति दुःखाभिसंतप्तं विलपंतमचेतनम् ।
घूर्णमानं महाराजं शोकेन समभिप्लुतम् ॥ 37 ॥

पारं शोकार्णवस्याशु प्रार्थयंतं पुनः पुनः ।
प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः ॥ 38 ॥

यदि दत्त्वा वरौ राजन्पुनः प्रत्यनुतप्यसे ।
धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि ॥ 39 ॥

यदा समेता बहवस्त्वया राजर्षय स्सह ।
कथयिष्यंति धर्मज्ञ तत्र किं प्रतिवक्ष्यसि ॥ 40 ॥

यस्याः प्रसादे जीवामि या च मामभ्यपालयत् ।
तस्याः कृतं मया मिथ्या कैकेय्या इति वक्षयसि ॥ 41 ॥

किल्बिषत्वं नरेंद्राणां करिष्यसि नराधिप ।
यो दत्वा वरमद्यैव पुनरन्यानि भाषसे ॥ 42 ॥

शैब्यश्श्येनकपोतीये स्वमांसं पक्षिणे ददौ ।
अलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम् ॥ 43 ॥

सागरस्समयं कृत्वा न वेलामतिवर्तते ।
समयं माऽनृतं कार्षीः पूर्ववृत्तमनुस्मरन् ॥ 44 ॥

स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च ।
सह कौसल्यया नित्यं रंतुमिच्छसि दुर्मते ॥ 45 ॥

भवत्वधर्मो धर्मो वा सत्यं वा यदि वाऽनृतम् ।
यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ॥ 46 ॥

अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः ।
पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥ 47 ॥

एकाहमपि पश्येयं यद्यहं राममातरम् ।
अंजलिं प्रतिगृह्णंतीं श्रेयो ननु मृतिर्मम ॥ 48 ॥

भरतेनात्मना चाहं शपे ते मनुजाधिप ।
यथा नान्येन तुष्येयमृते रामविवासनात् ॥ 49 ॥

एतावदुक्त्वा वचनं कैकेयी विरराम ह ।
विलपंतं च राजानं न प्रतिव्याजहार सा ॥ 50 ॥

श्रुत्वा तु राजा कैकेय्या वृतं परमशोभनम् ।
रामस्य च वने वासमैश्वर्यं भरतस्य च ॥ 51 ॥

नाभ्यभाषत कैकेयीं मुहूर्तं व्याकुलेंद्रियः ।
प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥ 52 ॥

तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम् ।
दुःखशोकमयीं घोरां राजा न सुखितोऽभवत् ॥ 53 ॥

स देव्या व्यवसायं च घोरं च शपथं कृतम् ।
ध्यात्वा रामेति निश्श्वस्य छिन्न स्तरुरिवापतत् ॥ 54 ॥

नष्टचित्तो यथोन्मत्तो विपरीतो यथाऽतुरः ।
हृततेजा यथा सर्पो बभूव जगतीपतिः ॥ 55 ॥

दीनया तु गिरा राजा इति होवाच कैकयीम् ।
अनर्थमिममर्थाभं केन त्वमुपदर्शिता ॥ 56 ॥

भूतोपहतचित्तेव ब्रुवंती मां न लज्जसे ।
शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा ॥ 57 ॥

बालायास्तत्त्वितिदानीं ते लक्षये विपरीतवत् ।
कुतो वा ते भयं जातं या त्वमेवंविधं वरम् ॥ 58 ॥

राष्ट्रे भरतमासीनं वृणीषे राघवं वने ।
विरमैतेन भावेन त्वमेतेनानृतेन वा ॥ 59 ॥

यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च ।
नृशंसे पापसंकल्पे क्षुद्रे दुष्कृतकारिणि ॥ 60 ॥

किन्नु दुखमलीकं वा मयि रामे च पश्यसि ।
न कथंचिदृते रामाद्भरतो राज्यमावसेत् ॥ 61 ॥

रामादपि हि तं मन्ये धर्मतो बलवत्तरम् ।
कथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते ॥ 62 ॥

मुखवर्णं विवर्णं तु तं यथैवेंदुमुपप्लुतम् ।
तां हि मे सुकृतां बुद्धिं सुहृद्भिस्सह निश्चिताम् ॥ 63 ॥

कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम् ।
किं मां वक्ष्यंति राजानो नानादिग्भ्य स्समागताः ॥ 64 ॥

बालो बताऽयमैक्ष्वाकश्चिरं राज्यमकारयत् ।
यदा तु बहवो वृद्धा गुणवंतो बहुश्रुताः ॥ 65 ॥

परिप्रक्ष्यंति काकुत्स्थं वक्ष्यामि किमहं तदा ।
कैकेय्या क्लिश्यमानेन रामः प्रव्राजितो मया ॥ 66 ॥

यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति ।
किं मां वक्ष्यति कौशल्या राघवे वनमास्थिते ॥ 67 ॥

किं चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ।
यदा यदा हि कौशल्या दासीवच्च सखीव च ॥ 68 ॥

भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ।
सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा ॥ 69 ॥

न मया सत्कृता देवी सत्कारार्हा कृते तव ।
इदानीं तत्तपति मां यन्मया सुकृतं त्वयि ॥ 70 ॥

अपथ्यव्यंजनोपेतं भुक्तमन्नमिवातुरम् ।
विप्रकारं च रामस्य संप्रयाणं वनस्य च ॥ 71 ॥

सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति ।
कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम् ॥ 72 ॥

मां च पंचत्वमापन्नं रामं च वनमाश्रितम् ।
वैदेही बत मे प्राणान्शोचंती क्षपयिष्यति ॥ 73 ॥

हीना हिमवतः पार्श्वे किन्नरेणेव किन्नरी ।
न हि राममहं दृष्ट्वा प्रवसंतं महावने ॥ 74 ॥

चिरं जीवितुमाशंसे रुदंतीं चापि मैथिलीम् ।
सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ 75 ॥

न हि प्रव्राजिते रामे देवि जीवितुमुत्सहे ।
सतीं त्वामहमत्यंतं व्यवस्याम्यसतीं सतीम् ।
रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः ॥ 76 ॥

अनृतैर्बहु मां सांत्वै स्सांत्वयंती स्म भाषसे ।
गीतशब्देन संरुध्य लुब्धो मृगमिवावधीः ॥ 77 ॥

अनार्य इति मामार्याः पुत्रविक्रायकं ध्रुवम् ।
धिक्करिष्यंति रथ्यासु सुरापं ब्राह्मणं यथा ॥ 78 ॥

अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव ।
दुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम् ॥ 79 ॥

चिरं खलु मया पापे त्वं पापेनाभिरक्षिता ।
अज्ञानादुपसंपन्ना रज्जुरुद्बंधिनी यथा ॥ 80 ॥

रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये ।
बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥ 81 ॥

मया ह्यपितृकः पुत्र स्समहात्मा दुरात्मना ।
तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति ॥ 82 ॥

बालिशो बत कामात्मा राजा दशरथो भृशम् ।
यः स्त्रीकृते प्रियं पुत्रं वनं प्रस्थापयिष्यति ॥ 83 ॥

व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः ।
भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते ॥ 84 ॥

नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम् ।
स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ 85 ॥

यदि मे राघवः कुर्याद्वनं गच्छेति चोदितः ।
प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति ॥ 86 ॥

शुद्धभावो हि भावं मे न तु ज्ञास्यति राघवः ॥ 87 ॥

स वनं प्रब्रजे त्युक्तो बाढ मित्येव वक्षयति ।
राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम् ॥ 88 ॥

मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ।
मृते मयि गते रामे वनं मनुजपुंगवे ॥ 89 ॥

इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे ।
कौशल्या मां च रामं च पुत्रौ च यदि हास्यति ॥ 90 ॥

दुःखान्यसहती देवी मामेवानुमरिष्यति ।
कौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिस्सह ॥ 91 ॥

प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव ।
मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः ॥ 92 ॥

इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि ।
प्रियं चेद्भरतस्यैतद्रामप्रव्राजनं भवेत् ॥ 93 ॥

मा स्म मे भरतः कार्षीत्प्रेतकृत्यं गतायुषः ।
हंतानार्ये ममामित्रे सकामा भव कैकयि ॥ 94 ॥

मृते मयि गते रामे वनं पुरुषपुंगवे ।
सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ 95 ॥

त्वं राजपुत्रीवादेन न्यवसो मम वेश्मनि ।
अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे ॥ 96 ॥

सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ।
कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः ॥ 97 ॥

पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ।
यस्य त्वाहारसमये सूदाः कुंडलधारिणः ॥ 98 ॥

अहंपूर्वाः पचंति स्म प्रशस्तं पानभोजनम् ।
स कथन्नु कषायाणि तिक्तानि कटुकानि च ॥ 99 ॥

भक्षयन्वन्यमाहारं सुतो मे वर्तयिष्यति ।
महार्हवस्त्रसंवीतो भूत्वा चिरसुखोषितः ॥ 100 ॥

काषायपरिधानस्तु कथं भूमौनिवत्स्यति ।
कस्यैतद्धारुणं वाक्यमेवंविधमचिंतितम् ॥ 101 ॥

रामस्यारण्यगमनं भरतस्याभिषेचनम् ।
धिगस्तु योषितो नाम शठा स्स्वार्थपरास्सदा ।
न ब्रवीमि स्त्रिय स्सर्वा भरतस्यैव मातरम् ॥ 102 ॥

अनर्थभावेऽर्थपरे नृशंसे ममानुतापाय निविष्टभावे ।
किमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवाऽपि रामे ॥ 103 ॥

परित्यजेयुः पितरो हि पुत्रान्भार्याः पतींश्चापि कृतानुरागाः ।
कृत्स्नं हि सर्वं कुपितं जगत्स्याद्दृष्ट्वैव रामं व्यसने निमग्नम् ॥ 104 ॥

अहं पुनर्देवकुमाररूपमलंकृतं तं सुतमाव्रजंतम् ।
नंदामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वैव च पुनर्युवेव ॥ 105 ॥

विनाऽपि सूर्येण भवेत्प्रवृत्तिरवर्षता वज्रधरेण वाऽपि ।
रामं तु गच्छंतमित स्समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे ॥ 106 ॥

विनाशकामामहिताममित्रामावासयं मृत्युमिवात्मनस्त्वाम् ।
चिरं बतांकेन धृतासि सर्पी महाविषा तेन हतोऽस्मि मोहात् ॥ 107 ॥

मया च रामेण च लक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह ।
पुरं च राष्ट्रं च निहत्य बांधवान् ममाहितानां च भवाभिहर्षिणी ॥ 108 ॥

नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे ।
न नाम ते केन मुखात्पतंत्यधो विशीर्यमाणा दशना स्सहस्रधा ॥ 109 ॥

न किंचिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम् ।
कथन्नु रामे ह्यभिरामवादिनि ब्रवीषि दोषान्गुणनित्यसम्मते ॥ 110 ॥

प्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटिता महीं व्रज ।
न ते करिष्यामि वच स्सुदारुणं ममाहितं केकयराजपांसनि ॥ 111 ॥

क्षुरोपमां नित्यमसत्प्रियंवदां प्रदुष्टभावां स्वकुलोपघातिनीम् ।
न जीवितुं त्वां विषहेऽमनोरमां दिधक्षमाणां हृदयं सबंधनम् ।
2.12,112 ।
न जीवितं मेऽस्ति पुनःकुत स्सुखं विनाऽऽत्मजेनाऽत्मवतः कुतो रतिः ।
ममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे ॥ 112 ॥

स भूमिपालो विलपन्ननाथवत्स्त्रिया गृहीतो हृदयेऽतिमात्रया ।
पपात देव्याश्चरणौ प्रसारितावुभावसम्स्पृश्य यथाऽतुरस्तथा ॥ 113 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे द्वादशस्सर्गः ॥




Browse Related Categories: