श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ षष्ठस्सर्गः ।
. तस्यां पुर्यामयोध्यायां वेदवित्सर्वसंग्रहः ।
दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥ 1 ॥
इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी ।
महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥ 2 ॥
बलवान्निहतामित्रो मित्रवान्विजितेंद्रियः ।
धनैश्च संग्रहैश्चान्यैश्शक्रवैश्रवणोपमः ॥ 3 ॥
यथा मनुर्महातेजा लोकस्य परिरक्षिता ।
तथा दशरथो राजा वसंजगदपालयत् ॥ 4 ॥
तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता ।
पालिता सा पुरी श्रेष्ठा इंद्रेणेवामरावती ॥ 5 ॥
तस्मिन्पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः ।
नरास्तुष्टा धनैस्स्वैस्स्वैरलुब्धास्सत्यवादिनः ॥ 6 ॥
नाल्पसन्निचयः कश्चिदासीत्तस्मिन् पुरोत्तमे ।
कुटुंबी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥ 7 ॥
कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।
द्रष्टुं शक्यमयोध्यायान्नाविद्वान्न च नास्तिकः ॥ 8 ॥
सर्वे नराश्च नार्यश्च धर्मशीलास्सुसंयताः ।
उदिताश्शीलवृत्ताभ्यां महर्षय इवामलाः ॥ 9 ॥
नाकुंडली नामकुटी नास्रग्वी नाल्पभोगवान् ।
नामृष्टो नानुलिप्तांगो नासुगंधश्च विद्यते ॥ 10 ॥
नामृष्टभोजी नादाता नाप्यनंगदनिष्कधृक् ।
नाहस्ताभरणो वाऽपि दृश्यते नाप्यनात्मवान् ॥ 11 ॥
नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः ।
कश्चिदासीदयोध्यायान्न च निर्वृत्तसंकरः ॥ 12 ॥
स्वकर्मनिरता नित्यं ब्राह्मणा विजितेंद्रियाः ।
दानाध्ययनशीलाश्च संयताश्च परिग्रहे ॥ 13 ॥
न नास्तिको नानृतको न कश्चिदबहुश्रुतः ।
नासूयको न चाऽशक्तो नाविद्वान्विद्यते तदा ॥ 14 ॥
नाषडंगविदत्रासीन्नाव्रतो नासहस्रदः ।
न दीनः क्षिप्तचित्तो वा व्यथितो वाऽपि कश्चन ॥ 15 ॥
कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् ।
द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥ 16 ॥
वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।
कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ॥ 17 ॥
दीर्घायुषो नरास्सर्वे धर्मं सत्यं च संश्रिताः ।
सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥ 18 ॥
क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः ।
शूद्रास्स्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः ॥ 19 ॥
सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता ।
यथा पुरस्तान्मनुना मानवेंद्रेण धीमता ॥ 20 ॥
योधानामग्निकल्पानां पेशलानाममर्षिणाम् ।
संपूर्णा कृतविद्यानां गुहा केसरिणामिव ॥ 21 ॥
कांभोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः ।
वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥ 22 ॥
विंध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।
मदान्वितैरतिबलैर्मातंगैः पर्वतोपमैः ॥ 23 ॥
ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।
अंजनादपि निष्पन्नैर्वामनादपि च द्विपैः ॥ 24 ॥
भद्रैर्मंद्रैर्मृगैश्चैव भद्रमंद्रमृगैस्तथा ।
भद्रमंद्रैर्भद्रमृगैर्मृगमंद्रैश्च सा पुरी ।
नित्यमत्तैस्सदा पूर्णा नागैरचलसन्निभैः ॥ 25 ॥
सा योजने च द्वे भूयः सत्यनामा प्रकाशते ।
यस्यां दशरथो राजा वसन् जगदपालयत् ॥ 26 ॥
तां पुरीं स महातेजा राजा दशरथो महान् ।
शशास शमितामित्रो नक्षत्राणीव चंद्रमाः ॥ 27 ॥
तां सत्यनामां दृढतोरणार्गलां गृहैर्विचित्रैरुपशोभितां शिवाम् ।
पुरीमयोध्यां नृसहस्रसंकुलां शशास वै शक्रसमो महीपतिः ॥ 28 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे षष्ठस्सर्गः ॥