श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ पंचमस्सर्गः ।
सातुनीलेनविधिवत्स्वारक्षासुसमाहिता ।
सागरस्योत्तरेतीरेसाधुसेनानिवेशिता ॥ 1 ॥
मैंदश्चद्विविदश्चोभौतत्रवानरपुंगवौ ।
विचेरतुश्चतांसेनांरक्षार्थंसर्वतोदिशम् ॥ 2 ॥
निविष्टायांतुसेनायांतीरेनदनदीपतेः ।
पार्श्वस्थंलक्ष्मणंदृष्टवारामोवचनमब्रवीत् ॥ 3 ॥
शोकश्चकिलकालेनगच्छताह्यपगच्छति ।
ममचापश्यतःकांतामहन्यहनिवर्धते ॥ 4 ॥
नमेदुःखंप्रियादूरेनमेदुःखंहृतेतिवा ।
एतदेवानुशोचामिवयोस्याह्यतिवर्तते ॥ 5 ॥
वाहिवातयतःकांतातांस्पृष्टवामामपिस्पृश ।
त्वयिमेगात्रसंस्पर्शश्चंद्रेदृष्टिसमागमः ॥ 6 ॥
तन्मेदहतिगात्राणिविषंपीतमिवाशये ।
हानाथेतिप्रियासामांह्रियमाणायदब्रवीत् ॥ 7 ॥
तद्वियोगेंधनवतातच्चिंताविपुलार्चिषा ।
रात्रिंदिवंशरीरंमेदह्यतेमदनाग्निना ॥ 8 ॥
अवगाह्यर्णवंस्वप्स्येसौमित्रेभवताविना ।
कथंचित्प्रज्वलन्कामस्समांसुप्तंजलेदहेत् ॥ 9 ॥
बह्वेतत्कामयानस्यशक्यमेतेनजीवितुम् ।
यदहंसाचवामोरूरेकांधरणिमाश्रितौ ॥ 10 ॥
केदारस्येवकेदारस्सोदकस्यनिरूदकः ।
उपस्नेहेनजीवामिजीवंतींयच्छृणोमिताम् ॥ 11 ॥
कदानुखलुसुश्रोणींशतपत्त्रायतेक्षणाम् ।
विजित्यशत्रूंद्रक्ष्यामिसीतास्फीतामिवश्रियम् ॥ 12 ॥
कदानुचारुबिंबोष्ठंतस्याःपद्ममिवाननम् ।
ईषदुन्नम्यपास्यामिरसायनमिवातुरः ॥ 13 ॥
तस्यात्तुसंहितौपीनौस्तनौतालफलोपमौ ।
कदानुखलुसोत्कंपौश्लिष्यंत्यामांभजिष्यतः ॥ 14 ॥
सानूनमसितापांगीरक्षोमध्यगतासती ।
मन्नाथानाथहीनेवत्रातारंनाधिगच्छति ॥ 15 ॥
कथंजनकरजस्यदुहिताममचप्रिया ।
राक्षसीमध्यगाशेतेस्नुषादशरथस्यच ॥ 16 ॥
कदाऽविक्षोभ्यरक्षांसिसाविधूयोत्पतिष्यति ।
विधूयजलदान्नीलान् शशिरेखाशरत्स्विव ॥ 17 ॥
स्वभावतनुकानूनंशोकेनानशनेनच ।
भूयस्तनुतरासीतादेशकालविपर्ययात् ॥ 18 ॥
कदानुराक्षसेंद्रस्यनिधायोरसिसायकान् ।
सीतांप्रत्याहरिष्यामिशोकमुत्सृज्यमानसम् ॥ 19 ॥
कदानुखलुमांसाध्वीसीतासुरसुतोपमा ।
सोत्कंठाकंठमालंब्यमोक्ष्यत्यानंदजंजलम् ॥ 20 ॥
कदाशोकमिमंघोरंमैथिलीविप्रयोगजम् ।
सहसाविप्रमोक्ष्यामिवासश्शुक्लेतरंयथा ॥ 21 ॥
एवंविलपतस्तस्यतत्ररामस्यधीमतः ।
दिनक्षयान्मंदवपुर्भास्करोऽस्तमुपागतः ॥ 22 ॥
आश्वासितोलक्ष्मणेनरामस्संध्यामुपासत ।
स्मरन्कमलपत्राक्षींसीतांशोकाकुलीकृतः ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे पंचमस्सर्गः ॥