श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ द्विचत्वारिंशस्सर्गः ।
एवमुक्त्वा तु वचनं मारीचो रावणं ततः ।
गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिंचरप्रभोः ॥ 1 ॥
दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा ।
मद्वधोद्यतशस्त्रेऽण विनष्टं जीवितं च मे ॥ 2 ॥
न हि रामं पराक्रम्य जीवन्प्रतिनिवर्तते ।
वर्तते प्रतिरूपोऽसौ यमदंडहतस्य ते ॥ 3 ॥
किं नु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि ।
एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर ॥ 4 ॥
प्रहृष्टस्त्वभवत्तेन वचनेन स रावणः ।
परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत् ॥ 5 ॥
एतच्छौंडीर्ययुक्तं ते मच्छंदवशवर्तिनः ।
इदानीमसि मारीचः पूर्वमन्यो निशाचरः ॥ 6 ॥
आरुह्यतामयं शीघ्रं रथो रत्नविभूषितः ।
मया सह तथा युक्तः पिशाचवदनैः खरैः ॥ 7 ॥
प्रलोभयित्वा वैदेहीं यथेष्टं गंतुमर्हसि ।
तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम् ॥ 8 ॥
ततो रावणमारीचौ विमानमिव तं रथम् ।
आरुह्य ययतुश्शीघ्रं तस्मादाश्रममंडलात् ॥ 9 ॥
तथैव तत्र पश्यंतौ पत्तनानि वनानि च ।
गीरींश्च सरितस्सर्वा राष्ट्राणि नगराणि च ॥ 10 ॥
समेत्य दंडकारण्यं राघवस्याश्रमं ततः ।
ददर्श सह मारीचो रावणो राक्षसाधिपः ॥ 11 ॥
अवतीर्य रथात्तस्मात्ततः कांचनभूषणात् ।
हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् ॥ 12 ॥
एतदाश्रमपदं दृश्यते कदलीवृतम् ।
क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः ॥ 13 ॥
स रावणवचश्श्रुत्वा मारीचो राक्षसस्तदा ।
मृगो भूत्वाऽश्रमद्वारि रामस्य विचचार ह ॥ 14 ॥
स तु तद्रूपमास्थाय महदद्भुतदर्शनम् ।
मणिप्रवरशृंगाग्रस्सितासितमुखाकृतिः ॥ 15 ॥
रक्तपद्मोत्पलमुख इंद्रनीलोत्पलश्रवाः ।
किंचिदभ्युन्नतग्रीव इंद्रनीलदलाधरः ॥ 16 ॥
कुंदेंदुवज्रसंकाशमुदरं चास्य भास्वरम् ।
मधूकनिभपार्श्वश्च पद्मकिंजल्कसन्निभः ॥ 17 ॥
वैडूर्यसंकाशखुरस्तनुजंघस्सुसंहतः ।
इंद्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजता ॥ 18 ॥
मनोहरस्स्निग्धवर्णो रत्नैर्नानाविधैर्वृतः ।
क्षणेन राक्षसो जातो मृगः परमशोभनः ॥ 19 ॥
वनं प्रज्वलयन्रम्यं रामाश्रमपदं च तत् ।
मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः ॥ 20 ॥
प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् ।
विचरन्गच्छते तस्माच्छाद्वलानि समंततः ॥ 21 ॥
रूप्यैर्बिंदुशतैश्चित्रो भूत्वा स प्रियदर्शनः ।
विटपीनां किसलयान्भङ्त्क्वाऽदन्विचचार ह ॥ 22 ॥
कदलीगृहकं गत्वा कर्णिकारानितस्ततः ।
समाश्रयन्मंदगतिस्सीतासंदर्शनं तथा ॥ 23 ॥
राजीवचित्रपृष्ठस्स विरराज महामृगः ।
रामाश्रमपदाभ्याशे विचचार यथासुखम् ॥ 24 ॥
पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः ।
गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते ॥ 25 ॥
विक्रीडंश्च क्वचिद्भूमौ पुनरेव निषीदति ।
आश्रमद्वारमागम्य मृगयूथानि गच्छति ॥ 26 ॥
मृगयूथैरनुगतः पुनरेव निवर्तते ।
सीतादर्शनमाकांक्षन्राक्षसो मृगतां गतः ॥ 27 ॥
परिभ्रमति चित्राणि मंडलानि विनिष्पतन् ।
समुद्वीक्ष्य च ते सर्वे मृगा ह्यन्ये वनेचराः ॥ 28 ॥
उपागम्य समाघ्राय विद्रवंति दिशो दश ।
राक्षसस्सोऽपि तान्वन्यान्मृगान्मृगवधे रतः ॥ 29 ॥
प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् ।
तस्मिन्नेव ततः काले वैदेही शुभलोचना ॥ 30 ॥
कुसुमावचयव्यग्रा पादपानभ्यवर्तत ।
कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा ॥ 31 ॥
कुसुमान्यवचिन्वंती चचार रुचिरानना ।
अनर्हाऽरण्यवासस्य सा तं रत्नमयं मृगम् ॥ 32 ॥
मुक्तामणि विचित्रांगं ददर्श परमांगना ।
सा तं रुचिरदंतोष्ठी रूप्यधातुतनूरुहम् ॥ 33 ॥
विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत ।
स च तां रामदयितां पश्यन्मायामयो मृगः ॥ 34 ॥
विचचार पुनश्चित्रं दीपयन्निव तद्वनम् ।
अदृष्टपूर्वं तं दृष्ट्वा नानारत्नमयं मृगम् ॥ 35 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे द्विचत्वारिंशस्सर्गः ॥